SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे रूपेण, तदयुक्तम्: प्रतिभासमानस्य रूपस्यासत्त्वासंभवात्, अन्यथा सम्यग्ज्ञानावभासिनोऽप्यसरवप्रसङ्गः। अथाप्रतिभासमानेन रूपेण बाध्यत इति मतम्, तदप्ययुक्तम्: अप्रतिभासमानस्य रूपस्य प्रतिभासमानरूपादन्यत्वात्, न चान्यस्याभावेऽन्यस्याभावः, अतिप्रसङ्गात् । अथार्थक्रिया बाध्यते, ननु साऽपि किमुत्पन्ना बाध्यते, उतानुत्पन्ना? यद्युत्पन्ना, न तर्हि बाध्यते; तस्याः सत्त्वात् । अथानुत्पन्ना, साऽपि न बाध्या; अनुत्पन्नत्वादेव । किंच, अर्थक्रियाऽपि पदार्थादन्या, ५ ततश्च तस्या अभावे कथमन्यस्यासत्त्वमतिप्रसङ्गादेव ? व्यवच्छेद्यासंभवे च 'वाधावर्जितम्' इति विशेषणस्याप्ययुक्तत्वान्न बाधाविरहोऽपि विज्ञानस्य विशेषः । अथाष्टकारणारब्धत्वं विशेषः, सोऽपि न युक्तः, यतस्तस्याप्यज्ञातस्य विशेषत्वमसिद्धम् , ज्ञातत्वे वा कुतोऽदुष्टकारणारब्धत्वं ज्ञायते ? अन्यस्माददुष्टकारणारब्धाद् विज्ञानादिति चेत्, अनवस्था संवादादिति चेत्, ननु संवादप्रत्ययस्याप्यदुष्टकारणारब्धत्वं विशेषोऽन्यस्माददुष्टकारणारब्धात् संवादप्रत्ययाद् विज्ञायत इति १० सैवानवस्था भवतः संपद्यत इति । किंच, ज्ञानसव्यपेक्षमदुटकारणारब्धत्व विशेषमपेक्ष्य स्वकार्ये ज्ञानं प्रवर्त्तमानं कथं न तत् तत्र परतः प्रवृत्तं भवति ? तथा, कारणदोषाभावः पर्युदासवृत्त्या भवदभिप्रायेण कारणगुणः, ततश्च 'अदुष्टकारणारब्धम्' इति वदता 'गुणवत्कारणारब्धम्' इत्युक्तं भवति । कारणगुणाश्च प्रमाणेन स्वकार्ये प्रवर्त्तमानेनापेक्ष्यमाणनिश्चायकप्रमाणापेक्षा अपेक्ष्यन्ते, तदपि प्रमाणं स्वकारणगुणनिश्चयापेक्षं स्वकार्ये प्रवर्तत इत्यनवस्थादषणं "जातेऽपि यदि विशाने १५ तावन्नार्थोऽवधार्यते" इत्यादिना ग्रन्थेन परपक्षे आसध्यमानं स्ववधाय कृत्योत्थापनं भवतःप्रस तम् । अथादुष्टकारणजनितत्वनिश्चयमन्तरेणापि ज्ञानं स्वार्थनिश्चये स्वकार्ये प्रवर्तिष्यते, तदसत संशयादिविषयीकृतस्य प्रमाणस्य स्वार्थनिश्चायकत्वासंभवात् , अन्यथाऽप्रमाणस्यापि स्वार्थनिश्चायकत्वं स्यात् । तन्नादुष्टकारणारब्धत्वमपि विशेषो भवन्नीत्या संभवति । अथ संवादित्वं विशेषः, सोऽभ्युपगम्यत एव; किंतु 'संवादप्रत्ययोत्पत्तिनिश्चयमन्तरेण स न ज्ञातुं शक्यते' इति प्रतिपाद-२० यिष्यमाणत्वात् तदपेक्षं प्रमाणं स्वकार्ये प्रवर्तत इति तत् तत्र परतः स्यात् । अत एव निरपेक्ष त्वस्य असिद्धत्वात् पूर्वोक्तन्यायेन 'ये प्रतीक्षितप्रत्ययान्तरोदयाः' इति प्रयोगे नासिद्धो हेतुः। एतेनैव यदुक्तम् "तत्रापूर्वार्थविज्ञानं निश्चितं बाधवर्जितम्। __ अदुष्टकारणारब्धं प्रमाणं लोकसंमतम्" ॥ [ ] इति, तदपि निरस्तम्। यच्चोक्तम् 'यदि संवादापेक्षं प्रमाणं स्वकार्ये प्रवर्त्तते तदा चक्रकप्रसङ्गः' तदसङ्गतम्, 'यथावस्थितपरिच्छेदस्वभावमेतत् प्रमाणम्' इत्येवंनिश्चयलक्षणे स्वकार्ये यथा संवादापेक्षं प्रमाणं प्रवर्त्तते न च चक्रकदोषस्तथा प्रतिपादयिष्यमाणत्वात् । यदपि 'अथ गृहीताः कारणगुणाः' इत्याद्यभिधानम्, तदपि परसमयानभिज्ञतां भवतः ख्यापयति; 'कारणगुणग्रहणापेक्षं प्रमाणं स्वकार्ये प्रवर्तते' इति परस्यानभ्युपगमात् । यच्चोक्तम् 'उपजायमानं प्रमाणमर्थपरिच्छेद-३० शक्तियुक्तम्' इति, तत्राविसंवादित्वमेव अर्थतथात्वपरिच्छेदशक्तिः-तच परतो ज्ञायते तदपेक्षं प्रमाणं स्वकार्ये प्रवर्तते इति तत् तत्र परतः स्थितम् ।। [उत्तरपक्षः-(३) निश्चये प्रामाण्यस्य स्वतस्त्वनिरसनम् ] 'नापि प्रामाण्यं स्वनिश्चयेऽन्यापेक्षम्' इत्युक्तं यत्, तदप्यसत्; यतो निश्चयस्तत्र भवन् किं निर्निमित्तः, उत सनिमित्तः इति कल्पनाद्वयम् । तत्र न तावन्निनिमित्तः, प्रतिनियतदेश-काल-३५ स्वभावाभावप्रसङ्गात् । सनिमित्तत्वेऽपि किं स्वनिमित्तः, उत स्वव्यतिरिक्तनिमित्तः? न तावत् स्वनिमित्तः, स्वसंविदितप्रमाणानभ्युपगमाद मीमांसकस्य । अथ स्वव्यतिरिक्तनिमित्तः, तत्रापि वक्तव्यम्-तन्निमित्तं किं प्रत्यक्षम् , उतानुमानम् अन्यस्य तन्निश्चायकस्यासम्भवात् ? तत्र यदि प्रत्यक्षम्, तदयुक्तम् । प्रत्यक्षस्य तत्र व्यापारायोगात्-तद्धीन्द्रियसंयुक्ते विषये तद्यापारादुदयमासादयत् प्रत्यक्षव्यपदेशं लभते, न चेन्द्रियाणामर्थापरोक्षतालक्षणेन फलेन, तत्संवेदनस्वरूपेण वा सम्प्र-४० १ वा.' विना सकतेष्वपि आदर्शेषु 'प्रमाणं स्वकारणगुणनिश्चायकं स्वकारणगुणनिश्चयापेक्षं स्वकार्ये' इति पाठः। २ पृ० ५५० ५। ३ आसज्यमानं कां०। ४ कृत्वोत्थापनं भां०, वा०। ५पृ. २ पं० १२। ६ पृ. ४ पं० २८। ७ पृ. ४ पं०३७ । ८ पृ. ५५० ११। ९पृ. ५५० १५।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy