SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ३७६ प्रथमे काण्डेतद्यवहारविषयः । न च ‘एको घटः' इति प्रतीतेरवयवो(वी) अवयवव्यतिरिक्तमस्ति(क्तः समस्ति) यतो घंट(टा)वसायेऽपि तदवयवानामुल्लेखश्चाध्यवसीयते नापैरोऽवयवी वर्णाकृत्यक्षराकारशून्यस्य तस्य केनचिदप्यनु(प्यननु)भवान्न कल्पनाऽवसेये(यो)ऽप्यवयवी सत्तामासादयति ।। अनादिवासनासमुत्थं व्यवहारमात्रकमेवेदं मिथ्यार्थ ज्ञानम् । न च व्यवहारमात्रादेव ५बहिरेकं वस्तु सिद्ध्यति 'नीलादीनां स्वभावः' इत्यत्रापि व्यवहारैकत्वात् स्वभावस्यैकताप्राप्तेः । अथ तत्र प्रतिभासभेदादेकत्वं बाध्यते तत्रापि मध्यो-दि(ध्योर्ध्वादि)निर्भासभेदात् घटादेरेकत्वं बाध्यत एवेति न बाह्योऽर्थोऽस्त्यवयविरूपः । नापि परमाणुस्वभावः मध्यो;दिविभागप्रतिभासेऽप्यणूनामप्रतिभासनात् । स्थूलरूपो हि नीलाद्यवभासः संवेद्यते न च परमाणुषु प्रत्येकं स्थूल रूपसम्भवः तथात्वे परमाणुत्वायोगात् । नापि तेषु समुदितेषु स्थूलरूप॑सङ्गतिः तथावस्थामा१० विनामप्यणूनां स्वरूपतः सूक्ष्मत्वात् । न च तद्व्यतिरिक्तः समुदायः तथात्वे द्रव्यवादप्रसङ्गात् तस्य चोक्तदोषत्वात् । ततो न परमाणुषु कथञ्चित् स्थूलरूपतासम्भवः । न चान्यादृगवभासोऽन्यादृशस्यार्थस्य ग्राहकः नीलदृशोऽपि पीतग्राहकतापत्तेः नियतव्यवस्थाविलोपश्चैवं प्रसज्यते । अपि च, नानादिक्सम्बन्धात् परमाणोरप्येकता असङ्गतैव । आह चाचार्य:षट्केन युगपद्योगात् परमाणोः षडंशता"। [ ] इति । १५ तदंशानामपि नानादिक्सम्बन्धात् पुनः सांशतापत्तेरनवस्थाप्रसक्तिरिति न परमाणुसद्भावः। न चार्थाभावे नियतदेशकालाकारः प्रतिभासो न भवेत् वासनाबलेन तथाभूतप्रतिभासस्य स्वप्नदशायामुपलब्धेर्जाग्रद्दशायामपि तद्वलेनैव तदुदयसद्भावात् अर्थस्तु स्वरूपेण न क्वचित् सिद्धः । नापि प्रतिभासनियामकत्वेनेति नार्थवादो युक्तिसंगतः। न च वासनाबलान्नियताकारं ज्ञानमेव सदस्तु न शून्यतेति वक्तव्यम् यतो नीलादिरूपं ज्ञानमप्येकानेकरूपमयुक्तम् । तथाहि-तस्यापि दिग्भेदान्नै२० कता अर्थवत् युक्ता प्रतिभासभेदाच्च, नापि नीलादिज्ञानं परमाणुरूपम् ज्ञानपरमाणूनामपि दिषट्कयोगात् सांशतापत्तेरनेकप्रतिपत्तेरयोगाच्चोक्तप्रायम् । न च बहिरवभासमानो नीलादिर्वितथः बोधस्तु परिशुद्धोऽवितथ इति वक्तव्यम् तस्यानुपलब्धेरेवाभावनिश्चयात् । न च वासनाप्रतिबद्धत्वमनुभवस्य निश्चेतुं शक्यम् प्रत्यक्षस्य पौर्षापर्येऽप्रवृत्तेर्नान्वयव्यतिरेकनिश्चायकत्वम् तदनिश्चये च न हेतुफलभावावगतिरध्यक्षात् । नाप्यनुमानम् प्रत्यक्षाभावे तस्याप्यप्रवृत्तेर्न हेतुफलभावः क्वचिदपि २५ सिद्धिमासादयति । किञ्च, यदि वासनाप्रबोधप्रभवं नील-सुखादिव्यतिरिक्तं प्रतिपुरुष नियतं संवेदनमनुभूयेत तदा विज्ञानवादो युक्तिसङ्गतः स्यात् न च तत् कदाचनाप्युपलब्धिगोचरः नील-सुखादेस्त्वेकानेकस्वभावायोगात् वासनाजन्यत्वस्यापि परमार्थतोऽसम्भवात् सर्वधर्मशून्यतैव वस्तुबलायाता । नीलाद्यवभासस्य वासनाप्रतिबद्धत्वं संवृत्या शून्यत्वमुच्यते न सर्वसंवेदनाभावः तस्य कदाचिदप्यननुभवात् । न च प्रतिभासे सति कथं शून्यत्वमिति वक्तव्यम् तस्यैका३० नेकस्वभावायोगतः शून्यतेति प्रतिपादनात् । उक्तं चाचार्येण "भौवा येन निरूप्यन्ते तद्रूपं नास्ति तत्त्वतः। यस्मादेकमनेकं वा रूपं तेषां न विद्यते" [ १-तः मस्ति यतो घटवसाये पि वा० बा०। २ घटवसेयेपि हा० वि०। घटमेवसायेपि आ० । ३-मुल्लेख्यश्चा-आ०। ४-परोऽवसीयते नापरोऽवयवी भां० मां०। ५ ग्रन्थानम् १२८३८ ॥ ६-नादयति वा-आ०। ७ बाह्यार्थी-हा०वि०। ८-पगतिः आ०। ९पृ० १०५५० १३ । "अयमेव चार्थः कारिकया गीयते"षटेन युगपद्योगात् परमाणोः षडंशता । षण्णां समानदेशत्वे पिण्डः स्यादणुमात्रकः" ॥ -४, २, २५ न्यायवा० पृ. ५१६ पं० १७ । "यदुक्तम् आचार्यपादैः” इत्युल्लिख्य श्लोकोऽयमुद्धृतः-बोधिचर्याव० प्रज्ञापार. पञ्जि. परि० ९ पृ. ५०३ पं०६ तथा टिप्प. १। न्यायतात्पर्यटी० ४, २, २५ पृ. ६५० पं० २४ तथा पृ. ६५१ पं० १० पर्यन्तम् । रत्नाकरा० प्र० परि० पृ० ३१ पं० १२ । सर्वदर्शनसं. द. २ पृ. ३१ पं० १९२ । १०-षद् यो-आ. हा०वि०। ११-श्वये न च हे-आ० हा०वि०। १२-रुषं नि- आ० । १३-भावयो-आ. हा०वि०। १४-नुभावा-भां. मां. हा० वि०। १५ अष्टस• पृ० ११५ पं० ९। स्याद्वादर० पृ. ८९ प्र. पं०६। “तदुक्तमाचार्येण" इत्युल्लिख्य निर्दिष्टोऽयं श्लोकः शास्त्रवा० स्याद्वादक. पृ.२१५ प्र.५८-९।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy