SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् योगस्वरूपम् LIR RUL उत्पादनोद्गमैषणाध्मांगारप्रमाणकारणतः । संयोजनाच पिण्डं शोधयतामेषणासमितिः ॥१॥ इति ॥३८॥ आदाननिक्षेपसमितिमाह-- आसनादीनि संवीक्ष्य प्रतिलिख्य च यत्ननः। गृह्णीयान्निक्षिपेद्वा यत्सादानसमितिः स्मृता ॥३९॥ आसनं विष्टरः आदिशब्दाद्वस्त्रपात्रफलकदण्डादेः परिग्रहः । तान्यासनादीनि संवीक्ष्य चक्षुषा प्रतिलिख्य रजोहरणादिना यत्नत इत्युपयोगपूर्वकम् । अन्यथा सम्यक्प्रतिलेखना न स्यात् । यदाह १पडिलेहणं कुणतो मिहो कई कुणइ जणवयकहं वा । देइ व पच्चक्खाणं वाएइ सय पडिच्छइ वा ॥१॥ २पुढवीआउकाए तेऊवाऊवणस्सइतसाण । पडिलेहणापमत्तो छण्डंपि विराहगो भणिओ ॥२॥ यद्गृह्णीयादाददीत निसिपेत् स्थापयेत्सवीक्षितप्रतिलिखितभूमौ सा आदाननिक्षेपसमितिः। भीमो भीमसेन इति न्यायादादानसमितिः ॥३७॥ उत्सर्गसमितिमाह| कफमूत्रमलपोयं निर्जन्तुजगतीतले । यत्नाद्यदुत्सृजेत्साधुः सोत्सर्गसमितिर्भवेत् ।४०। कफः श्लेष्मा मुखनासिकासञ्चारी मूत्रं प्रश्रवणं मलो विष्ठा प्रायग्रहणादन्यदपि परिष्ठापनायोग्य वस्त्रपात्रभतपानादि गृह्यते । निर्जन्तुस्खसस्थावरजन्तुरहिता स्वयं च निजन्तुर्या जगती तस्यास्तलं स्थण्डिलमित्मर्थः। तत्र (१) प्रतिलेखनां कुर्वन् मिथः कथां करोति जनपदकथां वा । ददाति वा प्रत्याख्यानं वाचयति स्वयं प्रतीच्छति वा । (२) पृथिव्यप्कायतेजोवायुवनस्पतित्रसानाम् । प्रतिलेखनाप्रमत्तः षण्णामपि विराधको भणितः ॥ ॥१३॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy