SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ज्ञेयमीमांसा। ७२१ अन्यतरशब्दवाच्यस्तदा हेतोरसिद्धता सपक्षयोघंटाऽऽकाशयोः शब्दाख्ये धर्मिणि अप्रवृत्तेः असिद्धे अन्तर्भूतस्य अस्य न प्रकरणसमता । न च पक्ष-सपक्षयोर्व्यतिरिक्तः कश्चिद् अन्यतरशब्दवाच्यः यस्य पक्षधर्मता अन्वयश्च भवेत् । तन्नायं हेतुः। ____अत्र प्रतिविदधति-भवेदेष दोषः यदि पक्ष-सपक्षयोर्विशेषशब्दवाच्ययोर्हेतुत्वं विवक्षितं भवेत्। तच्च न, अन्यतरशब्दाभिधेयस्यैव हेतुत्वेन विवक्षितत्वात्। स च पक्ष-सपक्षयोः साधारणः तस्यैव५ साधारणशब्दाभिधेयत्वात् । यदि च अनुगतो द्वयोर्धर्मः कश्चित् शब्दवाच्यो न भवेत् तदा 'विशेष'शब्दवत् 'अन्यतर'शब्दोऽपि न तत्र प्रवर्तेत । नापि तच्छब्दात् उभयत्र प्रतीतिर्भवेत् दृश्यते च तस्मात् पक्षताम् सपक्षती चासाधारणरूपत्वेन कल्पितां परित्यज्य अन्यतरशब्दो द्वयोरपि वाचकत्वेन योग्यः ततो या विशेषप्रतीतिः सा पुरुषविवक्षानिबन्धना यदा हि साधनप्रयोक्ता पक्षधर्मत्वमस्य विवक्षति तदा 'अन्यतर'शब्दवाच्यः पक्षः सपक्षे अनुगमविवक्षायां तु सपक्षस्तच्छब्दवाच्यः१० एतदभिप्रायवांश्च 'अन्यतर'शब्दवाच्यं हेतुत्वेन प्रतिपादयति न 'विशेष'शब्दवाच्यम् । न च विवक्षानिवन्धनशब्दप्रवृत्तौ पक्षादिशब्दवत् अन्यतर'शब्दोऽपि विशेषाभिधायी स्यात् यतो लोकव्यवहाराच्छब्दार्थसंबन्धव्युत्पत्तिः तत्र च 'पक्ष'शब्दस्य न सपक्षे प्रवृत्तिः नापि 'सपक्ष'शब्दस्य पक्षे यथा च अनयोः संकेतादपि नान्यत्र वृत्तिः एवम् 'अन्यतर'शब्दस्य सामान्ये संकेतितस्य न विशेष एव वृत्तिः उभयाभिधायकत्वे तु विवक्षावशेन अन्यतरत्र नियमः । न चैवमपि विशेषे तस्य वृत्तौ दूषणं तद्वस्थ. १५ मेव, एवंदोषोद्भावने कस्यचित् सम्यग्घेतुत्वानुपपत्तेः कृतकत्वादेरपि पक्षधर्मत्वविवक्षायां विशेषरूपत्वात् अनुगमाभावात् सपक्षविशेषितस्य पक्षधर्मत्वायोगात् । अथ कृतकत्वमात्रस्य हेतुत्वेन विवक्षातो न दोषस्तर्हि तत् प्रकृतेऽपि तुल्यम् 'अन्यतर'शब्दस्यापि अनङ्गीकृतविशेषस्य द्वयाभिधाने सामोपपत्तेः। एतेन यदुक्तं न्यायविदा-"अनर्थः खल्वपि कल्पनासमारोपितो न लिङ्गम् तथा पक्ष एवायं पक्ष-सपक्षयोरन्यतरः" [ ] इत्यादि तदपि निरस्तम् त्रैरूप्यसद्भावेऽपि २० प्रकरणसमत्वेनास्यागमकत्वात् । प्रत्यक्षाऽऽगमबाधितकर्मनिर्देशानन्तरप्रयुक्तः कालात्ययापदिष्टोऽपि हेत्वाभासोऽपरोऽभ्युपगतः यथा 'पक्कानि एतानि आम्रफलानि, एकशाखाप्रभवत्वात् , उपयुक्तफलवत्' अस्य हि रूपत्रययोगिनोऽपि प्रत्यक्षबाधितकर्मानन्तरप्रयोगात् कालात्ययापदिष्टता अगमकत्वे निवन्धनम् हेतोः कालः अदुष्टकर्मानन्तरं प्रयोगः प्रत्यक्षादिविरुद्धस्य तु दुष्टकर्मानन्तरं प्रयोगात् हेतु. कालव्यतिक्रमेण प्रयोगः तस्माच्च कालात्ययापदिष्टशब्दाभिधेयता हेत्वाभासता च । तदुक्तं न्यायभा-२५ ष्यकृता-“यत् पुनरनुमानं प्रत्यक्षाऽऽगमविरुद्ध न्यायाभासः स इति"[वात्स्यायनभा० पृ०४ पं०५] तदेवं पञ्चलक्षणयोगिनि हेतौ अविनाभावपरिसमाप्तेः तत्पुत्रत्वादौ तु त्रैलक्षण्येऽपि कालात्ययापदिष्टत्वान्न गमकत्वम् इति नैयायिकाः। असदेतत्, असिद्धादिव्यतिरेकेण अपरस्य प्रकरणसमादेः हेत्वाभासस्यायोगात् । यच्च प्रकरणसमस्य 'अनित्यः शब्दः अनुपलभ्यमाननित्यधर्मकत्वात्' इति उदाहरणं प्रदर्शितम् तद् असंगतमेव, ३० यतः अनुपलभ्यमाननित्यधर्मकत्वं यदि शब्दे न तत्त्वतः सिद्धं तदा पक्षवृत्तितयास्यासिद्धेः कथं नासिद्धः? अथ तत् तत्र सिद्धम् तदा किं साध्यधर्मान्विते धर्मिणि तत् सिद्धम्, उत तद्विकल इति वक्तव्यम् । यदि तदन्विते तदा साध्यवत्येव धर्मिणि तस्य सद्भावसिद्धेः कथमगमकता न हि साध्यधर्ममन्तरेण धर्मिण्यभवनं विहाय अपरं हेतोः अविनाभावित्वम् तच्चेत् समस्ति कथं न गमकता अविनाभावनिबन्धनत्वात् तस्याः? अथ तद्विकले तत् तत्र सिद्धं तदा तत्र वर्तमानो हेतुः कथं न ३५ विरुद्धः विपक्ष एव वर्तमानस्य विरुद्धत्वात् ? भवति च साध्यधर्मविकल एव धर्मिणि वर्तमानो विपक्षवृत्तिः। अथ संदिग्धसाध्यधर्मवति तत् तत्र वर्तते तदा संदिग्धविपक्षव्यावृत्तिकत्वाद् अनैकान्तिकः। अथ साध्यधर्मिव्यतिरिक्ते धर्म्यन्तरे यस्य साध्याभाव एव दर्शनं स विरुद्धः यस्य च तदभावेऽपि असौ अनैकान्तिकः न हि धर्मिण एव विपक्षता तस्य हि विपक्षत्वे सर्वस्य हेतोः अहेतुत्वप्र. सक्तेः यतः साध्यधर्मी साध्यधर्मसदसत्त्वाश्रयत्वेन सर्वदा संदिग्ध एव साध्यसिद्धेः प्राय अन्यथा४० साध्याभावे निश्चिते साध्याभावनिश्चायकेन प्रमाणेन बाधितत्वात् हेतोरप्रवृत्तिरेव स्यात् । प्रत्यक्षादिप्रमाणेन च साध्यधर्मयुक्ततया धर्मिणो निश्चये हेतोर्वैयर्थ्यप्रसक्तिः प्रत्यक्षादित एव हेतुसाध्यस्य १-तां वा सा-भां०। २ पृ० ७२० पं० २।
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy