SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ज्ञानमीमांसा। ५९५ कान्तेन भेदोऽभेदो वा उभयात्मकतया जात्यन्तररूपस्य वस्तुनो विरोधादिदोषविकलस्य साधितत्वात् । तेनैकान्तभेदाभेदपक्षावाश्रित्यानवस्थादि सकलमेव दूषणजातमनास्पदम् अध्यक्षप्रमाणप्रसिद्धे सदसदात्मके वस्तुनि सर्वस्य दूपणत्वेनाभिहितस्य तदाभासत्वात् । उपमानादेरप्यविसंवादकस्य प्रमाणत्वे सर्वस्य परोक्षेऽन्तर्भावात् अन्यसंख्याव्युदासेन प्रत्यक्ष परोक्षं चेति द्वे एव प्रमाणे अभ्युपगन्तव्ये अन्यथा तत्संख्यानवस्थितेः । [ मुख्यवृत्त्या संव्यवहारेण च परोक्षप्रमाणस्य स्वरूपविभजनम् ] किं पुनरिदं परोक्षम् ? अविशदमविसंवादि ज्ञानं परोक्षम् । तेन "मुख्यसंव्यवहारेण संवादि विशदं मतम् ।। ज्ञानमध्यक्षमन्यद्धि परोक्षमिति संग्रहः" [ ] इति । "यद् यथैवाविसंवादि प्रमाणं तत् तथा मतम् । विसंवाद्यप्रमाणं च तदध्यक्ष-परोक्षयोः" ॥ [ 1 तिमिराद्युपप्लुतं ज्ञानं चन्द्रादावविसंवादकत्वात् प्रमाणम् तत्संख्यादौ तदेव विसंवादकत्वादप्रमाणं प्रमाणेतरव्यवस्थायास्तल्लक्षणत्वात् यतो ज्ञानं यदप्यनुकरोति तत्र न प्रमाणमेव समारोपव्यवच्छेदापेक्षत्वात् अन्यथा दृष्टे प्रमाणान्तरवृत्तिन स्यात् कृतस्य करणायोगात् तदेकान्तहानेः कथंचित् करणानिः तदस्य विसंवादोऽप्यवस्तुनिर्भासाचन्द्रादिवस्तुनिर्भासादविसंवादोऽपीत्येकस्यैव ज्ञानस्य १५ यत्राविसंवादस्तत्र प्रमाणता इतरत्र तदाभासतेति प्राक् प्रतिपादितत्वान्न पुनरुच्यते । स्थितमेतत् प्रत्यक्षं परोक्षं च द्वे एव प्रमाणे। __ अत्र च मति-श्रुताऽवधि-मनःपर्याय-केवलज्ञानानां मध्ये मति-श्रुते मुख्यतः परोक्षं प्रमाणम् । अवधि-मनःपर्याय-केवलानि तु प्रत्यक्षं प्रमाणम् । तदुक्तं वाचकमुख्येन "मति-श्रुताऽवधि-मनःपर्याय-केवलानि ज्ञानम्"। "तत् प्रमाणे"। "आद्ये परोक्षम्"। "प्रत्यक्षमन्यत्"। [ तत्त्वार्थ० १-९,१०,११,१२] अस्य च सूत्रसमूहस्य व्याख्या गन्धहस्तिप्रभृतिभिर्विहितेति न प्रदर्श्यते । परोक्षप्रमाणता च मतेर्मुख्यवृत्त्याऽत्र प्रदर्शिता । संव्यवहारतस्तु विशदरूपस्य मतिभेदस्य प्रत्यक्षताऽभ्युपगतैव ॥१॥ २५ १ एतत्पद्यगतो भावः श्रीसमन्तभद्रेण "तत्त्वज्ञानं प्रमाणं ते"-आप्तमी० श्लो० १.१] इति कारिकांशेन प्रतिपिपादयिषितः, स एव च भट्टारकाकलङ्केन अष्टशत्यां स्पष्टीकृतः । तद्यथा "बुद्धरनेकान्तात् येनाकारेण तत्त्वपरिच्छेदस्तदपेक्षया प्रामाण्यमिति तेन प्रत्यक्षतदाभासयोरपि प्रायशः संकीर्णप्रामाण्येतरस्थितिरुन्नेतव्या प्रसिद्धानुपहतेन्द्रियदृष्टेरपि चन्द्रार्कादिषु देशप्रत्यासत्त्याद्यभूताकारावभासनात् तथोपहताक्षादेरपि संख्यादिविसंवादेऽपि चन्द्रादिखभावतत्त्वोपलम्भात् तत्प्रकर्षापेक्षया व्यपदेशव्यवस्था गन्धद्रव्यादिवत् । तथानुमानादेरपि कथंचिन्मिथ्याप्रतिभासेऽपि तत्त्वप्रतिपत्त्यैव प्रामाण्यम्"-अष्टश० अष्टस. पृ. २७६ पं० १५-। २-क्षयोः॥ अस्ति तैमि-भा० ।-क्षयोः॥ अस्ति तिमि-मा० । ३-दप्युपक-भा० मा०। ४ "मति-श्रुते"-बृ० टि०।
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy