SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ॥१९३॥ 50 380009 NORSEE दिषु देवपूजाच्छद्मना ये जन्तुघातं कुर्वन्ति ये च यज्ञव्याजेन गतघृणा निर्दयास्ते घोरां रौद्रां दुर्गति नरकादिलक्षणां यान्ति, अत्र देवोपहारव्याजेनेति विशेषाभिधानं यज्ञव्याजेनेत्युपसंहारः, क्वाऽपि च निराबाधे धर्मसाधने स्वाधीने साबाधपराधीनधर्मसाधनपरिग्रहो न श्रेयान् । यदाहुः - अर्को चेन्मधु विन्देत किमर्थं पर्वतं ब्रजेदिति ॥ ३९ ॥ शमशीलदयामूलं हित्वा धर्मं जगद्धितम् । अहो हिंसा पि धर्माय जगदे मन्दबुद्धिभिः॥४०॥ शमः कषायेन्द्रियजयः, शीलं सुस्वभावता, दया भूतानुकम्पा, एतानि मूलं कारणं यस्य स तथा धर्मोऽभ्युदयनिःश्रेयसकारणं तं । किं विशिष्ट ? जगद्धितं हित्वा उपेक्ष्य शमशीलादीनि धर्मसाधनान्युपेक्ष्येत्यर्थः, अहो इति विस्मये हिंसाऽपि धर्मसाधनवहिर्भूता धर्मसाधनत्वेन मन्दबुद्धिभिरुक्ता सर्वजनप्रसिद्धानि शमशीलादीनि धर्मसाधनान्युपेक्ष्य अधर्मसाधनमपि हिसां धर्मसाधनत्वेन प्रतिपादयतां परेषां व्यक्तैव मन्दबुद्धिता ||४०|| एवं तावल्लभमूला शान्त्यर्था कुलक्रमायाता यज्ञनिमित्ता देवोपहारहेतुका च हिंसा प्रतिषिद्धा । पितृनिमित्ता अवशिष्यते तां प्रतिनिषेधितुं परशास्त्रीयां परलोकी मनुवदतिहविर्यच्चिररात्राय यच्चानन्त्याय कल्पते । पितृभ्यो विधिवद्दत्तं तत्प्रवक्ष्याम्यशेषतः ॥४१॥ चिररात्रशब्दो दीर्घकलवचनः, यच्चानन्त्याय केनचिद्धविषा दीर्घकालतृप्तिर्जायते केनचिदनन्तैव तदुभयं प्रवक्ष्यामि ॥४१॥ O: OX OXENO OBE द्वितीय प्रकाशः ॥१९३॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy