SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे नितलिलि-वाच्यप्रतिभासे प्राक सामान्यप्रतिभासः पश्चाद् व्यक्तिप्रतिभास इति क्रमप्रतीत्यनुभव। 'न च लक्षणा संभवति इति प्रपश्चतः प्रतिपादयिष्याम इत्यास्तां तावत् । एवं सामान्यविशिष्टधूमादिलिङ्गस्य गमकत्ववद् गत्वादिविशिष्टगादिवाचकत्वे न किञ्चिन्नित्यत्वेन, तदभावेऽपि धूमादिभ्य इवार्थप्रतिपत्तिसंभवात् । अथ धूमादौ सामान्यस्य संभवात् पूर्वोक्तेन न्यायेन गमकत्व. ५ मस्तु, शब्दे तु न किंचित् सामान्यमस्ति यद्विशिष्टस्य शब्दस्य वाचकभावः । शब्दत्वमिति चेत्, न; गोशब्दस्य शब्दत्वविशिष्टस्य स्ववाच्ये न संबन्धग्रहः । न च शब्दत्वमपि गादिषु विद्यते गोश. ब्दत्व-गत्वादीनां तु सत्त्वे का कथा । शब्दत्वादीनां त्वभावो वर्णान्तरग्रहणे वर्णान्तरानुसन्धानाभावात् । यत्र सामान्यमस्ति तत्रैकग्रहणेऽपरस्यानुसन्धानं दृष्टम् यथा शाबलेयग्रहणे बाहुले यस्य, वर्णान्तरेच गादौ गृह्यमाणेन कादीनामनुसन्धानम्, तन्न तत्र शब्दत्वादिसंभवः, एतदयुक्तम्। १० यतः किमिदमनुसन्धानं भवतोऽभिप्रेतं यद् वर्णान्तरे गृह्यमाणे वर्णान्तरस्य नास्तीति प्रतिपाद्यते ? यदि गादौ वर्णान्तरे गृह्यमाणे 'अयमपि वर्णः' इत्यनुसन्धानाभावः, तदयुक्तम् । एवंभूतानुसन्धानस्यानुभूयमानत्वेनाभावासिद्धेः। अथ गादौ वर्णान्तरे गृह्यमाणे 'अयमपि कादिः' इत्यनुसन्धानाभावान्न सामान्यसद्भावस्तदाऽत्यल्पमिदमुच्यते, शाबलेयादावपि व्यक्त्यन्तरे गृह्यमाणे 'अयमपि बाहुलेयः' इत्यनुसन्धानाभावाद् गोत्वस्याप्यभावः प्रसक्तः । अथ तत्र 'गोर्गौः' इत्यनुग. १५ ताकारप्रत्ययस्याबाधितस्य सद्भावाद् न गोवासत्त्वम्, एतद् गादिष्वपि समानम्-तत्रापि 'वों वर्णः' इत्यनुगताकारस्याबाधितस्य प्रत्ययस्य सद्भावात् कथं न वर्णेषु वर्णत्वस्य, गादिषु गत्वादेः, शब्दे शब्दत्वस्य संभवो निमित्तस्य समानत्वात् ? तथाहि-समानाऽसमानरूपासु व्यक्तिषु क्वचित् 'समाना' इति प्रत्ययोऽन्वेति, अन्यत्र व्यावर्त्तते; यत्र च प्रत्ययानुवृत्तिस्तत्र सामान्यव्यवस्था नान्यत्र, सा च प्रत्ययानुवृत्तिर्गादिष्वपि समाना इति कथं न तत्र सामान्य व्यवस्था? यदि पुन२० र्गादिष्वनुगताकारप्रत्ययसत्त्वेऽपि न गत्वादिसामान्यमभ्युपगम्यते तर्हि शाबलेयादिष्वपि न गोत्व. सामान्यमभ्युपगमनीयम्, न हि तत्रापि तथाभूतप्रत्ययानुवृत्तिमन्तरेण सामान्याभ्युपगमेऽन्यद निमित्तमुत्पश्यामः । अक्षजन्यत्वम् अबाधितत्वादि च प्रत्ययस्योभयत्रापि विशेषः समानः। यदि चानुगताऽबाधिताऽक्षजप्रत्ययविशेषविषयत्वे सत्यपि गत्वादेरभावः, गादेरपि व्यावृत्ततथाभूतप्रत्यय विषयस्याभावः स्यात् , ततश्च कस्य दर्शनस्य परार्थत्वान्नित्यत्वं साध्येत? अथ गादौ श्रोत्र२५ ग्राह्यत्वनिमित्तोऽनुगतः प्रत्ययो न सामान्य निमित्तः, तदप्ययुक्तम् । श्रोत्रग्राह्यत्वस्यातीन्द्रियत्वेना नवगमे निमित्ताग्रहणे तणनिमित्तानुगतप्रत्ययस्य गादावभावप्रसङ्गात् । न च प्रत्यभिज्ञया गादी. नामेकत्व सिद्धेदनिबन्धनस्य तेषु गत्वादिसामान्यस्याभाव इति युक्तमभिधानम्, गायकत्वग्राहिकाया लूनपुनर्जातकेश-नखादिग्विव तस्या भ्रान्तत्वात् । अथ दलितपुनरुदिते नखशिखरादौ प्रत्यभिज्ञाया बाधितत्वेन भ्रान्तत्वं न पुनर्गादौ, ननु तत्र प्रत्यभिज्ञायाः किं बाधकम् ? अन्तरालेऽ. ३० दर्शन मिति चेत्, ननु गादावप्यन्तरालेऽदर्शनं समानम् । अथ दलितपुनरुदिते नखशिखरादावभावनिमित्तमन्तरालेऽदर्शनम्, न गादावभावनिमित्तम् : किं पुनरत्रादर्शननिमित्तमिति वक्तव्यम् । किमत्र वक्तव्यम् अभिव्यक्तेरभावः। अथ केयमभिव्यक्तिर्यदभावादन्तराले गाद्यप्रतिपत्तिः? वर्णादिसंस्कारः । अथ कोऽयं वर्णादिसंस्कारः? आत्म-मनःसंयोगपूर्वकप्रयत्नप्रेरितेन कोष्ठ्येन वायुना ताल्वादिसंयोग-विभा३५गवशात् प्रतिनियतवर्णाद्यसिव्यञ्जकत्वेन भेदमासादयंता वक्तृमुखसमीपगतः स्पर्शनेन्द्रियप्रत्यक्षेण, तद्देशस्य च तूलादेः प्रेरणात् कार्यानुमानेन, देशान्तरे शब्दोपलब्ध्यन्यथाऽनुपपत्त्या च प्रतीयमानेन नित्यसर्वगतस्य गकारादेर्वर्णस्य, श्रोत्रस्य, उभयस्य चाऽऽवारकाणां वायूनामपनयनं यथाक्रमं वर्णसंस्कारः, श्रोत्रसंस्कारः, उभयसंस्कारश्चेति चेत्, ननु 'वर्णसंस्कारोऽभिव्यक्ति.' इत्यभ्युपगमे आवारकवायुभिर्विज्ञानजननशक्तिप्रतिघाताद वर्णोऽपान्तराले ज्ञानं न जनयतीति ४० अभ्युपगन्तव्यम्: सा च शक्तिवर्णस्वरूपात् कथश्चिदभिन्नाऽभ्युपगन्तव्या, एकान्तभेदे ततो वर्णादनुपकारे 'तस्य शक्तिः' इति संबन्धानुपपत्तेः; उपकारे वा तदुपकारिका अपरा शक्तिर १ ग्रन्थानम् १३००। २-यता बहुमुखसमीपगतैः वा०, पू०, बा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy