SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ पौग शास्त्रम ॥२४१ ॥ वात्स्यायन श्लोको यथा रक्तजाः कृमयः सूक्ष्मा मृदुमध्याधिशक्तयः । जन्मवत्मसु कण्डूर्ति जनयन्ति तथाविधाम् ॥ ८० ॥ रक्तजा रक्तोद्भवाः, कृमयो जन्तुविशेषाः, सम्मा अप्रत्यक्षाः, मृदुमध्याधिशक्तयः मृदुशक्तयो मध्यशक्तयोऽधिशक्तयश्च, तथाविधां मृदुमध्याधिमात्रशक्त्यनुरूपां मृदुशक्तयो मृद्वीं, मध्यशक्तयो मध्यां, अधिकशक्तयोऽधिकां कण्डूतिं कण्डू जन्मवत्सु योनिषु जनयन्ति ॥ ८० ॥ कामज्वरचिकित्सार्थमौषधमिव मैथुनसेवनमिति यो मन्यते तं प्रत्याह स्त्रीसम्भोगेन यः कामज्वरं प्रतिचिकीर्षति । स हुताशं घृताहुत्या विध्यापयितुमिच्छति ॥ ८१ प्रतिचिकीर्षति प्रतिकर्तुमिच्छति, विध्यापयितुं शमयितुम्, अयमर्थो - नायं कामज्वरस्य प्रतीकारोऽनुगुणः अपि तु बृद्धिहेतुः, न हि हुताशे घृताहुतिप्रक्षेपस्तच्छान्त्यै भवति किन्तु तद्वृद्धयै । बाह्या अप्याहु:न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवत्र्मेव भूय एवाभिवर्द्धते ॥१॥ किन्तु कामज्वरप्रतीकारा ईषत्करा वैराग्यभावनाप्रतिपक्षसेवाधर्मशास्त्रश्रवणादयः, तदेतेषु कामज्वरप्रशान्त्युपायेषु सत्सु किं भवभ्रमणहेतुना मैथुनसेवनेन ॥८१॥ एतदेवाह - वरं ज्वलदयस्तम्भपरिरम्भो विधीयते । न पुनर्नरकद्वाररामाजघनसेवनम् ॥८२॥ द्वितीय प्रकाश‍ ॥२४१ ॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy