SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥११५॥ द्वितीय प्रकाशन मिथ्यात्वेनालीढचित्ता नितान्तं, तत्त्वातत्त्वं जानते नैव जीवाः । किं जात्यन्धाः कुत्रचिद्वस्तुजाते, रम्यारम्यव्यक्तिमासादयेयुः ॥३॥ देवादेवगुर्वगुरुधर्माधर्मेषु लक्षयितव्येषु देवलक्षणमाह-- | सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः यथास्थितार्थवादी च देवोऽर्हन् परमेश्वरः ॥४॥ देवस्य देवत्वे चतुरोऽतिशयानाचक्षते विचक्षणाः । तद्यथाज्ञानातिशयः १ अपायापगमातिशयः २ पूजातिशयः ३ वागतिशयश्च ४ । तत्र सर्वज्ञ इत्यनेन सकलजीवाजीवादितत्त्वज्ञतया ज्ञानातिशयमाह । न तु यथाहुर्विशृङ्खलवादिनः परे।। सर्व पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ॥१॥ दूरं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । प्रमाणं दूरदर्शी चेदेतान् गृध्रानुपास्महे ॥२॥ इति ॥ न हि विवक्षितस्यैकस्यापीष्टस्यार्थस्य ज्ञानमशेषार्थज्ञानमन्तरेण भवति । सर्वे हि भावा भावान्तरैः साधारणासाधारणरूपा १इत्यशेषज्ञानमन्तरेण २सालक्षण्यवैलक्षण्याभ्यां नैकोऽपि ज्ञातो भवति । यदाहुः एको भावः सर्वथा येन दृष्टः, सर्वे भावास्तच्चतस्तेन दृष्टाः । सर्वे भावाः सर्वथा येन दृष्टा, एको भावस्तत्त्वतस्तेन दृष्टः ॥१॥ (१) इत्यशेषज्ञतामन्तरेण । (२) लक्षणसहितस्य भावः सालक्षण्यम् । सर्व पश्यतु वा मा वा तामष्टं तु पश्यतु । प्रमाण रण भवति । सर्वे हि
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy