SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। ३८५ शाने तस्य व्यापारो भवेत् तदा तत्स्वरूपं योगिनः पश्यन्तीति युक्तं भवेत् । न च तज्ज्ञाने तस्य व्यापार इति प्रतिपादितम् । न च तद्विषयज्ञानोत्पत्त्या योगिनस्तं पश्यन्तीति नास्माभिरभिधीयतेतद्यतिरिक्तस्य योगिनस्तज्ज्ञानस्य चाभावात्-किन्तु योगित्वावस्थायामात्मज्योतीरूपं स्वत एव तत् प्रकाशत इति योगिनस्तत् पश्यन्ति' इत्युच्यत इति वक्तव्यम् , यतो योग्यवस्थातः प्राग् यदि ब्रह्मणो ज्योतीरूपत्वस्वभावस्तदा सदैवात्मज्योतीरूपत्वात् तस्य न कदाचिद् अयोग्यवस्थेत्ययत्न-५ सिद्धः सर्वेषां मोक्षः स्यात् । न च भवदभिप्रेताद्वयसंवेदनचित्राकारपरिग्रहप्रतिभासवद् अविभागस्याप्यविद्यावशाद् ब्रह्मणोऽविशुद्धसन्ततीनां तथाप्रकाशनमिति वक्तव्यम् , यतो न तद्यतिरेकेणान्ये अविशुद्धसन्ततयो भवदभिप्रायेण सन्ति तेषा(येषां) तथातत्प्रतिभासः। न च स्वयमेव तथा प्रकाशत इति वक्तव्यम् , मोक्षाभावप्रसङ्गात् सर्वदैव तस्य तथाप्रकाशात्मकत्वात् । अस्मन्मते तु विशुद्धज्ञानान्तरोदयात् मुक्तिर्घटत एव । न च भवन्मतेन तद्व्यतिरेकिणी अविद्या सम्भवति १० यद्वशात् तथा प्रकाशत इत्युच्यते । तदव्यतिरेके चाविद्यायास्तद्वशात् 'तदेव तथा प्रकाशते' इति वचो जाघटीति । न च 'अविद्यावशात् तत् तथा ख्याति' इत्यनेन तस्याविद्यात्मकत्वमेव प्रकाश्यते इति वक्तव्यम् , मोक्षाभावप्रसक्तेरेव-यतो न नित्यैकरूँपब्रह्मण्यविद्यात्मके स्थिते तदात्मकाऽविद्याव्यपगमः कुतश्चित् सम्भवी येनाविद्याव्युपरतेमुक्तिर्भवेत् । न च तद्यतिरेकवदविद्याङ्गीकरणेऽप्यविद्याप्रकाशात्(द्यावशात्) तस्य तथाप्रकाशनं युक्तिसङ्गतम् , नित्यत्वाद् अनाधेयातिशये ब्रह्मणि १५ तस्या अकिञ्चित्करत्वात् अत एव तस्य तयाऽसम्बन्धात् संसाराभावप्रसक्तिश्च । न च सा तत्त्वाऽन्यत्वाभ्यामनिर्वचनीयेति वक्तव्यम्, वस्तुधर्मस्य गत्यन्तराभावात् । न चावस्तुत्वमेव तस्याः तथात्वे तस्य तथाख्यात्ययोगादतिप्रसङ्गात् । न च तथाभूतार्थक्रियाकारिण्यास्तस्या 'वस्तु' इति नामकरणे कश्चिद् विवादः अस्मन्मते तु तथाभूताऽभिनिवेशवासनैवाऽविद्या, वासना च कारणात्मिका शक्तिरिति पूर्वपूर्वकारणभूतादविद्यात्मकज्ञानादुत्तरोत्तरज्ञानकार्यस्य वितथाकाराभिनिवेशिन उत्पत्तेरेवा-२० विद्यावशात् तथाख्यातिरित्युच्यते, तस्याश्च योगाद्यभ्यासादसमर्थतरतमक्षणोदयक्रमतः प्रच्युतेः शुद्धतरसंवित्सन्तानप्रादुर्भावात् मुक्तिप्राप्तिरित्युपपन्नैव बन्धमोक्षव्यवस्थितिः । नित्यैकरूपे च ब्रह्मणि अवस्थाद्वयायोगात् न संसाराऽपवर्गों भवन्मते सम्भवतः। ब्रह्मणश्चैकत्वादेकस्य मुक्तौ सर्वेषां मुक्तिप्रसङ्गः अमुक्तौ वैकस्य सर्वेषाममुक्तिप्रसक्तिश्चाऽनिवार्या । न चात्मज्योतीरूपत्वेऽयोग्यवस्थायां किञ्चिदस्य प्रमाणं प्रसाधकमस्ति । यथा हि ज्ञानं स्वसंवेदनप्रसिद्धं प्रकाशात्मता २५ नैवं शब्दः सर्वसंविदि संवेद्यत इति प्रदर्शितम् । अथ अयोग्यवस्थायां ब्रह्मणो नात्मप्रकाशता अङ्गीक्रियते; नन्वेवमपि प्रागविद्यमान(ना)योग्यवस्थायां स(सा) प्रादुर्भवतीति सुस्थितं तस्य नित्यत्वम् !!!। निरातश्च पुरुषाद्वैतवादः प्रागिति समानन्यायत्वादयमपि तथैव निराकर्तव्य इत्यलमतिप्रसङ्गेन। १ तज्ञा-भां० मा० । तदशा-आ० वि०। २-संवेदिनविक्तका-आ० । ३-ग्रहःप्र-मां०। ४ “अथापि स्यात् यथा भवतां स्वप्नाद्यवस्थासु ज्ञानमद्वयमपि विचित्राकारपरिग्रहेण प्रतिभासते तथा तदद्वयमपि अविद्यावशात् अविशुद्धसन्ततीनां तथा प्रकाशते"-तत्त्वसं० पञ्जि. पृ. ७४ पं० १९। ५ "न हि तद्यतिरेकेण अन्ये केचित् अविशुद्धसन्ततयः सन्ति येषां तत् तथा प्रतिभासते"-तत्त्वसं० पजि. पृ० ७४ पं० २१। ६-शात् तथा आ० हा. वि०। ७ "न हि नित्यैकरूपे ब्रह्मणि अविद्यात्मके"-तत्त्वसं० पजि. पृ० ७४ पं० २७॥ ८-विद्यावशात भा०मा० बहिः । “अविद्यावशात् तथाप्रतिभासनम्"-तत्त्वसं० पञ्जि. पृ. ७५ पं० २। ९-वात् न वा-हा० वि०।-वात तथा व-भां० । “वस्तुधर्मस्य गत्यन्तराभावात् अन्यथा वस्तुत्वमेव न स्यात् । न च अवस्तुवशात् तथा तस्य ख्यातियुका अतिप्रसङ्गात्"-तत्त्वसं० पजि. पृ० ७५ पं० ४। १०-स्या वस्थित ना-आ० । “तथाभूतस्य चार्थक्रियाकारिणः खभावस्य अवस्थितिनामकरणे"-तत्त्वसं० पजि. पृ० ७५ पं० ५। ११-निवेशत उ-हा० वि०। १२-दर्भवान्मु-भां. आ. हा० वि०। १३-स्ति तथा भां० म०। १४-या नैव शष्टः आ० ।-या नैवं शाब्दः वि.। -या नैव शाब्दः हा०। १५ “एवमपि प्रागविद्यमानं तदात्मज्योतिष्ट्वमत्यक्तपूर्वरूपस्य ब्रह्मणः पश्चाद् योग्यवस्थायां कुतः संभूतमिति वाच्यम्"-तत्त्वसं० पजि. पृ० ७५ पं० १६। १६ पृ० २८५५०६। १७ “प्रधानपरिणामेन समं च ब्रह्मदर्शनम् । तदूषणानुसारेण बोद्धव्यमिह दूषणम्"॥ तत्त्वसे० का० १५२ पृ. ७५।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy