SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३३४ प्रथमे काण्डे दयभ्यध- 'प्रत्यभिशाप्रत्यक्षावसितं भावानामक्षणिकत्वमिति क्षणध्वंसितापरिकल्पनमयुक्तम्' इति, तदप्यसङ्गतम् तस्याः प्रामाण्यासिद्धेः । तथाहि प्रमाणस्येदं लक्षणं परेणाभ्यधायि'तत्राऽपूर्वार्थ विज्ञानम्' इत्यादि । न च वाधकवर्जितत्वं अस्याः संभवति प्राकूप्रतिपादितानुमानबाध्यत्वात् । अथ तया बाधितत्वादनुमानस्य कथं वाधकत्वम् ? असदेतत्; अनिश्चितप्रामाण्याया ५ अस्य बाधकत्वानुपपत्तेः । न चेतरेतराश्रयत्वं दोषः यतो नानुमानस्य प्रामाण्यं प्रत्यभिशोऽप्रामाण्याश्रितम् अपि तु स्वसाध्यप्रतिवन्ध्याः स्य च (बन्धात् सत्र) विपर्यये बाधकप्रमाणवला निश्चित इति कथमितरेतराश्रयत्वलक्षणो दोष: ? न चानुमानंविरोधमनुभवन्त्यपि प्रत्यभिशा प्रमाणम् अन्यथा आकारसाम्यदेवत्व (म्यादेकत्व) मधिगच्छन्ती नीले तर कुसुमसर्पादिवस्तुनः प्रमीणं भवेत् यतो नात्रापि कुसुमादिकार्यदर्शनमनुमीयमानो भेद (?) प्रत्यक्ष प्रतीततामनुभवति । न चानुमानस्यात्र १० बाधकत्वं न इतरत्र प्रमाणावगतसाध्यप्रतिविम्व(बन्ध) पक्षधर्म तात्मक तल्लक्षणसंशिनो ऽनुमानस्य प्रत्यभिज्ञा अन्यद्वा वत्प्र ( तत्प्र ) माणान्तरं बाधकं संभवति विरोधात् । तथाँहि स्वसाध्यप्रतिबन्धे हि सति हेतुः स्वसाध्ये सत्येव तस्मिन् धर्मिणि भवति, वाधा तु तदभावनिमित्तैव कथं न विरोधः ? प्रत्यक्षादिकं च बाधकं तत्र धर्मिणि साध्याभावमवबोधयति स्वसाध्याविनाभूतश्च हेतुस्तत्र प्रवर्त्त - मानः स्वसाध्यसद्भावमिति भावानामस्त्रास्थ्यं भवेत् । अनुमानाप्रामाण्यप्रसङ्गश्चैवं स्यात् तुल्यलक्षणे १५ ह्येकत्र बाधक सद्भावो दृष्ट इति । अश्वाधकेऽपि तदाशङ्का न निवर्त्तते ( तेs) विशेषात् । नहि दृष्टप्रतियोगिनः प्रागितरेण कश्चिद् विशेषो लक्ष्यते यतो न संभवद्वाधकानामपि सर्वदा तदुपलब्धिः सातिशयप्रज्ञानां तु कदाचिद् वाधकोपलब्धिर्भविष्यतीतिं तन्निश्चयो (?) वाधकाभावाऽभावयोरित्यनिश्चिततल्लक्षणत्वादनुमानं न किञ्चिदपि प्रमाणं स्यात् । कुतश्चाध्यक्षज्ञानमप्रमाणम् ? नानुमानतः नहि प्रत्यक्षानुमानयोः प्रमाणरूपतायां विशेषः- प्रत्यक्षेऽप्यर्थाव्यभिचारा (रः) प्रामाण्यनिबन्धनम् स २० च तस्मादात्मलाभः [?? अन्यतो भवतोऽभवतो वा भवतः तदा व्यभिचारनियमाभावात् स पा (चा) र्थात्मलाभः साक्षाद् ?? ] व्यवधानं तथाऽनुमानेऽपि तुल्यः । यदि प्रत्यक्षवाधान (म) न्तरेण प्रत्यभिज्ञानस्याप्रामाण्यं नाभ्युपगम्यते तदा वक्तव्यं किमिति शालिवीजमेव शाल्यङ्कुरजनकं (कं न ) कोद्रवबीजम् ? अथ शालिबीजभावे तदङ्करभावमवगच्छताऽध्यक्षेण तस्यैव तजनकत्वव्यवस्थापनान्न कोद्रववीजस्य कोद्रवबीजभावे [?? शाल्यङ्कुरविविक्ततद्देशप्रतिभासवतोऽध्य क्षेण तस्याजनकत्वव्यवस्थाप२५ नाच्च । नन्वेवमन्वयव्यतिरेकानुविधायि तत्कालकार्यमवगच्छद् अध्यक्षं कस्यचिद् वस्तुनः तदा तज्जनन स्वभावतानुत्तरकालभाविनस्तत्कार्यस्य तदानीं तस्याजनन स्वभावतां च किमिति न प्रत्येति तथा चोत्तरकाल (लभा) विकार्यजननसमये प्रत्यभिज्ञाज्ञानं यदा स एवायम्' इति प्रत्येति तदा कथं प्रत्यक्षेण बाध्यते ? यतः 'अयम्' इत्युल्लेखवत् पुरोवस्थितवत्की (तत्का) लकार्यजनकं वस्तुनः परामृशति 'स एव' इत्युल्लेखवच्च प्रोक्कनम् तदजन कैश्च भावस्तस्य संस्पृशति तत् कथं पूर्वापरकाल३० भावि कार्यजनकस्वभावव्यवस्थापकाऽक्षतप्रत्ययकान्ता बाधां प्रत्यभिज्ञाज्ञानमनुभवति ? तथा, 'स एवायम्' यः प्रागेव तत्कालकार्याजनकस्वभावोऽध्यक्षेण व्यवस्थापितः स यदि न तर्ह्ययं यो जनकस्वभावतयेदानीं परामृष्टः अथायं जनकस्वभावो विरुद्धरूपमाबिभ्रतां द्विचन्द्रादिप्रत्ययानामिव तत्त्वव्यवस्थापकत्वाऽसंभवादिति स्वप्रतीत्याववाप्यतेयप्रत्यभिज्ञा अतो 'बाधावर्जि (र्जित) त्वम्' अप्यस्या १ पृ० ३१८ पं० २३ । २ तत्र पू- वा० बा० विना । पृ० ३१८ पं० २५ । ३- ज्ञाऽप्रमा-वा० बा० । -ज्ञाः प्रामा-आ०।- ज्ञाप्रामा हा० वि० । ४ तु श्रस्खसाध्य प्रतिबन्ध्यस्म विप-आ० । ५- प्रतिवन्ध्यस्य च विप- हा० वि० । ६- पर्यय बा वा० बा० । ७-नविरोधाम - वा० बा० विना । ८-भवत्यपि वा० बा० । ९-कारं सा वा० बा० । १० - तरं कु - वा० बा० । ११ - माणं वे वा० वा० विना । १२-माना भे- वा० बा० । १३- णसंनिनो - वा० बा० ।-णसंज्ञितो मां० । १४ - न्यद्वा त् प्र-आ० हा० वि० विना । १५ - थाहि स्वस्वसाध्य-भां० मां० । १६ – स्वाख्यं भ-आ० हा० वि० । १७- लब्धः सा-वा० बा० विना । १८- तिन निश्चि यो वा० बा० । १९ तदव्य - वा० वा० भ० मां० । २०- धानं नवानु-आ० हा० वि० विना । २१ तत्कार्यभां० मां० । २२- स्तुन त- वा० बा० । २३- कालाका-वा० बा० । २४ - नकव-भां० हा० वि० । २५ प्रा. गमं त - वा० बा० । २६- कश्व भावं तस्य वा० वा० ।-कश्व भावस्वस्य भ० मां० । २७ – त्यभिज्ञाननानुवा० बा० । २८ अथेयं वा० बा० विना । २९ - भावो न तर्हि स एवेत्यंध्यवसीयमानोऽजनस्वभावो विरुद्धरूप - वा० बा० । ३० - पमबि - वा० बा० । ३१-प्यते प्र-वा० बा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy