SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ पोगशास्त्रम् तृतीय प्रकाशा ॥३३०॥ स्नुही वजतरुः, लवणनाम्नो वृक्षस्य त्वक, त्वगेव न त्वन्ये अवयवाः, कुमारी मांसलप्रणालाकारपत्रा, गिरिकर्णिका वल्लीविशेषः, शतावरी वल्लीविशेष एव, विरूढानि अङ्करितानि द्विदलधान्यानि, गुडूची वल्लीविशेषः, कोमलाऽम्लिका कोमला अबद्धास्थिका अम्लिका चिश्चिणिकाः, पल्ल्यङ्कः शाकभेदः, अमृतवल्ली वल्लीविशेषः, वल्ल: शुकरसंज्ञितः शूकरवल्ल इत्यर्थः, शूकरसंज्ञितग्रहणं धान्यवल्लनिषेधार्थम् । एते आर्यप्रसिद्धाः म्लेच्छप्रसिद्धास्तु अन्येऽपि सूत्रोक्ताः, सूत्रं जीवाभिगमः। अपरेऽपि कृपापरैः सुश्रावकैर्वर्जनीयाः। ते च मिथ्यादृष्टिनामविज्ञाताः, मिथ्यादृशो हि वनस्पतीनपि जीवत्वेन न मन्यन्ते कुतः पुनरनन्तकायान् ॥४४॥४५॥४६॥ अथ क्रमप्राप्तमज्ञातफल वर्जयितुमाहस्वयं परेण वा ज्ञातं फलमद्याद्विशारदः। निषिद्धे विषफले वा मा अभूदस्य प्रवर्तनम् ॥४७॥ अज्ञातमिति संबन्धिविशेषानिर्देशात् स्वयमात्मना, परेण अन्येन, ज्ञातं फलमद्याद्भक्षयेद्विशारदो धीमान, यत्तु स्वयं परेण वा न ज्ञातं तदज्ञातफलं वर्जयेत् । अज्ञातफलभक्षणे दोषोऽयम् -निषिद्धे फले विषफले वा अज्ञानादस्य विशारदस्य मा भूत्प्रवृत्तिः। अज्ञानतो हि प्रतिषिद्धे फले प्रवर्तमानस्य व्रतभङ्गः, विषफले तु जीवितनाशः॥४७॥ अथ क्रमप्राप्त रात्रिभोजनं निषेधुमाहअन्नं प्रेतपिशाचाथैः सञ्चरभिर्निरङकुशैः। उच्छिष्टं क्रियते यत्र तत्र नाद्यादिनात्यये ॥४॥ प्रेता अधमा व्यन्तराः, पिशाचा व्यन्तरा एवः, आद्यग्रहणाद्राक्षसादिपरिग्रहः, निशाचरत्वाग्निरङ्कुशैः सर्वत्र ॥३३०॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy