SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे - पुनरभ्यासप्रवृत्तिसंभवात् प्रकृष्टेऽपि मिथ्याज्ञान- रागादावुत्पद्येते एव सम्यग्ज्ञान-वैराग्ये नैवं तयोः प्रकर्षावस्थायां दोषदर्शनं तत्र तद्विपर्यये वा गुणदर्शनं येन पुनस्तत्सात्मीभावेऽपि मिथ्याज्ञान- रागादेरुत्पत्तिः संभाव्येत । न चानजस्य ज्ञानस्य सर्ववित्संबन्धिनः कथं प्रत्यक्षशब्दवाच्यतेति वक्तुं युक्तम्, यतोऽक्षजत्वं प्रत्यक्षस्य शब्दव्युत्पत्तिनिमित्तमेव न पुनः शब्दप्रवृत्तिनिमि५ त्तम् तन्निमित्तं हि तदेकार्थाश्रितमर्थ साक्षात्कारित्वम् । अन्यद्धि शब्दस्य व्युत्पत्तौ निमित्तम् अन्यच्च प्रवृत्तौ यथा गोशब्दस्य गमनं व्युत्पत्ती, गोपिण्डाश्रितगोत्वं प्रवृत्तौ निमित्तम्- अन्यथा यदि यदेव व्युत्पत्तिनिमित्तं तदेव प्रवृत्तावपि तदा गच्छन्त्यामेव गवि गोशब्दप्रवृत्तिः स्यात् न स्थितायाम्, महिष्यादौ च गमनपरिणामवति गोशब्दः प्रवर्त्तत - तथाऽत्रापि प्रवृत्तिनिमित्तसद्भावात् प्रत्यक्षव्यपदेशः संभवत्येव । यद्वा यदेव व्युत्पत्तिनिमित्तं तदेव प्रवृत्तावप्यस्तु तथापि तच्छन्दवाच्यता१० यास्तत्र नाभावः । तथाहि - 'अनुने' सर्वपदार्थान् ज्ञानात्मना व्याप्नोतीति व्युत्पत्तिशब्दसमाश्रयणाद् अक्षः आत्मा, तमाश्रितम् उत्पाद्यत्वेन तं प्रति गतमिति प्रत्यक्षमिति व्युत्पत्तेः । अभ्युपगमवादेन चाभ्यासवशात् प्राप्तप्रकर्षेण ज्ञानेन सर्वज्ञ इति प्रतिपादितम् । न त्वस्माकमयमभ्युपगमः किन्तु ज्ञानाद्यावारकघातिकर्मचतुष्टयक्षयोद्भूताशेषज्ञेयव्याप्य निन्द्रिय शब्द लिङ्ग साक्षात्का रिज्ञानवतः सर्वज्ञत्वमभ्युपगम्यते । ६२ १५ यच्चोम् 'यद्यतीतानागतवर्त्तमानाशेष पदार्थ साक्षात्कारिज्ञानेन सर्वज्ञस्तदा क्रमेणातीता'नागत पदार्थवेदने पदार्थानामानन्त्याद् न ज्ञानपरिसमाप्तिः' इति, तदयुक्तम् ; तथाऽनभ्युपगमात्; शास्त्रार्थे क्रमेणानुभूतेऽप्यत्यन्ताभ्यासान्न क्रमेण संवेदनमनुभूयते तद्वद्वत्रापि स्यात् । यदप्यधायि 'अथ युगपत्सर्व पदार्थवेदकं तज्ज्ञानमभ्युपगम्यते तदा परस्परविरुद्धानां शीतोष्णादीनामेकज्ञाने प्रतिभासासंभवात्; संभवेऽपि' इत्यादि, तदप्ययुक्तम्; यतः परस्परविरुद्धानां किमे२० कदाऽसंभवः, किंवा संभवेऽप्येकज्ञानेऽप्रतिभासनं भवता प्रतिपादयितुमभिप्रेतम् ? तत्र यद्याद्यः पक्षः, स न युक्तः; जलाऽनलादीनां छायाऽऽतपादीनां चैकदा विरुद्धानामपि संभवात् । अथैकत्र विरुद्धानामसंभवस्तदाऽसंभवादेव नैकत्र ज्ञाने तेषां प्रतिभासो न पुनविरुद्धत्वात् विरुद्धानामपि तेषामेकज्ञाने प्रतिभाससंवेदनात् । एतेन 'विरुद्धार्थग्राहकस्य च तज्ज्ञानस्य न प्रतिनियतार्थग्राहकत्वं स्यात्' इत्याद्यपि निरस्तम्, छायाऽऽतपादिविरुद्धार्थग्राहिणोऽपि ज्ञानस्य प्रतिनियतार्थ ग्राहकत्व२५ संवेदनात् । यच्चोक्तम् 'यदि युगपत्सर्वपदार्थग्राहकं तज्ज्ञानं तदेकक्षण एव सर्वपदार्थवेदनात् द्वितीयादिक्षणे किञ्चिज्ज्ञ एव स स्यात्' इत्यादि, तदप्यत्यन्तासंबद्धम् यतो यदि द्वितीयक्षणे पदार्थानाम् तज्ज्ञानस्य चाभावः स्यात् तदा स्यादप्येतत्; न चैतत्संभवति, तथाऽभ्युपगमे द्वितीयक्षणे सर्वपदार्थाभावात् सकलसंसारोच्छेदः स्यात् । यदप्यभ्यर्धायि 'अनाद्यनन्तपदार्थसंवेदने तत्संवेदनस्यापरिसमाप्तिः' इत्यादि, तदप्ययुक्तम्; अत्यन्ताभ्यस्तशास्त्रार्थज्ञानस्येव युगपदनाद्यनन्तार्थग्राहि३० णतज्ज्ञानस्यापि परिसमाप्तिसंभवात् अन्यथा भूत-भविष्यत् सूक्ष्मादिपदार्थग्राहिणः प्रेरणाजनितज्ञानस्यापि कथं परिसमाप्तिः ? तत्राप्यपरिसमाप्त्यभ्युपगमे "चोदना भूतं भवन्तं भविष्यन्तम्” इत्यादिवचनस्य नैरर्थक्यं स्यादिति । यदपि 'परस्थरागादिसंवेदने सरागः स्यात्' इत्यादि, तदप्यसङ्गतम् ; नहि परस्थरागादिसंवेदनाद् रागादिमान् भवति; अन्यथा श्रोत्रियद्विजस्यापि स्वप्नज्ञानेन मद्यपानादिसंवेदनाद् मद्यपानदोषः स्यात् । अथाप्यरसनेन्द्रियजं तज्ज्ञानमिति ३५ नायं दोषस्तर्हि सर्वज्ञज्ञानमपि नेन्द्रियजमिति कथमशुचिरसास्वाद दोषस्तत्रासज्येत ? न च रागादिसंवेदनाद् 'रागी' इति लोके व्यवहारः किन्त्वङ्गनाकामनाद्यभिलींषस्व संविदितस्याशि ष्टव्यवहारकारिणः स्वात्मस्वभावस्योत्पत्तेः न चासौ तत्रेति कथं स रागादिमान् ? यदेपि 'अथ शक्तियुक्तत्वेन सर्वपदार्थवेदनम्' इत्यादि, तदप्यचारुः यथा उपलब्धिलक्षणप्राप्ते सन्निहित देशादावनुपलब्धेः 'अपरमत्र नास्ति' इति इदानीं तनानामियत्तानिश्चयस्तथा सर्वज्ञस्यापि स्वशक्तिपरिच्छे४० दात्; अन्यथा घटादीनामपि क्वचित् प्रदेशेऽभावनिश्चये ऽपरप्रकारासंभवात् सकलव्यवहारविलोपः । १ ततोऽत्रा - वा० पू०, बा०, मां० ५ पृ० ५२ पं० ७ । ६ पृ० ५२ पं० ९ १० । १० - लाषत्वं स्व-कां० । ११ २ पृ० ५२ पं० ३ । ३ । ७ - दनाद्यन्तार्थ - मां० । स्वात्मकं स्वभा-गु० । पृ० ५२ पं० ४। ४ पृ० ५२ पं० ६ । ८ पृ० ४३ पं० ४२ । ९० ५२ पं० १२०५२०११।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy