SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे २३ शानसंसर्गिपदार्थान्तरोपलम्भादभावाख्यात् प्रमाणात् व्यतिरेकनिश्चयः। अथ तदसंसर्गिपदार्थान्तरोपलम्भस्वरूपमभावाख्यं प्रमाणं साध्याभावे साधनाभाव निश्चयनिमित्तम्, तदप्यसम्बद्धम् । अतिप्रसङ्गात्-न हि पदार्थान्तरोपलम्भमात्रादन्यस्य तदतुल्ययोग्यतारूपस्य तेन सहैकज्ञानासंसर्गिणः पदार्थान्तरस्याभावनिश्चयः, अन्यथा सह्योपलम्भादू विन्ध्याभावनिश्चयः स्यात् । अथ तथाभूतसाधनादन्यस्तदभावः, तविषयं ज्ञानं तदन्यज्ञानम्, तद् विपक्षे साधनाभावनिश्चयनिमित्तम्। ननु तदपि ५ ज्ञानं किं 'यत्र यत्र साध्याभावस्तत्र तत्र साधनाभावः' इत्येवं प्रवर्त्तते, उत 'क्वचिदेव साध्याभावे साधनाभावः' इत्येवम् ? तत्र यद्याद्यःकल्पः, सन युक्ता यथोक्तसाधनविविक्तसर्वप्रदेश-कालप्रत्यक्षीकरणमन्तरेण एवंभूतज्ञानोत्पत्त्यसम्भवात् । सर्वदेशप्रत्यक्षीकरणे च कालादिविप्रकृष्टानन्तप्रदेशप्रत्यक्षीकरणवत् स्वभावादिव्यवहितसर्वपदार्थसाक्षात्करणात् स एव सर्वदर्शी स्यादित्यनुमानाश्रयणं सर्वज्ञाभावप्रसाधनं चानुपपन्नम्। अथ द्वितीयपक्षाभ्युपगमः, तदा भवति ततः प्रतिनियते १० प्रदेशे साध्याभावे साधनाभावनिश्चयः-घटविविक्तप्रत्यक्षप्रदेश इव घटाभावनिश्चयः-किंतु तथाभूतात् साध्याभावे साधनाभावनिश्चयान्न व्यतिरेको निश्चितो भवति । साधनाभावनियतसाध्याभावस्य सर्वोपसंहारेण निश्चये व्यतिरेको निश्चितो भवति; अन्यथा-यत्रैव साध्याभावे साधनाभावो न भवति तत्रैव साधनसद्भावेऽपि न साध्यमिति-न साधनं साध्यनियतं स्यादिति व्यतिरेकनिश्चयनिमित्तो न हेतोः साध्यनियमनिश्चयः स्यात् तन्न द्वितीयोऽपि पक्षः। अथ न प्रकृतसाधनाभा-१५ वज्ञानं तद्विविक्तसमस्तप्रदेशोपलम्भनिमित्तम्-येन पूर्वोक्तो दोषः-किन्तु तद्विषयप्रमाणपञ्चकनिवृत्तिनिमित्तम् । तदुक्तम् "प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थ तत्राभावप्रमाणता" ॥ [श्लो० वा० सू०५, अभावप० श्लो०१] नन्वत्रापि वक्तव्यम्-किं सर्वदेश-कालावस्थितसमस्तप्रमातृसंवन्धिनी तन्निवृत्तिस्तथाभूतसाधना-२० भावज्ञाननिमित्तम्, उत प्रतिनियतदेश-कालावस्थितात्मसम्बन्धिनी इति कल्पनाद्वयम् । तत्र यद्याद्या कल्पना, सा न युक्ता; तथाभूतायास्तन्निवृत्तरसिद्धत्वात् । न चासिद्धाऽपि तथाभूतज्ञाननि. मित्तम् , अतिप्रसङ्गात्-सर्वस्यापि तथाभूतज्ञाननिमित्तं स्यात् केनचित् सह प्रत्यासत्ति-विन. कर्णाभावात्; अनभ्युपगमाच्च-नहि परेणापि प्रमाणपश्चकनिवृत्तेरसिद्धाया अभावज्ञाननिमित्तताऽभ्युपगता, कृतयत्नस्यैव प्रमाणपञ्चकनिवृत्तेरभावसाधनत्वप्रतिपादनात् “गत्वा गत्वा तु तान् देशान् यद्यर्थी नोपलभ्यते। तदाऽन्यकारणाभावादसन्नित्यवगम्यते" ॥ [श्लो० वा० सू०५, अर्था०प० श्लो० ३८] इत्यभिधानात् । न चेन्द्रियादिवदशाताऽपि प्रमाणपञ्चकनिवृत्तिरभावशानं जनयिष्यतीति शक्यमभिधातुम् , प्रमाणपञ्चकनिवृत्तेस्तुच्छरूपत्वात् । न च तुच्छरूपाया जनकत्वम्, भावरूपताप्रसक्तेः-एवंलक्षणस्य भाव.३० त्वात् तन्न सर्वसंबन्धिनी प्रमाणपञ्चकनिवृत्तिर्विपक्षे साधनाभावनिश्चयनिबन्धनम् । नाप्यात्मसंबधिनी तन्निमित्तम्, यतः साऽपि किं तादात्विकी, अतीताऽनागतकालभवा वा ? न पूर्वा, तस्या गङ्गापुलिनरेणुपरिसंख्यानेनानैकान्तिकत्वात् । नोत्तरा, तादात्विकस्यात्मनस्तन्निवृत्तेरसंभवात् असिद्धत्वाञ्च; तन्न आत्मसंबन्धिन्यपि प्रमाणपञ्चकनिवृत्तिस्तज्ज्ञानोत्पत्तिनिमित्तम्। तन्न अन्यवस्तुविज्ञानलक्षणमप्यभावाख्यं प्रमाणं व्यतिरेकनिश्चयनिमित्तम् । ३५ [प्रसङ्गवशाद् अभावप्रमाणनिरसनम् ] यश्च "गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताशानं जायतेऽक्षानपेक्षया"॥ [श्लोव्वा सू०५, अभावप०श्लो०२७] १-भ्युपगम्यते गु०
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy