SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् योग स्वरूपम् ॥७९॥ असत्यपि धने धनगर्दवतो राजगृहनगरद्रमकस्येव चित्तसंक्लेशो दुर्गतिपातनिबन्धनं भवति । सत्यपि वा | द्रव्यक्षेत्रकालभावलक्षणे सामग्रीविशेषे तृष्णाकृष्णाहिनिरूपद्रवमनसां प्रशमसुखप्राप्त्या चित्तविप्लवाभावः । अत एव धर्मोपकरणधारिणां यतीनां शरीरे उपकरणे च निर्ममत्वानामपरिग्रहत्वम् । यदाह यदत्तुरगः सत्स्वप्याभरणभूषणेष्वनभिषक्तः । तद्वदुपग्रहवानपि न सङ्गमुपयाति निर्ग्रन्थः ॥१॥ यथा च धर्मोपकरणवतामपि मूर्छारहितानां मुनीनां न परिग्रहग्रहित्वदोषस्तथा वतिनीनामपि गुरूपदिष्टधर्मोपकरणधारिणीनां रत्नत्रयवतीनां तेन तासां धर्मोपकरणपरिग्रहमात्रेण मोक्षापवादः प्रलापमात्रम् ॥२४॥ पञ्चभिः पञ्चभिर्युक्ता भावनाभिविमुक्तये इत्युक्तं तत्प्रस्तौति-- भावनाभिर्भावितानि पञ्चभिः पञ्चभिः क्रमात् । महाव्रतानि नो कस्य साधयन्त्यव्ययं पदम् ॥२५॥ | भाव्यन्ते वास्यन्ते गुणविशेषमारोप्यन्ते महाव्रतानि यकाभिस्ता भावनाः ॥२५॥ अथ प्रथमव्रतस्य भावना आहमनोगुप्त्येषणादानेर्याभिः समितिभिः सदा। दृष्टान्नपानग्रहणेनाहिंसां भावयेत् सुधीः॥२६॥ मनोगुप्तिर्वक्ष्यमाणलक्षणा तयेत्येका भावना। एषणा विशुद्धपिण्डग्रहणलक्षणा तस्यां या समितिः ।आदानग्रहणेन निक्षेप उपलक्ष्यते । तेन पीठादेग्रहणे स्थापने च या समितिः। ईरणमीर्या गमनं तत्र या समितिः आभिरेषणादानेर्यासमितिभिदृष्टयोरनपानयोग्रहणेनोपलक्षणत्वात् तद्ग्रासेनाहिसां भावयेदिति सम्बन्धः। इह ॥७९॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy