SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥४३७॥ तृतीय प्रकाशा चतसृणां गतीनां नारकतिर्यग्नरामरलक्षणानामन्तो यस्मात् तच्चतुरन्तं चक्रमिव चक्रं रौद्रमिथ्यात्वादिभावशत्रुलवनात्तेन वर्तन्ते इत्येवंशीला धर्मवरचतुरन्तचक्रवर्तिनः चाउरन्तेति समृद्धयादित्वादात्वमेवं धर्मदत्वादिभिः पञ्चभिः स्तोतव्यसम्पदेव विशेषोपयोगसम्पदुक्ता ।६। इदानीं __ सर्व पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । कीटसंख्यापरिज्ञानं तस्य नः कोपयुज्यते ? ॥१॥ इति सर्वदर्शनप्रतिक्षेपेणेष्टतत्त्वदर्शनवादिनः सौगतान् प्रतिक्षिपति-अप्पडिहयवरनाणदंसणधराणं विअट्टछउमाणं-अप्रतिहते सर्वत्राप्रतिस्खलिते बरे क्षायिकत्वात् प्रधाने ज्ञानदर्शने विशेषसामान्यावबोधरूपे धारयतीति अप्रतिहतवरज्ञानदर्शनधरास्तेभ्यः, अप्रतिहतवरज्ञानदर्शनधरत्वं च निरावरणत्वेन सर्वज्ञानदर्शनस्वभावतया च, ज्ञानग्रहणं चादौ सर्वा लब्धयः साकारोपयोगोपयुक्तस्येति ज्ञापनार्थमिति । एते च कैश्चित्तत्त्वतः खल्वव्यावृत्तच्छद्यान एवेष्यन्ते यदाह ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः॥१॥ तया दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितभीरुनिष्ठम् । मुक्तः स्वयं कृतभवश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम् ॥१॥ इति । तभिवृत्त्यर्थमाह-व्यावृत्तच्छद्मभ्यः, छादयतीति छद्म ज्ञानावरणादिघातिकर्म तद्बन्धयोग्यतालक्षणो भवाधिकारच, व्यावृत्तं निवृत्तं छद्म येभ्यस्ते तथाविधाः, नाऽक्षीणे संसारे अपवर्गः क्षीणे च जन्मपरिग्रह इत्यसत ॥४३७॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy