SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। ३४५ कपालादेर्भावरूपतैव ध्वस्ता नाभावात्मकतेति नायं दोषः भावान्तररूपस्याभावस्य तदभावे प्रच्युतत्वात् । न च कृतकस्याभावस्याविनाशितायामनित्यत्वेन कृतकत्वस्य व्याप्तिः सिंध्येत् अकृतकत्वे त्वभ्युपगम्यमाने भावान्तरकार्यात्मकत्वंसो(त्वं ध्वंसो)न भवेत् । प्रध्वंसाभावाविनाशे तु सर्वदा प्रध्वंसद्भा(ससद्भावात् घटादीनां सत्ता न भवेत् । ततो यथा कारणस्वरूपः प्रागभावः कार्योदये कारणनिवृत्तौ निवर्त्तते-अन्यथा तदात्मकत्वायोगात्-तथा कार्यात्मा ध्वंसाभावोऽपीति नष्टैर्घ- ५ टादिभिः पुनर्मक्तव्यमेव । न च यथा हेतुवन्धे देवदत्तस्य न पुनः प्रादुर्भावः तथेहापीति वक्तव्यम्, देवदत्तहेतुर्देवदत्तमरणारूपत्वात् तस्य दण्डादिकल्पत्वात् । तन्न कपालादिरूपं भावान्तरं घटादे सः तत्र कारकव्यापारासम्भवात् क्रियाप्रतिषेधमात्रप्राप्तेः अकारकस्य वा हेतुकत्वादहेतुमत्त्वाभ्युपगमोऽभावस्य विरुध्येत । हेतुमत्त्वेऽभावस्य कार्यत्वाद् अभावरूपताप्रच्युतिप्रसङ्गः भावस्य कार्यलक्षणत्वात् । तथाहि-यत् स्वकारणसद्भावे भवति तदभावे च न भवति तत् कार्यमुच्यते, भवन-१० धर्मा च कथं न भावः ? यतो 'भवति' इति भावः उच्यते इत्यङ्करादेरपि भावशब्दप्रवृत्तिनिमित्तं नापरमुपलभ्यते, तच्चेदभावेऽप्यस्ति कथमसौ न भै(भा)वः? न चार्थक्रियासामर्थ्य भावशब्दप्रवृत्तिनिमित्तम् तथा(तच्चा)भावे नास्तीति वक्तव्यम् , सर्वसामर्थ्य विकलस्य तस्य प्रतीतिविषयताsभावात् कथं हेतुमत्त्वावगतिः? प्रतीतिजनकत्वे वा कथं न सामर्थ्य योग्यता? अथ कार्यत्वे सत्यपि यथा घंट-पटादीनों भेदः प्रतिनियतविज्ञानविषयतया तथा भावाऽभावयोः समानेऽपि कार्यत्वे १५ सत्प्रत्ययविषयस्य भावता असत्प्रत्ययविषयस्य वा(चा)भावरूपतेति, असदेतत् ; असत्प्रत्ययविषयत्वे कार्यताऽप्यस्य दूरोत्सारितैव । अथ स्वहेतुभावे भावात् कार्यता अस्य तर्हि कथं न सत्प्रत्ययं(य)विषयता? तथाहि-यद्यसौ 'भवति' इति प्रतीयते 'सन्' इत्यपि प्रतीयेत, नहि 'अस्ति' 'भवति' 'सद्भावः' इति शब्दानां कश्चिदर्थभेदो विद्वद्भिरिष्यते, अथ वा(चा )भावात्मकतयैवासौ भवति, न; व्याहतत्वात् । यतो 'न भवति' इत्यभाव उच्यते स कथं भवतीति ? स्वग्राहिणि ज्ञाने प्रतिनियतेन २० रूपेणाऽप्रतिभासनात् 'अभावः' इत्येतदपि न वक्तव्यम्, अत्यन्तपरोक्षचक्षुरादीनामप्यभावताप्रसक्तेः । न वाभावस्य भवितेषु पर्युदासात् प्रसज्यप्रतिषेधो भिद्यते, नवाऽसद्रूपत्वस्य विधानात् स पर्युदासाद् भिद्यते असदूपस्य भवनविरोधात्, 'भवति' इति हि भूत्या सत्तयाऽभिसम्बध्यते, ऍवं कथमसद्रूपस्य विधानं विधिः सर्वदा प्राधान्यात् ? नअर्थश्च पर्युदास एवैको भवेत् यतो यदि कुतश्चित किश्चिन्निवर्तत तदा तत पर्यदासेन तद्यतिरेकि परामृश्येत न चैवं भवति, 'निवृत्तिर्भवति'२५ इत्युक्तेऽर्थान्तरस्यैव कस्यचित् सर्वत्र विधानात्, एवं वस्त्वन्तरमेवोक्तं स्यात् न तयोविवेकः, अविवेके च न पर्युदासः । अपि च, यद्यंग्न्यादिभ्योऽभावो भवेत् तद्भावे काष्ठादयः किमिति नोपलभ्यन्ते ? न होण्यादिभ्यो ध्वंससद्भावेऽपि काष्ठादयो निवृत्ताः ध्वंसोत्पादन एंव अग्नयादीनां चरितार्थत्वात् काठोपमर्दन ध्वंसस्योत्पत्तेः। न तेषामुपलब्धिरिति चेत्, कुतः पुनस्तदुपमर्दः ? न तावत् प्रध्वंसाभावात् काष्ठादिसत्ताकाले तस्याभावात् । नाग्नयादिभ्यः ध्वंसाविर्भावि(व)न एव तेषां ३० १-पतेव वा० बा० विना। २ सिद्धेतुः अकृ-वा. बा०। ३ प्रध्वंस इति वान् घ-वा. बा० । ४ पुनन्मङ्कव्य-वा० बा० । पुनर्मक्तव्य-भा० । पुनर्मुक्तव्य गं०। ५-था हंतृबन्धे वा० बा० ।-था हेतुंबन्धे हा० वि० । अत्र 'हन्तुर्वधे' इति पाठः स्यात् । ६ अत्र 'देवदत्तहन्तुर्देवदत्तमरणरूपत्वात्' इति संभाव्यते । ७ वा हेतुमत्ताभ्युप-आ. हा० वि० । चा हेतुमत्ताभ्युप-भां० मा०। ८ भवतः न चा-वा० बा० । भवनवा-हा०वि०। ९-था भवे भां० मा० ।-था भावं ना-हा०वि०। १०-स्य प्र-वा. बा. विना। ११-मायो-वा० बा० विना । १२ घटापटादी-बा. बा. भां० मा० । घटादी-हा०। १३-नां भेद प्र-वा. बा. विना। १४-यस्य वा भावरूपतेति वा. बा. विना। १५ सन्नाव इ-वा० बा०। १६-कताया वासौ वा० बा० ।-कतायैवासौ आ० हा० वि०। १७-त्वात् यतो वा० बा० । १८-भावत्येतेतदपि न च व-वा. बा०। १९-क्षुदानीम-वा. बा। २. वास्य आ० हा० वि०। २१-विविषु प-वा० बा०।-वितृष्णु प-वि०। २२-द्यते सद्रू-बा० बा०। २३-वतीतिति हि वा० बा०। २४ एव क-आ० । २५-थनस-वा० बा०। २६ सर्वदाऽप्रा-मां। सर्वद प्रधानात् वा० बा० । २७ वर्तते त-वा. बा.। २८ न चैक भ-वा० बा०। २९-वस्त्यादि-वा. बा.। ३०-द्भावे को काष्टाद-वा० बा०। ३१ ह्यस्यादि-आ. हा. वि.। ३२ एवात्मादी-वा० बा०। ३३ न भावत् वा. बा. विना। ३४-ध्वंसाक्षात् काष्टादि-भां० मा. आ. हा० वि०। ३५-साविन एव तेषां भां. मां० ।-सादेर्भावनं एव तेषां आ० हा. वि.।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy