SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् अहम् द्वितीय प्रकाशा द्वितीयः प्रकाशः। ॥१२॥ गृहिधर्माय कल्पत इत्युक्तं गृहिधर्मच श्रावकधर्मः स च सम्यक्त्वमूलानि द्वादश व्रतानि तान्येवाह-- सम्यक्त्वमूलानि पञ्चाणुव्रतानि गुणास्त्रयः। शिक्षापदानि चत्वारि व्रतानि गृहमेधिनाम् ॥१॥ सम्यक्त्वं मूलं कारणं येषां तानि सम्यक्त्वमूलानि । अणूनि महाव्रतापेक्षया लघूनि व्रतानि अहिसादीनि पञ्च एतानि मूलगुणाः । गुणास्त्रय उत्तर गुणरूपाः ते च गुणव्रतानि दिग्वतादीनि त्रीणि । शिक्षणं शिक्षा अभ्यासः शिक्षायै पदानि स्थानानि चत्वारि सामायिकादीनि प्रतिदिवसाभ्यसनीयानि तत एव गुणवतेभ्यो भेदः। गुणब्रतानि हि प्रायो यावज्जीविकानि गृहमेधिनां श्रावकाणाम् ॥१॥ सम्यक्त्वमूलानीत्युक्तं तत्र सम्यक्त्वं विभजतिया देवे देवताबुद्धिगुरौ च गुरुतामतिः। धर्मे च धर्मधीः शुद्धा सम्यक्त्वमिदमुच्यते ॥२॥ या देवे गुरौ धौ च वक्ष्यमाणलक्षणे देवत्वगुरुत्वधर्मत्वबुद्धिरयमेव देवो गुरुर्धर्म इति निश्चयपूर्वा रुचिः श्रद्धानमिति यावत्, शुद्धा अज्ञानसंशयविपर्यासनिराकरणेन निर्मला सा सम्यक्त्वम् । यद्यपि रुचिजिनोक्ततत्वे ॥११॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy