SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ज्ञानमीमांसा । ५९१ अथ तत्र साध्याविनाभूतादनुपलम्भादेर्लिङ्गाद् दृष्टान्तान्तरमन्तरेणाप्यभावनिर्णयः शब्दादिव्यवहारस्य च प्रवृत्तिस्तर्झनुपलब्धावन्वयमन्तरेणापि गमकत्वमविनाभावमात्रात् कथं नाभ्युपगतं भवेत् ? एतेन 'व्यतिरेकस्यान्वयेन विनाभावादगमकाङ्गता' इत्यपास्तम् तेन नेदं निरात्मकं जीवच्छरीरम् अप्राणादिमत्त्वप्रसङ्गादिति व्यतिरेक्यपि हेतुर्गमकः सिद्धः। अथ सर्वथा परोक्षस्यात्मनोऽनुपलम्भादभावासिद्धरनात्मवत्तया घटादीनां सन्देहान् व्यतिरेकासिद्धितोऽस्य हेतोरनैकान्तिकत्वम्। नन्वेवं५ कथं सत्त्वादेः क्षणिकत्वव्याप्तिसिद्धिर्यतः क्षणक्षयी ध्वनिः सिध्येत? अथात्र विपर्यये बाधकप्रमाणबलात् सत्त्वस्य क्षणक्षयित्वेन व्याप्तिसिद्धिस्तत्रापि बाधकप्रमाणबलादेव निरात्मकाद् घटादेरविचलितस्वरूपादात्मनश्च प्राणादीनां निवृत्तेः सात्मकत्वेन तेषां व्याप्तिसिद्धिः किं नाभ्युपगम्यते ? अथैवमपि स्वरसनिरन्वयविनश्वरबुद्धिमात्रजन्यत्वात् प्राणादेर्बुद्धिसन्तानेन व्याप्तिप्रसक्तिः, असदेतत्; बुद्धिक्षणस्य अप्राप्य स्वकायेकालं निवृत्तेरपरबुद्धिक्षणस्य तेत उत्पत्तेरसंभवात् सन्तानव्यावृ कुतस्तत्र प्राणादेर्वृत्तिः? सन्तानसद्भावेऽपि निरंशस्वभावस्य शक्तिनानात्वमन्तरेण कार्यनानात्वासंभवात् कुर्तश्चित्तक्षणश्चित्तक्षणान्तरजनकः सन् प्राणादेरुपकारकः स्यात् ? अथ कारणशक्तिभेदाभावेऽपि कार्याण्येव भिद्यन्ते कथं तहक्षणिकतायामर्थक्रियाविरोधः सिध्येत् क्रमयोगपद्याभ्यामर्थक्रियाभावात् तदभावो वा युक्तिसङ्गतः स्यात् ? नित्यस्य चात्मनोऽसंभवे कथं तेन सात्मकत्वं घटादिषु सन्दिग्धं येन निरात्मकाद् घटादेः प्राणादिमत्त्वादेः सन्दिग्धो व्यतिरेको भवेत् । तस्मात् १५ परिणाम्यात्मव्यतिरेकेण जीवच्छरीरस्य प्राणादिमत्त्वमनुपपन्नम् निरंशस्यैकपरमाणुवत् तदुपकारासंभवाच्च कूटस्थेन निरंशक्षणिकविज्ञानपरमाणुसन्ततिरूपेण चात्मना सात्मकत्वसाधने तस्येष्टविघातकृद् विरुद्धः प्राणादिमत्त्वादिहेतुः प्रसज्यते। ____ अथ साध्याभावे सर्वत्र साधनाभावो व्यतिरेकः साधनसद्भावेऽपि साध्यसद्भावाभावे व्यतिरेक एव न भवेत् साधनाभावेन साध्याभावस्याव्याप्तत्वात् य एव च साध्यसद्भाव एव साधनस-२० द्भावः स एवान्वयः स च दृष्टान्तधर्मिणमन्तरेणापि साध्यधर्मिण्यपि विपर्यये बाधकप्रमाणबलान्निश्वीयमानः कथमसन् ? न चैवं पक्षत्वेनेच्छाव्यवस्थितलक्षणेन तत्र पारमार्थिकस्य सपक्षत्वस्य बाधाअन्यथा साध्यधर्मिण्येव हेतुः अविद्यमानसाध्यधर्मे वर्तमानो विरुद्धः स्यात्-इति तत्रै तयुक्त एव वर्तमानः कथं न सपक्षवृत्तिः ? इति यत्र व्यतिरेकसद्भावस्तत्रावश्यमन्वयः यत्र चासौ तत्रावश्यभावी व्यतिरेक इति नैकसद्भावे द्वितीयस्याभावः; नन्वेवमपि 'श्व उदेष्यति सविता अद्यतनादित्यो-२५ दयात्' 'जाता समुद्रवृद्धिः शशाङ्कोदयदर्शनात्' इत्यादिप्रयोगेषु हेतोः पक्षधर्मत्वाभावेऽपि गमकत्वोपलब्धेर्न पक्षधर्मत्वं तल्लक्षणम् अथात्रापि कालस्य देशस्य वा तावतः पक्षत्वमिति पक्षधर्मता, न; कालस्याकाशस्य च पक्षत्वेन सौगतस्यानिष्टेः । अथापि भूतसंक्षोभादिलक्षणः कालः आकाशं वा पक्षत्वेनाभ्युपगम्यत एवेति नापक्षधर्मता, न; लोकस्य साध्यान्यथानुपपन्नहेतुप्रदर्शनमात्रादेव पक्षधर्मत्वाद्यनुस्मरणमन्तरेणापि साध्यप्रतिपत्तिदर्शनात् त्रैलक्षण्यस्य तत्र सतोऽप्यकिञ्चित्करत्वात् ।३० न च सौगताभ्युपगमेन हेतोः पक्षधर्मता सम्भवति सामान्यस्यावस्तुतयाऽभ्युपगतस्य हेतुत्वे शशशृङ्गादेरिव पक्षधर्मतासम्भवात स्खलक्षणस्य च हेतत्वे पक्ष एव हेतरिति नैतद्धो हेतः अभेदे धर्मिधर्मभावस्थानुपपत्तेः स्खलक्षणस्य चान्यत्राननुगमान्नान्वयसिद्धिः अतद्रूपपरावृत्तस्य तस्य हेतुत्वेऽपि स्खलक्षणपक्षभावी दोषस्तदवस्थ एव अतद्रूपपरावृत्तेः स्वलक्षणादव्यतिरेकात् व्यतिरेके अनुग तत्वे पारमार्थिकत्वे च सामान्यस्य भङ्गयन्तरेण हेतुत्वमभ्युपगतं भवेत् कल्पनाविरचितस्य हेतुत्वे ३५ १-श्व प्रमाणादी-ल. आ. हा. वि.। २"प्राणादीनाम्"-बृ० ल.टि.। ३ "सोत्साह"-बृ० ल.टि.। ४-रसनिर-बृ० । ३-१ इत्यती तृतीयातत्पुरुषसूचकौ भातः। ५ तत् उ-भां. मां. विना। ६-र्ता णान्त-बृ० ल० वा. बा. विना। ७ घटादेः सोत्साह प्राणादि-आ० हा० वि० । अत्र “सोत्साह" इति तृतीयटिप्पनकं पाठे प्रविष्टं भाति । घटोदेः बृ० । अङ्कौ पञ्चम्येकवचनसूचकौ बोद्धयौ। -मत्त्वादेः बृ० । षष्ट्येकवचनसूचकावको ज्ञातव्यो। ९-धनाऽस-वा० बा०।-धनास-भां• मां०। १०-ये वा बा-बृ० आ. विना। ११ “साध्यधर्मिणि साध्यधर्मः"-बृ.टि.। १२ "हेतु"-बृ.टि.। १३ "आलोकसंज्ञकम्"-बृ. ल. टि.। १४-न्यस्य व-वा. बा.। १५-देरेव भा. मां।
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy