SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ शास्त्रम् uu तृतीय प्रकाशा ॥३३३॥ नाप ननु यत्रात्रस्य न पाको न वा भाजनधावनादिसंभवस्तत्सिद्ध मोदकादि खजरद्राक्षादि च भक्षयतःक इव दोष इत्याह-- नाप्रेक्ष्यसूक्ष्मजन्तूनि निश्यद्यात्मासुकान्यपि। अप्युद्यत्केवलज्ञानेर्नादृतं यनिशाशनम् ।५३। | प्रासुकान्यपि अचेतनान्यपि उपलक्षणत्वात्तदानीमपक्वान्यपि मोदकफलादीनि न निश्यद्यात् । कुतः ? अप्रेक्ष्यमूक्ष्मजन्तुनि अप्रेक्ष्याः प्रक्षितुमशक्याः मूक्ष्माः कुन्थुपनकादयो जन्तवो यत्र तानि विशेषणद्वारेण हेतुवचनं, अप्रेक्ष्यलक्ष्मजन्तुत्वादित्यर्थः। यद् यस्मादुत्पन्न केवलज्ञानैः केवलज्ञानवलेनाधिगतसमेतरजन्तुसंपाते। निर्जन्तुकस्याहारस्याभावानातं निशाभोजनम् । यदुक्तं निशीथभाष्ये जइवि ह फासुगदवं कुंथूपणगावि तहावि दुप्पस्सा । परचक्खनाणिणो वि ह राईभत्तं परिहरंति ॥१॥ जइवि हु पिवीलगाई दीसंति पईवमाइउज्जोए । तहवि खलु अणाइनं मूलवयविराहणा जेण ॥ २॥ ५३॥ लौकिकसंवाददर्शनेनापि रात्रिभोजनं प्रतिषेधतिधर्मविन्नैव भुञ्जित कदाचन दिनात्यये । वाह्या अपि निशाभोज्यं यदभोज्यं प्रचक्षते ॥५४॥ धर्मवित् श्रुतधर्मवेदी न कदाचिग्निशि भुञ्जीत, बाद्या जिनशासनबहिर्भूता लौकिकास्तेऽपि यत् यस्मात् निशि (१) यद्यपि खलु प्रासुकद्रव्यं कुन्थुपनका अपि तथापि दुर्दर्शाः। प्रत्यक्षज्ञानिनोऽपि खलु रात्रिभक्तं परिहरन्ति ॥१॥ (२) यद्यपि खलु पिपीलिकादयो दृश्यन्ते प्रदीपायुयोते । तथापि खलु अनाचीणं मूलव्रतविराघना येन ।२।
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy