SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ योग अईम् तृतीयः प्रकाशः। तृतीय प्रकाशा शास्त्रम् ॥३१०॥ अथाणुव्रतव्यावर्णनानन्तरं गुणवतानामवसरस्तत्रापि प्रथमं गुणवतमाह| दशस्वपि कृता दिक्षु यत्र सीमा न लक्ष्यते । ख्यातं दिग्विरतिरिति प्रथमं तद्गुणव्रतम् ॥१॥ ऐन्द्री, आग्नेयी, याम्या, नैऋती, वारुणी, वायव्या, कौबेरी, ऐशानी, नागी, ब्राह्मीति दश दिशस्तासु, अपिशब्दादेकद्विव्यादिदिक्ष्वपि, सीमा मर्यादा. कृता प्रतिपन्ना, यत्र व्रते सति, न लङ्घचते नातिक्रम्यते, तत्प्रथमं गुणवतम् । उत्तरगुणरूपं व्रतं गुणवतम्, गुणाय चोपकाराय अणुव्रतानां व्रतं गुणवतम् , ख्यातं प्रसिद्ध तस्याभिधानं दिग्विरतिरिति ॥११॥ ननु हिंसादिपापस्थानविरतिरूपाणि युक्तान्यणुव्रतानि, दिगवते तु कस्य पापस्थानस्य निवृत्तिर्येनास्य व्रतत्वमुच्यते ? उच्यते-अत्रापि हिंसादीनामेव पापस्थानानां विरतिरेतदेवाहचराचराणां जीवानां विमर्दननिवर्तनात् । तप्तायोगोलकल्पस्य सद्वृतं गृहिणोऽप्यदः ॥२॥ चरास्त्रसा द्वीन्द्रियादयः, अचराः स्थावराः एकेन्द्रियाः, तेषां नियमितसीमाबहिर्वतिनां जीवानां, यद्विमर्दनं यातायातादिना हिंसा, तस्य निवत्तनाद्धेतोरिदमपि हिंसाप्रतिषेधपरमेव गृहस्थस्यापि सव्रतम् । हिंसाप्रतिषेधपरत्वे ॥३१ ॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy