SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ सर्वज्ञवादः। यत्किञ्चिदेतत् । तेनाग्निगमकत्वेन धूमस्य यो न्यायः सोऽत्रापि समान इति विशिष्टज्ञानगमकत्वं विशिष्टशब्दस्याभ्युपगन्तव्यम्। अथ शानविशेषग्रहणे प्रवृत्तं सविकल्पकं निर्विकल्पकं वा ततो भिन्नमभिन्नं वा ज्ञानं न वचनविशेष प्रवर्त्तते, तस्य तदानीमनुत्पन्नत्वेनासत्त्वात् तदप्रवृत्तेन च ज्ञानविशेषस्वरूपमेव तेन गृह्यते न तदपेक्षया तस्य कारणत्वम्, वचनविशेषग्राहक्रेणापि तत्स्वरूपमेव गृह्यते न पूर्व प्रति कार्यत्वम् , कार-५ जस्यातीतत्वेनाग्रहणात्: नाप्युभयग्राहिणा, भिन्नकालत्वेन तयोरेकज्ञाने प्रतिभासनाऽयोगात्: अत एव स्मरणमपि न तयोः कार्यकारणभावावेदकम् , अनुभवानुसारेण तस्य प्रवृत्युपपत्तेः, अनुभवस्य चात्र वस्तुनि निषिद्धत्वात्: असदेतन्: यतः कार्यस्य न तावदसावनुत्पन्नस्यैव कार्यत्वं धर्मः, असत्वात् तदानीम् : नाप्युत्पन्नस्यात्यन्तभिन्नं तत् . तद्धर्मत्वादेव । तथा. कारणस्यापि कारणत्वं कार्यनिष्पत्यऽनिष्पत्त्यवस्थायां न भिन्नमेव । नापि तयोः कार्यकारणभावः संबन्धोऽन्योऽस्ति, भिन्नकालत्वादेवः १० संबन्धस्य च द्विष्ठत्वाभ्युपगमात् । ततस्तन्स्वरुपग्राहिणा प्रत्यक्षेण तदभिन्नस्वभावधर्मरूपं कारणत्वं कार्यत्वं च गृह्यते एव क्षयोपशमवशात्: यत्र तु स नास्ति तत्र कार्यदर्शनादपि न तन्निश्चीयते, यतो नाकार्य-कारणयोः कार्यकारणभावः संभवति । नापि तेनाभिन्ना उत्तरकालं तयोः कार्यकारणता कर्तुं शक्या, विरोधात् । नापि भिन्ना. तयोः स्वरूपेणाकार्यकारणताप्रसङ्गात् । नापि स्वरूपेण कार्य-कारजयोरर्थान्तरभूतकार्यकारणभावस्वरूपसंवन्धपरिकल्पनेन प्रयोजनम्, तद्यतिरेकेणापि स्वरूपेणैव १५ कार्यकारणरूपत्वात् । न च भिन्नपदार्थग्राहि प्रत्यक्षद्वयं द्वितीयाग्रहणे तदपेक्षं कार्यत्वं कारणत्वं वा ग्रहीतुमशक्तमिति वक्तुं युक्तम् . क्षयोपशमवतां धृममात्रदर्शनेऽपि वह्निजन्यतावगमस्य भावात् : अन्यथा बाष्पादिवलक्षण्येन तस्यानवधारणात् ततोऽनलावगमाभावेन सर्वयवहारोच्छेदप्रसङ्गात् । कारणामि मतपदार्थग्रहणपरिणामाऽपरित्यागवता कार्यस्वरूपग्राहिणा च प्रत्यक्षेण कार्यकारणभावावगमे न कश्चिद् दोषः । न च कारणस्वभावावभासं प्रत्यक्षं न कार्यस्वरूपावभासयुक्तं प्रतिभासभेदेन भेदोपपत्तेरिति २० प्रेरणीयम्, चित्रप्रतिभासिज्ञानस्य नीलप्रतिभासाऽपरित्यागप्रवृत्तपीतादिप्रतिभास्येकत्ववत् प्रकृतज्ञानस्यापि तदविरोधात् । न च चित्रज्ञानस्याप्येकत्वमसिद्धमिति वक्तुं युक्तम् . तथाऽभ्युपगमे नीलप्रतिभासस्यापि प्रतिपरमाणुभिन्नप्रतिभासत्वेन भिन्नत्वात् एकपरमाण्ववभासस्य चाऽसंवेदनात् प्रतिभासमात्रस्याप्यभावप्रसङ्गात् सर्वव्यवहाराभावः स्यात् । अतः प्रत्यक्षमेव यथोक्तप्रकारेण सर्वोपसंहारेण प्रतिबन्धग्राहकमनुमानवादिनाऽभ्युपगन्तव्यम्: अन्यथा प्रसिद्धानुमानस्याप्यभावः स्यात् । अथेयतो२५ व्यापारान् प्रत्यक्षं कर्तुमसमर्थम् तस्य सन्निहितविषयबलोत्पत्त्या तन्मात्रग्राहकत्वात् तर्हि प्रत्यक्षेण प्रतिबन्धग्रहणाभावेऽनुमानेन तद्ग्रहणेऽनवस्थे-तरेतराश्रयदोषसद्भावादनुमानाप्रवृत्तिप्रसङ्गतो व्यवहारोच्छेदभयादवश्यमनुमानप्रवृत्तिनिवन्धनाविनाभावनिश्चायकमपरमस्पष्टसर्वपदार्थविषयमूहाख्यं प्रमाणान्तरमभ्युपगन्तव्यम् : अन्यथा 'सर्वमुभयात्मकं वस्तु' इति कुतोऽनुमानप्रवृत्तिर्मीमांसकस्य ? ततोऽसर्वज्ञत्व-रागादिमत्त्वसाधने वक्तृत्वलक्षणस्य हेतोः प्रतिवन्धस्य तत्साधकप्रमाणस्य च प्रसिद्धानुमाने ३० इवाभावान्न प्रसङ्गसाधनानुमानप्रवृत्तितः सर्वज्ञाभावसिद्धिः । विपर्ययेण वचनविशेषस्य व्याप्तत्वदर्श. नादू विपर्ययसिद्धिरेव ततो युक्ता। यच्च 'सर्वज्ञज्ञानं किं चक्षुरादिजनितम् इत्यादि पक्षचतुष्टयमुत्थाप्य 'चक्षुरादिजन्यत्वेन चक्षुरादीनां प्रतिनियतरूपादिविषयत्वेन धर्मादिग्राहकत्वायोगस्नज्ञानस्य' दूपणमभ्यधांयि, तदप्यसङ्गतम्। धर्मादिग्राहकत्वाविरोधस्य चक्षुरादिज्ञाने प्राक् प्रतिपादितत्वात् । अभ्यासपक्षे तु यद् दूषणमभ्यर्धायि न ३५ सकलपदार्थविषय उपदेशःसंभवति, नापि समस्तविषयोऽभ्यासः' इति, तदपि न सम्यकः "उत्पादव्यय-ध्रौव्ययुक्तं सत्" [त० अ०५, सू० २९] इति सकलपदार्थविषयस्योपदेशस्य सामान्यतः संभवात् । न चास्याऽप्रामाण्यम्, अनुमानादिप्रमाणसंवादतः प्रामाण्यसिद्धेः। अनुमानादिप्रवर्त्तनद्वारेण चैतदर्थाभ्यासे कथं न सकलविषयाभ्याससंभवः? यदपि न च समस्तपदार्थविषयमनुपदेशज्ञानं संभवति' इत्युक्तम्, तदप्यचारु: 'सर्वमनेकान्तात्मकम् , सत्त्वात्' इत्यनुमाननिबन्धनव्याप्तिप्रसा-४० धकप्रमाणस्य सकलपदार्थविषयस्य संभवात् : अन्यथाऽनुमानाभावस्य प्रतिपादितत्वात् । न च तज्ज्ञानवत एव सर्वज्ञत्वाद् व्यर्थोऽभ्यासः, सामान्यविषयत्वेनास्पष्टरूपस्यैवास्य ज्ञानस्य भावात् , अभ्यासजस्य च सकलतद्गतविशेषविषयत्वेन स्पष्टत्वान्न तदभ्यासो विफलः। यदपि तदभ्यासप्रवर्तकं चक्षुरा १-दपि तन्निश्चीयते मां०। २ पृ. ५१ पं०३। ३ पृ. ५६ पं. ३३ । ४ पृ. ५१ पं. ९। ५५० ५१ पं०१०। ६ प्र.पु. पं० २५ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy