SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे १५ यत्र हि साधनज्ञानपूर्वकमर्थक्रियाज्ञानमुत्पद्यते तत्रीवस्तुशंका नैवास्ति, न ह्यनग्नावग्निशाने संजाते प्रवृत्तस्य दाह-पाकाद्यर्थक्रियाज्ञानस्य संभव इत्यागोपालाङ्गनाप्रसिद्धमेतत् । न च स्वप्नार्थक्रियाज्ञानमर्थक्रियाऽभावेऽपि दृष्टमिति जाग्रदर्थक्रियाज्ञानमपि तथाऽऽशङ्काविषयः, तस्य तद्विपरीतत्वात् । तथाहि-स्वमार्थक्रियाज्ञानमप्रवृत्तिपूर्व व्याकुलमस्थिरं च; तद्विपरीतं तजामद्दशाभावि, कुतस्तेन व्यभिचारः? यदि चार्थक्रियाशानमप्यर्थमन्तरेण जाग्रहशायां भवेत् कतरदन्यज्ञानमर्थाव्य. ५ भिचारि स्याद् यद्वलेनार्थव्यवस्था क्रियेत? परतःप्रामाण्यवादिनो बौद्धस्य प्रतिकूलमाचरामीत्यभिप्रायवता तस्यानुकूलमेवाचरितम् । स हि "निरालम्बनाः सर्वे प्रत्ययाः, प्रत्ययत्वात् , स्वप्नप्रत्ययवत्' इत्यभ्युपगच्छत्येव, भवता तु जाग्रद्दशा-स्वप्नदशयोरभेदं प्रतिपादयता तत्साहाय्यमेवाचरितम्। न हि तद्यतिरिक्तः प्रत्ययोऽस्ति यस्यार्थसंसर्गः। न चावस्थाद्वयतुल्यताप्रतिपादनं त्वया क्रियमाणं प्रकृतोपयोगि । तथाहि-सांव्यवहारिकस्य प्रमाणस्य लक्षणमिदमभिधीयते-"प्रमाणमविसंवादि १० शानम्" [ ] इति । तच्च सांव्यवहारिक जाग्रद्दशाज्ञानमेव, तत्रैव सर्वव्यवहाराणां लोके परमार्थतः सिद्धत्वात्; स्वप्नप्रत्ययानां तु निर्विषयतया लोके प्रसिद्धानां प्रमाणतया व्यवहाराभावात् 'किं स्वतः प्रामाण्यमुत परतः' इति चिन्तायाः अनवसरत्वात् तत्र जाग्रज्ज्ञाने द्वितयदर्शनात् 'किं प्रमाणम् , किं वाऽप्रमाणम् , तथा किं स्वतः प्रमाणम् , किं वा परतः' इति चिन्तायाः पूर्वोक्तलक्षणे 'जाग्रत्प्रत्ययत्वे सति' इति विशेषणाभिधाने स्वप्नप्रत्ययेन व्यभिचारचोदनं प्रस्तावा-१५ नभिज्ञतां परस्य सूचयति । अपि च, “अर्थक्रियाऽधिगतिलक्षणफलविशेषहेतुर्ज्ञानं प्रमाणम्" इति लक्षणे 'तत्फलं नैवं प्रमाणलक्षणानुगतमिति कथं तस्यापि प्रामाण्यमवसीयते' इति चोद्यानुपपत्तिः । यथा 'अङ्कुरहेतु/जम्' इति बीजलक्षणे नाङ्कुरस्यापि बीजरूपताप्रसक्तिः, ततो न विदुषामेवं प्रश्नः कथमकुरे बीजरूपता निश्चीयते' इति । यथा चाङ्कुरदर्शनाद् बीजस्य बीजरूपता निश्चीयते तथाऽत्राप्यर्थक्रियाफलदर्शनात् साधनज्ञानस्य प्रामाण्यनिश्चयः । न चार्थक्रियाज्ञानस्या-२० प्यन्यतः प्रामाण्यनिश्चयादनवस्था, अर्थक्रियाशानस्य तद्रूपतया स्वत एव सिद्धत्वात् । तदुक्तम्"स्वरूपस्य स्वतोगतिः" [ ] इति । न च स्वरूपे ज्ञानस्य भ्रान्तयः संभवन्ति, स्वरूपाभावे स्वसंवित्तरप्यभेदेनाभावप्रसङ्गात् । व्यतिरिक्तविषयमेव हि प्रमाणमधिकृत्योक्तम्-"प्रमाणमविसंवादि ज्ञानम् , अर्थक्रियास्थितिरविसंवादनम्"[ ] इति, तथा “प्रामाण्यं व्यवहारेणार्थक्रियालक्षणेन"[ ] इति च । तस्माद् यत् प्रमाणस्यात्मभूतमर्थक्रियालक्षणपुरुषार्थाभिधानं २५ फलं यदर्थोऽयं प्रेक्षावतां प्रयासः, तेन स्वतःसिद्धेन फलान्तरं प्रत्यनङ्गीकृतसाधनान्तरात्मतया 'प्रमाणमविसंवादि ज्ञानम्' इति प्रमाणलक्षणविरहिणा साधन निर्भासिज्ञानस्यानुकान्तरूपफलप्रापणशक्तिस्वरूपप्रामाण्याधिगमेऽनवस्थाप्रेरणा क्रियमाणा परस्यासङ्गतैव लक्ष्यते । अत एवेदमपि निरस्तं यदुक्तम् 'अनिश्चितप्रामाण्यादपि साधनज्ञानात् प्रवृत्तावर्थक्रियाज्ञानोत्पत्ताववाप्तफला अपि प्रेक्षावन्तो यथा साधनज्ञानप्रामाण्यविचारणायां मनःप्रणिद्धति-अन्यथा तत्समानरूपापरसाधन-३० ज्ञानप्रामाण्य निश्चयपूर्विकाऽन्यदा प्रवृत्तिन स्यात्-तथाऽर्थक्रियाज्ञानस्यापि प्रामाण्यविचारणायां प्रेक्षावत्तयैव ते आद्रियन्ते; अन्यथाऽसिद्धप्रामाण्यादर्थक्रियाज्ञानात् पूर्वस्य प्रामाण्यनिश्चय एव न स्यात्' इति । 'अवाप्तफलत्वमनर्थकम्' इति, तदप्ययुक्तम् ; 'अर्थक्रियाज्ञानस्य स्वत एव प्रामाण्यम्, साधनज्ञानस्य तु तजनकत्वेन प्रामाण्यम्' इति प्रतिपादितत्वात् । यदभ्यधायि-"यदि संवादात् पूर्वस्य प्रामाण्यं निश्चीयते तदा १ तत्र वस्तु-कां०, गु०। २ डे०, अ० इत्युभयप्रतौ 'त्परतः' इति, एतच्च 'तत् परतः' इति संभाव्यतेसुघर्ट चैतत् । ३ चिन्तायाः पूर्वोक्तलक्षणे अनव-डे । ४ तन्न जा-गु० । तत्राऽजा-भा०। ५द्वितीय-भा०, का०, गु०। ६ चिन्ताया पूर्वोक्त-वा० । “अनवसर इत्यनुषङ्गः" गु० टि०। ७ सति निर्विशेषणामिधाने अ०। सतीति विशेषणामिधानस्वप्न-वा०। ८ प्रस्तावाभिज्ञतां सूचय-वा०। ९-हेतुबीज-भा०, कां०, हा० । १० तत्राप्यर्थ-वा०, विना सर्वत्र । ११ स्वरूपज्ञान-का०, गु०, अ०, आ०,। १२ “यथाऽऽह धर्मकीर्तिः” इत्युल्लिख्य श्लोकवार्तिकटीकायां पार्थसारथिमिश्रो वचनमेत उद्धृतवान्-(श्लो० वा० सू० २,श्लो० ७६) १३-कृतासाधना-वा०। १४ साधनानि सिज्ञानस्य-हा०, वि०, आ० । १५ पृ०६ पं. २४ । १६ पृ०७५०२ १७ पृ०७५०२। १८ साधनस्य तु गु०। १९पृ० १५५०२०। तासाधना लोकवार्तिकटी १६
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy