SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ज्ञानमीमांसा। वक्तव्यम् किं सुखादिनिदर्शनेन? तत्र चोक्तमेव दूषणम् । अथ सुखादेरज्ञानत्वे ततोऽनुग्रहाद्यभावो भवेत्, ननु किं सुखमेवानुग्रहः, उत ततो भिन्नम् ? प्रथमपक्षे व ज्ञानत्वेनासौ व्याप्तः यतस्तदभावे न स्यात् व्यापकाभावे हि नियमेन व्याप्याभावः परस्याभीष्टः अन्यथा प्राणादेः सात्मकत्वेन क्वचिद् व्यात्यसिद्धावप्यात्माभावे स न भवेदिति केवलव्यतिरेकिहेत्वगमकत्वप्रदर्शनमयुक्तं भवेत् । तन्न प्रथमः पक्षः । नापि द्वितीयः यतो यदि नाम सुखे ज्ञानताऽभावः अर्थान्तरभृतानुग्रहस्याभावे५ किमायातम् न हि यज्ञदत्तस्य गौरताअभा(ताऽभा)वे देवदत्ताभावो दृष्टः। तज्ज्ञानताकार्यत्वात् तदभाव इति चेत्, न; परं प्रति तदसिद्धेः । किञ्च, ग्राह्यग्राहकभाववत् समानसमय-भिन्नसमययोः कार्यकारणभावो दुरन्वय इति प्राक् प्रतिपादितं न पुनरुच्यते । तन्न नैयायिकादीन् प्रति ज्ञानता सुखादेः कुतश्चित् साधनात् सिद्धा । प्रत्यक्षतस्तत्सिद्धिरिति चेत्, न; नीलादावप्यध्यक्षत एव तत्सिद्धिप्रसक्तेरनुमानोपन्यासस्तत्र तत्साधनाय वैफल्यमासादयेत् तथापि तदुपन्यासे सुखादावपि १० तत्प्रसाधनाय तस्योपन्यासो भवेत् न हि नीलादिकमपि स्वसंवेद्यमिति परस्य न सिद्धम् । अथ तत्र जडतासमारोपाद तद्व्यवच्छेदार्थमनुमानं प्रवर्त्तमानं नानर्थकं तर्हि सुखादावपि तद्व्यवच्छेदाय तत् प्रवर्त्तमानं किमित्यनर्थकं भवेत् ? अस्ति च तत्रापि नैयायिकादीनां जडतासमारोपः तत्र च तत्प्रवर्त्तने दोषःप्रतिपादित एव । न च विपरीतारोपव्यतिषक्तमूर्तयो भावा दृष्टान्तीभवन्ति साध्याविशेषादिति । न सुखादीनां प्रकृतसाध्ये दृष्टान्तता । न च जैनस्य तत्र समारोपाभावात तं प्रति १५ तस्य दृष्टान्तता साधनोपन्यासस्यापि तमेव प्रति प्रसक्तेनैकान्ततोऽर्थाभावः सर्वान् प्रति विप्रतिपत्तेरनिराकरणाद् जैनस्यापि किमिति तत्र तदभावः? तेन तंत्र ज्ञानत्वनिश्चयात् निश्चयसमारोपयोश्च विरोधादिति चेत्, कुतः पुनस्तत्र तस्य तन्निश्चयः? प्रमाणमन्तरेणेति चेत्, न; तथानिश्चितस्य दृष्टान्तत्वायोगात् । प्रमाणतश्चेत् नीलादौ जडतानिश्चयस्यापि तत एव संभवात् समारोपाभावतोऽनुमानोपन्यासो व्यर्थस्तव्यवच्छेदाय । नीलादावजडे जडतानिश्चयो न प्रमाणनिबन्धनस्तेन २० तत्रानुमानोपन्यास इति चेत् सुखादौ कुतस्तन्निबन्धनो ज्ञानतानिश्चयः? अध्यक्षतस्तस्य ज्ञानता. सिद्धिरिति चेत्, न; इतरत्रापि तत एव जडतासिद्धेः न च जडतानिश्चयहेतुरध्यक्षं प्रमाणमेव न भवति इतरत्रापि तत्प्रसक्तेः अबाधितत्वमुभयत्र समानम् न च जैनस्य सुखादौ प्रकाशनं ज्ञानरूपतया व्याप्तं प्रसिद्धमिति तेन स्तम्भादौ ज्ञानता साध्यत इति न किञ्चित् प्रमाणाप्रमाणसिद्धताविचारेण प्रयोजनं यतः स्वतःप्रकाशनं ज्ञानरूपतया व्याप्तं तस्य यत् सिद्धं तत् स्तम्भादौ २५ नास्तीत्यसिद्धो हेतुः परतःप्रकाशनं यत् स्तम्भादौ तस्य सिद्धं न तद् ज्ञानरूपतया व्याप्तम् प्रकाशनमात्रं च स्तम्भादावुपलभ्यमानं जडतयाऽविरुद्धत्वान्नैकान्ततो ज्ञानरूपतां साधयतीति न प्रकाशनलक्षणो हेतुर्ज्ञानरूपतां स्तम्भादेः साधयतीति स्थितम् । अथ माभून्नीलादेर्शानरूपता तत्प्रसाधकप्रमाणाभावतः पारमार्थिकार्थरूपता तु तस्य कुतो येन ताहिज्ञानमर्थनिर्णीतिरूपतया प्रमाणं भवेत् ? उच्यते; अबाधितप्रत्ययविषयत्वान्नीलादेः परमार्थ-३० रूपता । तथाहि जाग्रदवस्थोपलभ्यमानो नीलादिः परमार्थसन् सुनिश्चिताऽसंभवद्वाधकप्रमाणत्वात् सुखादिसंवेदनवत् । न चास्य प्रत्यक्षं बाधकम् अस्खलत्प्रत्ययविषयतया सर्वेरस्य दर्शनात् अन्यथा व्यवहारिणस्तत्र प्रवृत्तिर्न स्यात् । न चानुमानं वाधकम् अध्यक्षसिद्धेऽनुमानस्य बाधकत्वेनाप्रवृत्तेः न चानुमानमर्थासत्त्वप्रतिपादकमुपलभ्यते । अथ यद् विशददर्शनावसेयं न तत् परमार्थसत् यथा तैमिरिकोपलभ्यमानं केशोन्दुकादि, विशददर्शनावसेयं च स्तम्भादिकमित्यतोऽनुमानात् तदभावः, ३५ न; अस्यानुमानस्य पराभ्युपगमेन प्रामाण्यायोगादिति प्रतिपादितत्वात् । किञ्च, परमार्थसत्ताभावः १“अनुग्रहः"-बृ० ल० टि.। २ “ज्ञानरूपता"-बृ० ल० टि.। ३-ताभा-बृ० विना। ४ "न खलु यज्ञदत्तस्य गौरत्वाभावे देवदत्ताभावो दृष्टः"-प्रमेयक. पृ. २४ द्वि. पं० ११। ५ तज्ञा-ल. वा. बा० । तदज्ञाभां. मां०। ६-त एतत्-बृ० विना। ७ "ज्ञानरूपता"-बृ. ल. टि.। ८ "जैनम्"-बृ० ल. टि.। ९ “जैनेन"-बृ० ल. टि.। १० "सुखादिषु"-बृ. ल.टि.। ११-यावि-बृ० विना। १२ पृ. ३६१ टि. ३१ । एतत्पदस्यार्थ स्पष्टीकर्तुमयमष्टसहस्रीगतः पाठो विचारणीयः-"नभसि केशादिज्ञानं हि बहिर्विसंवादकत्वात् प्रमाणाभासम् खरूपे संवादकत्वात् प्रमाणम्"-पृ. २४८ पं० ११।
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy