SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥१९६॥ द्वितीय प्रकाशा को दण्डदण्डचक्रासिशुलशक्तिधराः सुराः । हिंसका अपि हा कष्टं पूज्यन्ते देवताधिया ॥४९॥ ___ हा कष्टमित्यतिशयनिदे हिंसका अपि रुद्रप्रभृतयः सुराः प्राकृतैर्जनैः पूज्यन्ते विविधपुष्पोपहारादिभिर हा कष्टमित्यतिशयनिर्वेदे हिंसका अपि रूद्रप्रभृतयः सुराः प्राकृतैजनैः पूज्यन्ते विविधपुष्पोपहारादिभिरय॑न्ते । ते च यथाकथश्चिदभ्यर्च्यतां नाम केबलं देवतावुद्धिस्तत्र विरुद्धा इत्याह-देवताधिया। हिंसकत्वे विशेषणद्वारेण हेतुमाह-कोदण्डदण्डचक्रासिशूलशक्तिधरा इति कोदण्डादिधरत्वाद्धिसकाः, हिंसकत्वमन्तरेण कोदण्डादीनां धारयितुमयुक्तत्वात् । कोदण्डधरः, शङ्करः, दण्डधरो यमः, चक्रासिधरो विष्णुः, शूलधरौ शिवौ, शक्तिधरः कुमारः उपलक्षणमन्येषां शस्त्राणां शस्त्रधराणां च ॥४९॥ एवं प्रपञ्चतो हिंसां प्रतिषिध्य तद्विपक्षमतमहिसावतं श्लोकद्वयेन स्तौतिमातेव सर्वभूतानामहिंसा हितकारिणी। अहिंसैव हि संसारमरावमृतसारणिः ॥५०॥ अहिंसा दुःखदावाग्निप्रावृषेण्यघनावली। भवभ्रमिरुगा नामहिंसा परमौषधी ॥५१॥ स्पष्टम् ॥५०॥५१॥ अहिंसावतस्य फलमाहदीर्घमायुः परंरुपमारोग्यं श्लाघनियता । अहिंसायाः फलं सर्वं किमन्यत्काणदैव सा ॥५२॥ अहिंसापरो हि परेषामायुर्वर्दयननुरुपमेव जन्मान्तरे दीर्घायुष्ट्वं लभते । तथैव पररूपमविनाशयन् प्रकृष्ट रूपमनोति । तथैव चास्वास्थ्यहेतुं हिंसां परिहरन् परमस्वास्थ्यरूपमारोग्यं लभते सर्वभूताभयप्रदश्च तेभ्य आत्मनः श्लाघनीयतामश्नुते । एतत्सर्वमहिंसायाः फलं, कियद्वा शृङ्गन्याहिकया वक्तुं शक्यते इत्याह-किमन्यत्कामदेव सा ॥१९॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy