SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ वेदाऽपौरुषेयत्वपरीक्षणम् । २९ अथान्यावभासोऽसौ तदाऽत्रापि वक्तव्यम् - किं तत्कालोऽन्यावभासोऽसौ अथोत्तरकालभावी ? यदि तत्कालभावी अन्यावभासः स्मृतेः प्रमोषस्तदा घटादिज्ञानं तत्कालभावि तस्याः प्रमोषः स्यात् । अथोत्तरकालभाव्य सौ तस्याः प्रमोषः, तद्व्ययुक्तम् अतिप्रसङ्गात् - यदि नामोत्तरकालमन्यावभासः समुत्पन्नः, पूर्वज्ञानस्य स्मृतिप्रमोषत्वेनाभ्युपगतस्य तत्त्वे किमायातम् ? अन्यथा सर्वस्य पूर्वज्ञानस्य स्मृतिप्रमोषत्वप्रसङ्गः । अथान्याकारवेदित्वं तस्या असौ, तदा विपरीतख्यातिः ५ स्यात् न स्मृतिप्रमोषः । कश्चासौ विपरीत आकारस्तस्याः ? यदि स्फुटार्थावभासित्वम्, तदसौ प्रत्यक्षस्याकारः कथं स्मृतिसम्बन्धी ? तत्सम्बन्धित्वे वा तस्याः प्रत्यक्षरूपतैव स्यात् न स्मृतिरूपता । अत एव शुक्तिकायां रजतप्रतिभासस्य न स्मृतिरूपता तत्प्रतिभासेन व्यवस्थाप्यते, तस्य प्रत्यक्षरूपतया प्रतिभासनात् । नापि बाधकप्रत्ययेन तस्याः स्मृतिरूपता व्यवस्थाप्यते, यतो बाधकप्रत्ययः तत्प्रतिभातस्यार्थस्या सद्रूपत्वमावेदयति, न पुनस्तज्ज्ञानस्य स्मृतिरूपताम् | १० तथाहि - बाधकप्रत्यय एवं प्रवर्त्तते - 'न इदं रजतम्', न पुनः 'रजतप्रतिभासः प्रकृतः स्मृतिः' इति । तन्न स्मृतिप्रमोषरूपता भ्रान्तदशामभ्युपगन्तुं युक्ताः अतो नायमपि सत्पक्षः । तन्नार्थसंवेदनस्वरूपमप्यपरोक्षं सामान्यतोदृष्टं लिङ्गं प्राभाकरैरभ्युपगम्यमानं ज्ञातृव्यापारलक्षणप्रमाणानुमापकमिति मीमांसकमैतेन प्रमाणस्यैवासिद्धत्वात् कथं यथावस्थितार्थ परिच्छेदशक्तिस्वभावस्य प्रामाण्यस्य स्वतः सिद्धिः ? न हि धर्मिणोऽसिद्धौ तद्धर्मस्य सिद्धिर्युक्ता, अतो न सर्वत्र स्वतः प्रामाण्यसिद्धि- १५ रिति स्थितम् ॥ [ वेदाऽपौरुषेयत्वपरीक्षणम् ] शब्दसमुत्थस्य तु अभिधेय विषयज्ञानस्य यदि प्रामाण्यमभ्युपगम्यते तदा अपौरुषेयत्वस्यासम्भवाद् गुणवत्पुरुषप्रणीतस्तदुत्पादकः शब्दोऽभ्युपगन्तव्यः अथ तत्प्रणीतत्वं नाभ्युपगम्यते तदा तत्समुत्थज्ञानस्य प्रामाण्यमपि न स्यादित्यभिप्रायवानाचार्यः प्राह - 'जिनानाम्' राग-द्वेषमोह - २० लक्षणान् शत्रून् जितवन्त इति जिनास्तेषां 'शासनं' तदभ्युपगन्तव्यमिति प्रसङ्गसाधनम् । न चात्रेदं प्रेर्यम्-यदि जिनशासनं जिनप्रणीतत्वेन सिद्धं निश्चितप्रामाण्यमभ्युपगमनीयम् - अन्यथा प्रामाण्यस्याप्यनभ्युपगमनीयत्वादिति प्रसङ्गसाधनमत्र प्रतिपाद्यत्वेनाभिप्रेतम् - तत्कि मिति बौद्धयुक्त्याऽऽर्हतेन त्वया स्वतःप्रामाण्य निरासोऽभिहितः ? यतः सर्वसमय समूहात्मकत्वमेव आचार्येण प्रतिपादयितुमभिप्रेतम् । यद् वक्ष्यत्यस्यैव प्रकरणस्य परिसमाप्तौ । यथा'भदं मिच्छदंसणसमूहमइयस्स अमयसारस्त । जिणवयणस्स भगवओ संविग्गसुहाहिगम्मस्स' ॥ [ तृतीयकाण्डे गाथा ७० ] इत्यादि । अयमेवार्थी बौद्धयुक्त्युपन्यासेन समर्थितः । अन्यत्राप्यन्य मतोपक्षेपेणान्यमतनिरासेऽयमेवाभिप्रायो द्रष्टव्यः, सर्वनयानां परस्परसापेक्षाणां सम्यग्मतत्वेन, विपरीतानां विपर्ययत्वेनाचार्यस्येष्टत्वात् । ३० अत एवोकमनेनैव द्वात्रिंशिकायाम् "उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ ! दृष्टयः । नच तासु भवान् प्रदृश्यते, प्रविभक्तासु सरित्स्विवोदधिः" ॥ [ चतुर्थद्वात्रिंशिकायां लो० १५] २५ अथापि स्यात्, यदि प्रामाण्यापवादकदोषाभावो गुणनिमित्त एव भवेत् तदा स्यादेतत् ३५ प्रसङ्गसाधनम्, यावताऽपौरुषेयत्वेनापि तस्य सम्भवात् कथं प्रसङ्गसाधनस्यावकाशः ? असदेतत्; अपौरुषेयत्वस्यासिद्धत्वात् । तथाहि -किमपौरुषेयत्वं शासनस्य प्रसज्यप्रतिषेधरूपमभ्युपगम्यते, उत पर्युदासरूपम् ? तत्र यदि प्रसज्यरूपं तदा किं सदुपलम्भकप्रमाणग्राह्यम् उत अभावप्रमाणवेद्यम् ? यदि सदुपलम्भकप्रमाणग्राह्यम्, तदयुक्तम्; सदुपलम्भकप्रमाणविषयस्याभावत्वानुपपत्तेः, अभावत्वे वा न तद्विषयत्वम्, तस्य तद्विषयत्वविरोधाद् अनभ्युपगमाच्च । अभाव- ४० १ प्रमेयकमलमार्तण्डे ( पृ० १६, प्रथम पृ० - पं० 1 ) अत्र स्थले एवं पाठ: - " समुत्पन्नस्तर्हि पूर्वज्ञानस्य स्मृतिप्रमोषत्वेन असौ नाभ्युपगमनीयः” । २- नाभ्युपगम्य तत्वे ( म्यत्वे ) वा पू०, बा० - नाभ्युपगतत्वे किमा - अ० । ३ प्रन्थानम् - ११०० । ४ मीमांसकमते प्रमाण-कां० वि० । ५ ' तद्' इति प्रमाणम् ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy