SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा | तदभावमवगमयति वस्त्वन्तरग्रहणे प्रतियोगिस्सरणे च प्रतियोग्यभावविषयत्वेन परैस्तस्याभ्युप गमात् । उक्तं च ३६९ " गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम्” । [लो० वा० अभावप० श्लो० २७] इत्यादि । वस्त्वन्तरस्य च प्रतियोगिसंसृष्टस्याध्यक्षेण ग्रहणे न ततस्तद्भा (स्तदभा ) वसिद्धिः । असंसृष्ट-५ ग्रहणे चाध्यक्ष एवाभावसिद्धव्य (द्धेर्व्य ) र्थमभावाख्यं प्रमाणम् । न चाभावप्रमाणादेव प्रतियोग्यसंसृष्टता वस्त्वन्तरस्य प्रतीता तस्यापि प्रतियोग्य संसृष्टं (ट) वस्त्वन्तरग्रहणमन्तरेणा प्रवृत्तेः तदभ्युपगमे चानवस्थाप्रसक्तेः, तथा, प्रतियोगिनोऽपि यदि वस्त्वन्तरसंसृष्टस्य स्मरणं कथमभावः ? अथासंसृष्टग्रहणे सति प्रवर्त्तते असंसृष्टताग्रहणं च यदि प्रत्यक्षादभावप्रमाणवैयर्थ्य (र्थ्यम्) । अभावप्रमाणत्वे तदपि वस्त्वन्तरसंसृष्टप्रतियोगिस्मरणे सति प्रवर्त्तते तत् स्मरणमपि तथाभूतवस्तु- १० ग्रहणे तदप्यभावप्रमाणादित्यनवस्थाप्रसक्तिः । नं चभासप्रमाद (न चाभावप्रमाणाद) भावप्रतिपत्तावपि प्रतियोगिनो निवृत्तिसिद्धिः अन्यप्रतिपत्तावन्यनिवृत्त्यसिद्धेः । न च तन्निवृत्तिप्रतिपत्तौ प्रति योगिनिवृत्तिसिद्धिरनवस्थाप्रसक्तेः प्रतियोगिस्वरूपाः (पा5) संस्पर्शिरूपाऽपरापरनिवृत्तिप्रतिपत्त्यपरिसमाप्तेः । न चाभावप्रत्यये प्रतियोगिस्वरूपानुवृत्तौ तत्प्रतिषेधः तस्य तत्र प्रतिभासनात् । अननुवृत्तापि ( वृत्तावपि ) नाभावः अप्रतिभासत् ( सात्) न च तद्विविक्तत्वात् तदवाप्रतिपत्तिः तदवभासे १५ तद्विविक्तताऽप्रतिपत्तेः । न स्मृतौ प्रतियोगिप्रतिभासात् तद्विविक्तैतावगतिः यथाप्रतिभासमवभासासिद्धेः यथा च न प्रतिभासस्तथापि निषेधायोगात् इत्यभावाकारस्य प्रतियोग्यभेदे तत्प्रतिभासेन तन्निराकृतिः भेदेऽपि न प्रतियोगिप्रतिषेध इति न वाधाभावावगमः । अपि च, बाधाभावप्रतीतिरपि यद्यपराधाप्रतीते (तेः) श (स) त्या तदानवस्थाप्रसक्तिः । नापि सत्यविषयप्रतिभासा तत्प्रतीतिः सत्या इतरेतराश्रयदोषात् । तन्न प्रसज्यरूपो बाधाभावो भावस्तद्भावव्यवस्थापकः । ?? ] २० [ ?? नापि पर्युदासरूपो बाधकाभावस्तद्व्यवस्थापकः तस्य विषयोपलम्भस्वभावत्वात् । स यथा नै प्राकालभावी अर्थतथाभावव्यवस्थापकः तथोत्तरकालभव्यपि प्रतिभासाविशेषात् । पुनरप्युत्तरकालभाविपर्युदासरूपबाधाभावात्मन्यव्यवस्थायां चोद्यपरिहारानवस्थाप्रसक्तिरिति न १- भाव गमवा० वा० आ० । २- हण प्र-आ० । ३ - रणे प्र-मां० आ० हा० वि० । ४-स्य प्रतियोगसंस्पृष्ट - वा० वा० विना । " यच्च निषेध्याधारवस्तुग्रहणादिसामग्रीत इत्याद्युक्तम् तत्र निषेध्याधारो वस्त्वन्तरं प्रतियोगिसंसृष्टं प्रतीयते असंसृष्टं वा ? तत्राद्यपक्षोऽयुक्तः— प्रतियोगि संसृष्टवस्त्वन्तरस्याध्यक्षेण प्रतीतौ तत्र तदभावग्राहकत्वेनाभावप्रमाणप्रवृत्तिविरोधात् । प्रवृत्तौ वा न प्रामाण्यम् — प्रतियोगिनः सत्त्वेपि तत्प्रवृत्तेः । द्वितीयपक्षेत्वभावप्रमाणवैयर्थ्यम् - प्रत्यक्षेणैव प्रतियोगिनोऽभावप्रतिपत्तेः । अथ प्रतियोग्यसंसृष्टतावगमो वस्त्वन्तरस्याभावप्रमाणसम्पाद्यस्तर्हि तदप्यभावप्रमाणं प्रतियोग्य संसृष्टवस्त्वन्तरग्रह सति प्रवर्त्तेत तदसंसृष्टतावगमश्च पुनरप्यभावप्रमाण संपाद्य इत्यनवस्था । प्रथमाभावप्रमाणात् तदसंसृष्टतावगमे चान्योन्याश्रयः । प्रतियोगिनोऽपि स्मरणं वस्त्वन्तरसंसृष्टस्यासंसृष्टस्य वा ? यदि संसृष्टस्य तदाऽभावप्रमाणाप्रवृत्तिः । अथासंसृष्टस्य; ननु प्रत्यक्षेण वस्त्वन्तरासंसृष्टस्य प्रतियोगिनो ग्रहणे तथाभूतस्यास्य स्मरणं स्यान्नान्यथा । तथाभ्युपगमे च तदेवाभावप्रमाणवैयर्थ्यम्” — प्रमेयक ० पृ० ५३ द्वि० पं० ७ । १२ त ५ असंस्पृष्ट- मां० । ६- हणे वा वा० वा० विना । ७– ग्यसंस्पृष्टं-आ० । ८- भावः असं-आ० हा०वि० । भावः सअसं भां० मां० । ९ हणो स-वा० वा० आ० । १० न वभा-भां०हा० वि० । न वाभावप्रतिपत्ता - वा० बा० । ११ तद्विविक्तत्वात् तच तद्विविक्तत्वात् तदवाप्रति- भ० मां० । तद्विविकत्वात् तदत्वा प्रति-आ० । तद्विविक्तत्वात् तदवा प्रति - हा० । तद्विविक्तत्वादेवा प्रति - वि०। दभा वा० वा० विना । १३- तताः प्र-आ० । वि० सं० । १४- पत्तेः त स्मृतौ भ० मां०हा० वि० ।-पत्तेऽ त स्मतौ आ० । १५-कताग वा० वा० विना । - भासासिद्धेः हा० । १७ - भासे तन्नि - वा० वा० विना । १८- परावा - वा० वा० । १९- धातती - वा० वा० विना । २०- प्र ते वात्या-भां० । २१ न प्रक्षाल - वा० बा० । न प्रल-भां० म० । न पल- हा० वि० । २२ अर्थः- भ० मां० आ० हा० वि० । २३- था वव्यवहा० ।था व्यव - वि० । २४ - भावोऽपि भ० मां० । भावा पि वा० वा० हा० वि० । २५-रकालभा-वा० बा० विना । २६ - पबोधा - आ० । १६
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy