SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ द्वितीय प्रकाशः योगशास्त्रम् ॥१२॥ रौद्रध्यानमन्तरेणाप्यविवेकाल्लोभावा या शान्तिनिमित्तं कुलक्रमाद्वा हिंसा न केवलं पापहेतुःप्रत्युत विघ्नशान्तिनिमित्तं क्रियमाणा समरादित्यकथोक्तस्य यशोधरजीवस्य सुरेन्द्रदत्तस्येव पिष्टमयकुक्कुटवधरूपा विघ्नाय जायते कल्पेत अस्मत्कुलाचारोऽयमिति बुद्धयाऽपि कृता हिंसा कुलमेव विनाशयति ॥२९॥ इदानी कुलक्रमायातामपि हिसां परिहरन् पुमान् प्रशस्य एवेत्याह । अपि वंशक्रमायाता यस्तु हिंसां परित्यजेत् । सश्रेष्ठः सुलस इव कोलसौकरिकात्मजः॥३०॥ वंशः कुलं कुलक्रमायातामपि हिंसां यः परिहरेत् सः श्रेष्टः प्रशस्यतमः सुलस इव, तस्य विशेषणं काल सौकरिकात्मजः कालसौकरिको नाम सौनिकस्तस्यात्मज पुत्रः । यदाहअवि इच्छन्ति य मरणं न य परपीडं कुणन्ति मणसा वि । जे सुविइअसुगइपहा सोयरिअसुओ जहा सुलसो ॥ मुलसकथानकं सम्प्रदायगम्यम् । स चाय महर्दि मगधेष्वस्ति पुरं राजगृहाभिधम् । तत्र श्रीवीरपादाब्जभृङ्गोभृच्छ्रेणिको नृपः॥१॥ तस्य प्रियतमे नन्दाचिल्लणे शीलभूषणे । अभूतां देवकीरोहिण्याविवानकदुन्दुभेः ॥२॥ नन्दायां नन्दनो विश्वकुमुदानन्दचन्द्रमाः । नाम्नाऽभयकुमारोऽभूदुभयान्वयभूषणः ॥३॥ राजा तस्य परिज्ञाय प्रकृष्टं बुद्धिकौशलम् । ददौ (१) अपि इच्छन्ति च मरणं न च परपीडां कुर्वन्ति मनसापि । ये सुविदितसुगतिपथाः सौकरिकसुतो यथा मुलसः (२) वसुवेवस्य कृष्णपितुः । ulgeli
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy