SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ १७ ५ श्रीमद्वाचकयशोविजयैः स्वीये तत्र तत्र ग्रन्थे सम्मतितर्कीयकाण्डत्रयगता बढ्यो गाथाः प्रकीर्णतया क्रमबद्धतया च विवृता दृश्यन्ते अभ्यासिनामानुगुण्याय तामां सर्वासामपि तदीयव्याख्योपेतानां गाथानां ग्रन्थसमाप्तिगामिषु परिशिष्टेषु संकलयितुमिष्टतया नयकाण्डवत् प्रस्तुतेऽपि काण्डे तत्र तत्र टिप्पणके खण्डीकृत्य नोपन्यासः कृतः । एवमेवान्यैरपि श्वेताम्बरीय-दिगम्बरीयैराचार्यैः कृतविवरणत्वेनोपलभ्यास्तत्तद्गाथास्तेषु परिशिष्टेषु संकलयितुमिष्टतया न कचित् टिप्पणके उपन्यास्यन्त । प्रस्तुतभागसंशोधनकर्मोपयोगिषु पाठान्तरग्रहण-प्रतिप्रेक्षणादिपु नीरसेषु क्लिष्टेषु च बहुमूल्येषु कार्येषु सहायतां विदधानान् उदारचित्तप्रवर्तकश्रीकान्तिविजयशिप्यान् श्रीचतुरविजय-पुण्यविजयादीन् कृतज्ञतापूर्वकं स्मराम इति । मुग्वलाल बेचरदासश्च।
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy