SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥१९१॥ द्वितीय प्रकाशा एष्वर्थेषु पशून् हिंसन वेदतत्वार्थविद्विजः। आत्मानं च पशुंश्चैव गमयत्युत्तमां गतिम् ॥३६॥ एतानर्थान् साधयितुं पशुन् हिंसन द्विज आत्मानं पशुश्चोत्तमां गतिं स्वर्गापवर्गलक्षणां गमयति प्रापयति वेदतत्त्वार्थविदिति विदुषोऽधिकारित्वमाह ॥३६॥ हिंसाशास्त्रमनूद्य पुनस्तदुपदेशकानाक्षिपतिये चक्रुः क्ररर्माणः शास्त्रं हिंसोपदेशकम् । क्व ते यास्यन्ति नरके नास्तिकेभ्योऽपि नास्तिकाः॥३७॥ ये मन्वादयः-करं निर्धणं कर्म येषां ते क्रूरकर्माणः शाखं स्मृत्यादि हिंसाया उपदेशकं चक्रुः ते हिसाशास्त्रकर्तारः क नरके यास्यन्तीति विस्मयः । ते चास्तिकाभासा अपि नास्तिकेभ्योऽपि नास्तिकाः परमनास्तिका इत्यर्थः ॥३७॥ उक्तं चेत्यनेन संवादश्लोकमुपदर्शयति-- वरं वराकश्चार्वाको योऽसौ प्रकटनास्तिकः । वेदोस्तितापसच्छमच्छन्नं रक्षो न जैमिनिः॥३८ वरमिति मनागिष्टो जैमिन्यपेक्षया चार्वाको लौकायातिकः वराक इति दम्भरहितत्वादनुकम्प्यः । तदेवाहयोऽसौ प्रकटनास्तिकः । जैमिनिस्तु न बरं कुतः वेदोक्तितापसच्छद्म तापसवेषस्तेन छन्नं रक्षो राक्षसः, अयं हि वेदोक्ति मुखे कृत्वा सकलप्राणिवचनात् मायावी राक्षस इव । यच्चोक्तं यज्ञार्थ पशवः स्वष्टा इति तद्वाङ्मात्र निजनिजकर्मनिर्माणमाहात्म्येन नानायोनिषु जन्तवः समुत्पद्यन्त इति व्यलीकः कस्यचित् सृष्टिवादः, यज्ञोऽस्य भूत्यै सर्वस्येति त्वर्थवादः पक्षपातमात्र, वधोऽवध इति तूपहासपात्रं वचः, यज्ञार्थ विनिहतानां चौषध्यादीनां पुनरुच्छू ॥१९॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy