SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ पोगशास्त्रम् तृतीय प्रकाशा ॥३५॥ भागवतमुच्यते । अतिथेः सङ्गतो निर्दोषो विभागः पश्चात्कर्मादिदोषपरिहारायांशदानरूपोऽतिथिसंविभागस्तद्रपं व्रतमतिथिसंविभागवतम् । आहारादीनां च न्यायार्जितानां प्रासुकैपणीयानां कल्पनीयानां च देशकालश्रद्धासत्कारपूर्वकमात्मानुग्रहबुद्धया यतिभ्यो दानमतिथिसंविभागः । यचु:-"नायागयाणं कप्पणिज्जाणं अन्नपाणाइणं दव्याणं देसकालसद्धासकारक्कमजुझं पराए भत्तीए आयाणुग्गहबुद्धीए संजयाणं दाणं अतिथिसंविभागो।" अनुदितं चैतत् प्रायः शुद्धस्त्रिविधविधिना प्रासुकैरेषणीयैः, कल्प्यप्रायः स्वयमुपहतैर्वस्तुभिः पानकाचैः। काले प्राप्तान् सदनमसमश्रद्धया साधुवर्गान्, धन्याः केचित्परमवहिता इन्त ! संमानयन्ति ॥१॥ अशनमखिलं खाद्य स्वाधं भवेदथ पानकं, यतिजनहितं वस्त्रं पात्रं सकम्बलप्रोग्छनम् । वसतिफलकप्रख्यं मुख्यं चरित्रविवर्द्धनं, निजकमनसः प्रीत्याधायि प्रदेयमुपासकैः ॥ २॥ तथा२साहूण कप्पणिज्जं जं न वि दिन्न कहिंचि किंचि तहिं। धीरा जहुत्तकारी सुसावगा तं न भुजति ॥२॥ श्वसहीसयणासणभत्तपाणभेसज्जवत्थपत्ताई । जइ वि न पज्जत्तधणो थोवाओ वि थोवयं देइ ॥२॥ (१) न्यायागतानां कल्पनीयानां अन्नपानादीनां द्रव्याणां देशकालश्रद्धासत्कारक्रमयुतं परया भक्त्या आत्मानुग्रह बुद्ध्या संयतानां दानं अतिथिसंविभागः । (२) साधूनां कल्पनीयं यद् नापि कस्मिंश्चित् किञ्चित् तस्मिन् । धीरा यथोक्तकारिणः सुश्रावकास्तन भुञ्जते॥२॥ (३) वसतिशयनासनभक्तपानभैषज्यवस्वपात्रादि । यद्यपि न पर्याप्तधनः स्तोकादपि स्तोकं दद्यात् ॥ २॥ ॥३५७॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy