SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ४४ प्रथमे काण्डे गृह्यते. उतानुमानेन ? न तावदध्यक्षेण, अध्यक्षस्यात्यक्षशानवत्सस्वसाक्षात्करणाक्षमत्वेन तदवगतिनिमित्तहेतुप्रतिबन्धग्रहणेऽप्यक्षमत्वात्। न ह्यनवगतसंबन्धिना तद्गतसंबन्धावगमो विधातुं शक्यः। नाप्यनुभानेन तद्गतसंबन्धावगमः, तथाभ्युपगमेऽनवस्थे-तरेतराश्रयदोषद्वयानतिवृत्तेः। न चाऽगृहीतप्रतिबन्धातोरुपजायमानमनुमानं प्रमाणतामासादयति । तथा, धर्मिसंबन्धावग५मोऽपि न प्रत्यक्षतः, अनमज्ञानवत्प्रत्यक्षेऽक्षप्रभवस्याध्यक्षस्याप्रवृत्तेः प्रवृत्तौ वाऽध्यक्षेणैव सर्वविदः संवेदनाद् अनुमाननिबन्धनहेतुव्यापारणं व्यर्थम् । न चानुमानतोऽप्यनक्षज्ञानवतोऽवगमः, हेतुपक्षधर्मतावगममन्तरेणानुमानस्यैव धर्मिग्राहकस्याप्रवृत्ते न चाप्रतिपन्नपक्षधर्मत्वो हेतुः प्रतिनियतसाध्यप्रतिपत्तिहेतुरिति नानुमानतोऽपि सर्वज्ञप्रतिपत्तिः। किंच, सर्वसत्तायां साध्यायां त्रयीं दोषजाति हेतु तिवर्तते असिद्ध-विरुद्धाऽनकान्तिकलक्षणाम् । तथाहि-सकलसत्त्वे साध्ये किं १०भावधर्मों हेतुः, उताभावधर्मः, आहोस्विदुभयधर्मः? तत्र यदि भावधर्मस्तदाऽसिद्धः । अथा. भावधर्मस्तदा विरुद्धः, भावे साध्येऽभावधर्मस्याभावाव्यभिचारित्वेन विरुद्धत्वात् । अथोभयधर्मस्तदोभयाव्यभिचारित्वेन सत्तासाधनेऽनैकान्तिकत्वमिति न सकलसत्त्वसाधने कश्चित् सम्यग् हेतुः सम्भवति । अपि च, यद्यनियतः कश्चित् सकलपदार्थज्ञः साध्योऽभिप्रेतस्तदा तत्कृ. तप्रतिनियतागमाश्रयणं नोपपन्नं भवताम् । अथ प्रतिनियत एक एवार्हन् सर्वज्ञोऽभ्युपगम्यते तदा १५ तत्साधने प्रयुक्तस्य हेतोरपरसर्वशस्याभावेन दृष्टान्तानुवृत्त्यसंभवादसाधारणानैकान्तिकत्वादसा धकत्वम् । किंच, यत एव हेतोः प्रतिनियतोऽर्हन् सर्वज्ञस्तत एव बुद्धोऽपि स स्यादिति कुतः प्रतिनियतसर्वज्ञप्रणीतागमाश्रयणमुपपत्तिमत् ? इति न कश्चित् सर्वज्ञसाधको हेतुः । अथ सर्वे पदार्थाः कस्यचित् प्रत्यक्षाः प्रमेयत्वात् अग्न्यादिवदिति तत्साधनहेतुसद्भावः, तदसत् ; यतोऽत्र किं सकलपदार्थसाक्षात्कार्येकज्ञानप्रत्यक्षत्वं सर्वपदार्थानां सोध्यत्वेनाऽऽभिप्रेतम् , आहोस्विद् प्रति२०नियतविपयानेकज्ञानप्रत्यक्षत्वमिति कल्पनाद्वयम् । यद्याद्यः पक्षः, स न युक्तः, प्रतिनियतरूपादिविषयग्राहकानेकप्रत्ययप्रत्यक्षत्वेन व्याप्तस्याश्यादिदृष्टान्तधर्मिणि प्रमेयत्वलक्षणस्य हेतोरुपलम्भाद हेतुविरुद्धत्व-साध्यविकलदृष्टान्तदोषद्वयाघ्रातत्वात् । अथ द्वितीयः, सोऽप्यसङ्गतः; सिद्धसाध्यतादोषप्रसङ्गात् । तथा, प्रमेयत्वमपि हेतुत्वेनोपन्यस्यमानं किमशेषज्ञेयव्यापिप्रमाणप्रमेयत्वव्यक्तिलक्षणमभ्युपगम्यते, उत अस्मदादिभमाणप्रमेयत्वव्यक्तिस्वरूपम्, आहोस्वित् उभयव्यक्ति२५साधारणसामान्यस्वभावम् इति विकल्पाः। तत्र यदि प्रथमः पक्षः, सन युक्तः; विवादाध्यासि तपदार्थेषु तथाभूतप्रमाणप्रमेयत्वस्यासिद्धत्वात्; सिद्धत्वे वा साध्यस्यापि हेतुवत् सिद्धत्वाद् व्यर्थ हेतूपादानम्, तथाभूतप्रमाणप्रमेयत्वस्य दृष्टान्तेऽग्न्यादिलक्षणेऽसिद्धेः संदिग्धान्वयश्च हेतुः स्यात् । अथ अस्मदादिप्रमाणप्रमेयत्वं हेतुस्तदा तथाभूतप्रमाणप्रमेयत्वस्य विवादगोचरेष्वतीन्द्रियेष्वसंभवादसिद्धो हेतुः; सिद्धौ वा ततस्तथाभूतप्रत्यक्षत्वसिद्धिरेव स्यात् तत्र चाविवाद ३० इति न हेतूपन्यासः सफलः । अथोभयप्रमेयत्वव्यक्तिसाधारणं प्रमेयत्वसामान्यं हेतुरिति पक्षा, सोऽप्यसङ्गतः; अत्यन्तविलक्षणातीन्द्रिय-इन्द्रियविषयप्रमाणप्रमेयत्वव्यक्तिद्वयसाधारणस्य सामान्यस्यासम्भवात्। न हि शाबलेय-कर्कव्यक्तिद्वयसाधारणमेकं गोत्वसामान्यमुपलब्धमिति प्रमेयत्वसामान्यलक्षणो हेतुरसिद्ध इति नानुमानादपि सर्वज्ञसिद्धिः। नापि शब्दात्, यतः शब्दोऽपि तत्प्रतिपादकोऽभ्युपगम्यमानः किं नित्यः, उतानित्य इति कल्पनाद्वयम् । न तावद् नित्यः, सर्वज्ञबो३५धकस्य नित्यस्याऽऽगमस्याभावात् ; भावेऽपि तत्प्रतिपादकत्वेन तस्य प्रामाण्यासम्भवात कार्येऽर्थे तत्प्रामाण्यस्य व्यवस्थापितत्वात् । अथानित्यस्तत्प्रतिपादक इति पक्षः, सोऽपि न युक्तः, यतोऽनित्योऽपि किं तत्प्रणीतः स तदवबोधकः, अथ पुरुषान्तरप्रणीत इति विकल्पद्वयम्। तत्र न सर्वशप्रणीतः स तदवबोधक इति पक्षो युक्तः, इतरेतराश्रयदोषप्रसङ्गात् । तथाहि-तत्प्रणीतत्वे तस्य प्रामाण्यम्, ततः तस्य तत्प्रतिपादकत्वमिति व्यक्तमितरेतराश्रयत्वम् । नापि पुरुषान्तरप्रणीतस्तद४० वबोधकः, तस्योन्मत्तवाक्यवदप्रमाणत्वात् तन्न शब्दादपि तस्य सिद्धिः।नाप्युपमानात् तसिद्धिः, यत उपमानोपमेययोरध्यक्षत्वे सादृश्यालम्बनं तदभ्युपगम्यतेन चोपमानभूनः कश्चित् सर्वज्ञत्वेन प्रत्यक्षतः सिद्धो येन तत्सादृश्यादन्यस्य सर्वज्ञत्वमुपमानात् साध्यते; सिद्धौ या प्रत्यक्षत एव सर्व १ प्रमेयकमलमार्तण्डे तु "सर्वज्ञसत्वे साध्ये भावधर्मों हेतुः, अभावधर्मो वा स्यात् , उभयधर्मों वा ? प्रथमपक्षे असिद्धः, भावे असिद्धे तद्धर्मस्य सिद्धिविरोधात्"-पृ० ६८ पं० १५ । २ साध्यत्वेऽभि-भा० । ३ कर्कः श्वेतोऽश्वः।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy