SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। ३५७ पदार्थानां स्वरूपस्यैकताप्रसक्तेः। [?? अथ प्रत्यक्ष एव पैदार्थस्वरूपाप्रत्यक्षं तदूपत्वे ग्रहणरहितस्ये(स्यै)व तस्य प्रतिभासप्रसङ्गः। अथ व्यतिरिक्तं प्रत्यक्षस्वरूपम् एव(व)सति सामग्रीवलादुपजातं तदेकत्व. भासनम् नीलादेस्तु परोक्षत्वात् स्वरूपा(पे)ण परिच्छेदासम्भवः । न चाध्यक्षावभासमानरूपोदय(ये) नीलमध्यक्षीभवति भिन्नाभिन्नविकल्पप्रसङ्गतोनुपपत्तेः ??]। अथाध्यक्ष नीलमपरोक्षस्वभावं जनयतीति ग्राहकम् नीलादेस्त्वध्यक्षरूपतया जन्यमानत्वात् ग्राह्यता, असदेततः एककालत्वे नील-५ -दर्शनयोर्जन्यजनकभावायोगात् भिन्नकालत्वे दर्शनबलाध्यक्षरूपतयोपजायमानं स्वप्रकाशकमिति कथं ग्राह्यता भवेत् ? अपि च, यदि प्रकाशविकलं नीलं सिध्यति तदा प्रकाशरहितस्य नीलस्य प्रकाशमाविर्भावयन्ती बुद्धिर्भवेद् वेदिका। न च दर्शनविकलस्य परिच्छेदः संभवति तस्य दर्शनेनैव परिच्छेदात् । यदा तु दर्शनमुत्पद्यते तदा तत्काला(ली)नमेवार्थमवभासय(यि)तुमलम् पूर्वसत्तां तु तस्य कथमधिगच्छति? न च प्रत्यक्षमपरं प्राग्भावमर्थस्य वेत्ति तत्राप्यपरापरप्रत्यक्षाभ्युपगमादनव.१० स्थावप(स्थाप)त्तेः। ने चार्थस्य प्राग्भावमन्तरेण प्रत्यक्षतानुपपत्तस्तस्य प्राग्भावोऽनुमानेन साध्यते, प्रत्यक्ष(क्षा)भावेऽनुमानस्याप्रवृत्तेः । यदि प्राग्भावोऽर्थस्य प्रत्यक्षतः सिद्धः स्यात् तदा तत्प्रतिबद्धोतरकालभाविप्रत्यक्षादनुमीयते न चाध्यक्षोदयवेलायाः प्रागर्थसत्ता सिद्धेति तत्प्रतिबद्धतया दर्शनलक्षणस्य लिंङ्गैस्याप्रतिपत्तेः। न ततोऽप्यर्थप्राग्भावः सिध्यति । न च प्रागर्थस्य प्राग्भावः सिध्यति, न च प्रागर्थसद्भावमन्तरेण नियता(त)देश-काल दशापरिगतदर्शनानुदयप्रसक्तिः स्वप्नादौ तथाभूतार्थाभा-१५ वेऽपि कुतश्चिद् वासनादेनिमित्तम्(त्तात्) प्रतिनियताकारदर्शनादयो(नोदया)नुभा(भ)वात् अर्थस्य च नियताकारदर्शनाहेतुता । जाग्रद्दशायामपि प्राग्भाविनो(विता) न सिद्धा । न च प्रागर्थसत्ताविरहे भवतोऽपि किं प्रमाणमिति कर्त्त(वक्तव्यम्, यतो यथा नीलविविक्ततया नीताकारस्य परिच्छेदात् तत्र नीलरूपताऽभावः तथा परिस्फुटप्रतिभासस्य नीलाकारस्य वर्तमानतया प्रतिभासनात् तस्य पूर्वरूपताविरहः यदि हि तत् तद्रूपं स्यात् तथा(दा) तथैवावभासेत न ह्यन्यरूपमन्यरूपेण २० प्रतिभाति दर्शनस्य वैत(तथ्य)प्रसङ्गात् । न च वर्तमानप्रतिभासं नीलं पूर्वरूपतया प्रतिभातीति पूर्वरूपताविरहस्तस्य सिद्धः यथा च पूर्वरूपतां न किञ्चिज्ज्ञानमावेदयति तथा क्षणभङ्गं साध. यद्भिः प्रतिपादितमिति नेहोच्यते । तदेव(वं) दर्शनकाल एव नीलादेरवभासनान्न ग्राह्यता। [?? ने च तदर्शनोपरतावपि पैरदृशि नीलादेरवभासनात् साधारणतया ग्राह्यता दर्शना(न) पुनरसाधारणतया वसन्तानान्तर इति ग्राहकम् साधारणतया पदार्थपरिच्छेदासंभवात् । तथाहि-स्व-२५ दर्शने वस्तु प्रतिभातीति स्वस्वदृष्टतया प्रतीयताम् नरान्तरदर्शनपरिच्छेदैन(म)न्तरेण तट(द)ष्टतया कथं तत्परिकल्पना । न हि परदगमनन्त(गवगममन्त)रेण तदेव(तद्व)गम्यता न च तस्य प्रत्येतुं १ पदार्थस्वरूपपदार्थस्वरू प्रत्यक्षं वा. बा.। २-रहितास्यैव वा० बा०। ३-व स त-भां० मा । ४-भास प्रत्यक्ष-भां० मां०। ५-पम् सति वा० बा०। ६ जातं तदेकवभासतम् वा० बा० ।-जातं त तदेकभासं तम् भां० मा० ।-जातं त तदेक भासतम् हा० वि०। ७-त्वाद्रूपेण आ० हा०वि०।-त्वा पेण भां० मां०। ८-म्भवो न चाध्यक्षाद्रपेण परिच्छेदासंभवो न चाध्यक्षावभा-भां० मां० ।-भवावो न चा ----रूपादय-वा. बा०। ९ भिन्ना वि-वा. बा०। १० दर्शनं बला-वा. बा. विना । ११-मानस्व-वा. बा. विना। १२-कल नीलमिति सि-आ० ।-कलं सि-वा० बा०। १३-काशमाविर्भा-भां० म०। १४ बुद्धिर्भावदिका वा० बा० । १५-कल्पस्य वा० बा० । १६ तदा तदा तत्कालानमे. वा-भां० मा० । १७ तत्कालानविमेवार्थ-वा० बा० । १८-वस्था-वा० बा० । १९ न वा-आ० हा० वि० । २०-बद्धातिबद्धोत्तर-भां० मा०। २१ न वा-वा. बा. आ. हा० वि०। २२ लिङ्गस्यालप्र-भां० मां। लिङ्गस्य लिङ्गस्याप्र-आ० । लिङ्गस्यप्र-वि० । २३ तदाभू-वा० बा०। २४-दशनाद-भा० मां०।-दर्शद-आ० । २५-कालदर्शनहेतु जाग्र-वा० बा० विना। २६-भासे न ह्य-वा० बा० विना। २७-स्य वेतहा० वि० ।-स्य चेत-भां० मा० । २८ पूर्व रू-भां० मा०। २९ न च मईर्शनो-वा० बा। ३. तदा र्शनोप-मां० । तर्शनोप-भां०। ३१ परिदृ-भां० माआ. हा० वि०। ३२ स्वसंतातानान्तर-वा. बा० । स्व तानान्तर-भां. मां०। ३३-भातीते स्व-वा. बा. भ. मांहा. वि.। ३४-प्रती तानता. न्त-हा० वि०। ३५-दनान्तरे-मां. हा० वि० ।-दनातरे-भां०। ३६-ण दृष्ट-भां० मा० । ३७-कल्प्य. तां न वा० बा० । ३८ न च स्य वा. वा० । अत्र 'तद्वगम्यता तस्य प्रत्येतुं शक्या' इति पाठः संभाव्यते। Yen an
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy