SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥३३८।। 060020 पल्वले सत्यपि ऊपरे क्षेत्रे शालीन् वपन्ति । यथा ह्यूषरे क्षेत्रे शालिवपनं निरर्थकं, तथा रात्रावेव मया भोक्तव्य मिति निष्फलो नियमः । अधर्मनिवृत्तिरूपो हि नियमः फलवानयं तु धर्मनिवृत्तिरूप इत्यफलो विपरीतफलो वा । ६६ । रात्रिभोजनस्य फलमाह - उलूककाकमार्जारगृध्रशम्बरशूकराः । अहिवृश्चिकगोधाश्च जायन्ते रात्रिभोजनात । ६७ । रात्रिभोजनादुकादिषु जन्म भवति । उलूकादय उपलक्षणं तेनान्येष्वप्यधमतिर्यक्षु रात्रिभोजनो जायन्ते ॥ ६७॥ वनमालोदाहरणेन रात्रिभोजनदोषस्य महत्तां दर्शयति श्रूयते ह्यन्यशपथानादृत्यैव लक्ष्मणः । निशाभोजनशपथं कारितो वनमालया ॥ ६८ ॥ श्रूयते रामायणे दशरथनन्दनो लक्ष्मणः पितृनिदेशात् सह रामेण सीतया च दक्षिणापथे प्रस्थितोऽन्तरा कूवरनगरे महीधरराजतनयां वनमालामुपयेमे, ततश्च रामेण सह परतो देशान्तरं यियासन् स्वभार्या वनमालां प्रतिमोचयति स्म, सा तु तद्विरहकातरा पुनरागमनमसम्भावयन्ती लक्ष्मणं शपथानकारयत् । यथा प्रिये ! रामं मनीषिते देशे परिस्थाप्य यद्यहं भवतीं स्वदर्शनेन न प्रीणयामि तदा प्राणातिपातादिपातकिनां गति यामीति सा तु तैः शपथैरतुष्यन्ती 'यदि रात्रिभोजनकारिणां शपथं करोषि तदा त्वां प्रतिमुञ्चामि नान्यथेति' तमुवाच स तथेत्यभ्युपगत्य देशान्तरं प्रस्थितवान् । एवमन्यशपथानादृत्य लक्ष्मणो वनमालया रात्रिभोजनशपथं कारितः विशेषचरितं तु ग्रन्थगौरवभयान्नेह लिख्यते ॥ ६८ ॥ तृतीय प्रकाशः ||३३८||
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy