SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे स्वभावः, उत धर्मस्वभावः इति पुनरपि कल्पनाद्वयम् । धर्मिस्वरूपत्वे ज्ञातृवन्न प्रमाणान्तरगम्यत्वमित्युक्तम् । धर्मस्वभावत्वेऽपि धर्मिणो ज्ञातुर्व्यतिरिक्तो व्यापारः, अव्यतिरिक्तः, उभयम्, अनुसयं चेति चत्वारो विकल्पाः । न तावद्यतिरिक्तः, तत्त्वे संबन्धाभावेन 'ज्ञातुर्व्यापारः' इति व्यपदेशायोगात् । अव्यतिरेके ज्ञातैव, तत्स्वरूपवद् नापरो व्यापारः। उभयपक्षस्तु विरोधमपरिहृत्य ५नाभ्युपगमनीयः । अनुभयपक्षस्तु अन्योऽन्यव्यवच्छेदरूपाणामेकविधानेनापरनिषेधादयक्त इति प्रतिपादितम् । किंच, व्यापारस्य कारकजन्यत्वाभ्युपगमे तजनने प्रवर्तमानानि कारकाणि किर अपरव्यापारभाञ्जि प्रवर्तन्ते, उत तन्निरपेक्षाणि इति विकल्पद्वयम् । यद्याद्यो विकला, तदा तद्यापारजननेऽपि तैरपरव्यापारभाग्भिः प्रवर्तितव्यम्, तज्जननेऽप्यपरव्यापारयुग्निः प्रवर्तितव्यमित्यनवस्थितेनं फल जननव्यापारोद्भूतिरिति तत्फलस्याप्यनुत्पत्तिप्रसङ्गाद् न व्यापारपरिकल्पनं १०श्रेयः । अथ अपरव्यापारमन्तरेणापि फलजनकव्यापारजनने प्रवर्तन्ते इति नायं दोषः, तर्हि प्रकृतव्यापारमन्तरेणापि फलजनने प्रवर्तिष्यत इति किमनुपलभ्यमानव्यापारकलानप्रयासेन? किंच, असौ व्यापारः फलजनने प्रवर्त्तमानः किमपरव्यापारसव्यपेक्षः, अथ निरपेक्षः इत्यत्रापि कल्पनाद्वयम् । तत्र यद्याद्या कल्पना, सान युक्ता; अपरापरव्यापारजननक्षीणशक्तित्वेन व्यापार स्यापि फलजनकत्वायोगात् । अथ व्यापारान्तरानपेक्ष एव फलजनने प्रवर्तते, तर्हि कारकाणामपि १५व्यापारनिरपेक्षाणां फलजनने प्रवृत्तौ न कश्चिच्छक्तिव्याघातः सम्भाव्यते । अथ व्यापारस्य व्यापारस्वरूपत्वान्नापरव्यापारापेक्षा,कारकाणांत्वव्यापाररूपत्वात् तदपेक्षा का पुनरियं व्यापारस्य व्यापारस्वभावता? यदि फलजनकत्वम्, तद् विहितप्रतिक्रियम् । अथ कारकाश्रितत्वम्, तदपि भिन्नस्य तजन्यत्वं विहाय न सम्भवतीत्युक्तम् । अथ कारकपरतन्त्रत्वम्, तदपि न; अनुत्पन्नस्या सत्त्वात् , नाप्युत्पन्नस्य, अन्यानपेक्षत्वात्; तथापि तत्परतन्त्रत्वे कारकाणामपि व्यापारपरतन्त्रता २० स्यात् । अथैवं पर्यनुयोगः सर्घभावप्रतिनियतस्वभावव्यावर्तक इत्ययुक्तः, तथाहि-एवमपि पर्यनुयोगः सम्भवति-वह्वेर्दाहकस्वभावत्वे आकाशस्यापि स स्यात्, इतरथा वढेरपि स न स्यादिति । स्यादेतत् यदि प्रत्यक्षसिद्धो व्यापारस्वभावो भवेत्, स च न तथेति प्रतिपादितम् । तत एवोक्तम् "स्वभावेऽध्यक्षतः सिद्धे यदि पर्यनुयुज्यते । तत्रोत्तरमिदं युक्तं न दृष्टेऽनुपपन्नता" ॥ [ ] तन्न व्यापारो नाम कश्चिद् यथाऽभ्युपगतः परैः । अथानुमानग्राह्यत्वे स्यादयं दोषः, अत एवार्थापत्तिसमधिगम्यता तस्याभ्युपगता । ननु दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यत इत्यदृष्टकल्पनाऽर्थापत्तिः, तत्र कः पुनरसौ भावो व्यापारव्यतिरेकेण नोपपद्यते यो व्यापारं कल्पयति? अर्थ इति चेत्, का पुनरस्य तेन विनाऽनुपपद्यमानता? ३०नोत्पत्तिः, स्वहेतुतस्तस्याः भावात् । किंच, असावर्थः किम् एकज्ञातृव्यापारमन्तरेणानुपपद्यमानस्तं कल्पयति, उत सर्वज्ञातृव्यापारमन्तरेण इति वक्तव्यम् । तत्र यदि सकलज्ञातृव्यापारमन्तरेणेति पक्षः, तदा अन्धोनामपि रूपदर्शनं स्यात् तद्यापारमन्तरेणार्थाभावात् सर्वज्ञताप्रसङ्गश्च । अथ एकज्ञातृव्यापारमन्तरेणानुपपत्तिस्तर्हि यावदर्थसद्भावस्तावत् तस्यार्थदर्शन मिति सुप्ता_भावः । अथ अर्थध मोऽर्थप्रकाशतालक्षणो व्यापारमन्तरेणानुपपद्यमानस्तं कल्पयति; ननु साऽप्यर्थप्रकाशताऽर्थधर्मो ३५यद्यर्थ एव तदाऽर्थपक्षोक्तो दोषः। अथ तयतिरिक्तः, तदा तस्य स्वरूपं वक्तव्यम् । तस्यानुभूयमा. नता सा इति चेत्, न; पर्यायमात्रमेतत्, न तत्स्वरूपप्रतिपत्तिरिति स एव प्रश्नः । किंच, प्रकाशोऽनुभवश्व शानमेव, तदनवगमे तत्कर्मतायाः सुतरामनवगम इत्यर्थप्रकाशता-अनुभूयमानते स्वरूपेणानबगते कथं ज्ञातृव्यापारपरिकल्पिके? किंच, अर्थप्रकाशतालक्षणोऽर्थधोऽन्यथा नुपपन्नत्वेनानिश्चितस्तं कल्पयति, आहोस्विद् निश्चित इति? तत्र यद्याद्यः कल्पः, स ४०न युक्तः, अतिप्रसङ्गात् । तथाहि-यद्यनिश्चितोऽपि तथात्वेन स तं परिकल्पयति तदा यथा तं १ पृ. २५५, ४० । २ वा०, पू०, बा. विना सर्वत्र अव्यतिरिक्ते। ३ पृ. १०५०६। ४ वा०, पू०, बा० विना प्रवर्तन्ते नायं। ५ व्यापारजनननिरपेक्षाणां आ०, गु०, डे, भा०, हा०। ६ पृ. २५ पं० १५। ७ पृ० १५० ३४। ८ पृ. २०५०५। ९ वा., पू०, बा. विना सर्वत्र तदन्धाना-। १. स्वमायभावः भा०। ११ 'तदा यथा तं परिकल्पयति' इत्ययं पाठः वा०, पू०, बा० विना न कापि ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy