SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। ३३१ न वानेकोद्भुतं तद् अनेकमासज्यते यतः 'न कारणमेव कार्य भवति' इत्येतदस्मदादिभिरभ्युपेयते येनानेकपरिणतेरनेकरूपत्वात् कार्यस्याप्यनेकत्वप्राप्ति(प्तिः) किन्तु केपुचित् सत्स्यपूर्वमेव किञ्चित् प्रादुर्भवति तद्भाव एव भावात् तत्कार्यमुच्यते इति नानेकताप्रसङ्गः। यदि त्वेष्वभिन्नं रूपं जनकं स्यात् तदाँ तस्यैकस्थितावपि भावात् तत्कार्यजननस्वभावत्वाच्च विशेषान्तरविकल्पा(ला)दपि ततः कार्योदयप्रसक्तिः अन्यस्तन्नि(न्यसन्नि)धावपि तस्य विशेषाभावात् तदवस्थायामपि वा न जनयेत् ५ अतो यद्भावाऽभावानुविधायि यत् दृष्टं तत् कार्यम् त एव च विशेषास्तस्य जनका इति कुतोऽनेकान्तः? अथ सामग्रीमाश्रित्य न कारणभेदात् कार्यभेदः स्यादित्युच्यते, तदप्यसत्; सामग्रीभेदे कार्यभेदस्येष्टत्वात् कार्यस्याप्यनेकसामग्रीजनितस्यानेकत्वात् तद्वैलक्षण्ये च तस्यापि विलक्षणत्वात् । तस्मात् न सत्तालक्षणस्य हेतोरनैकान्तिकता। नापि विशेपलक्षणविरहः प्रमाणनिश्चितस्य तन्मात्रानुबन्धस्य स्वभावहेतुलक्षणस्य सद्भावात्। __ यदप्युक्तम् 'कार्यहेतुप्रतिपाद्योऽपि प्रतिक्षणं ध्वंसो न भवति क्षणिकत्वेऽक्षदृशोऽप्रवृत्तेः कार्यकारणभावस्य च प्रत्यक्षानुपलम्भसाधनत्वात्' इति, नदप्यसंगतम् ; यतो यदि सर्वत्र प्रत्यक्षानुपलम्भसाधन एव कार्यकारणभावस्तदा चक्षुरादीनां स्खविज्ञानं प्रति कुतः कारणताप्रतिपत्तिः ? अथ तद्विज्ञानस्याऽन्येषु सत्स्वपि हेतुषु कादाचित्कतया तव्यतिरिक्तकारणान्तरसापेक्षत्वाच्चक्षुरादीनां तंत्र हेतुत्वमनुमीयते स तीहापि न्यायः समानः। तथाहि-विषयेन्द्रियादिवशात् प्रतिक्षणविशरारूणि १५ क्रमवन्त्युपजायमानानि शानानि तथाविधकारणप्रभवत्वमात्मनः सूचयन्तीति कथं (थं न) कार्यहेतुः क्षणध्वंसितां चक्षुरादीनां प्रतिपादयेत् ? कार्यक्रमाद्धि कारणक्रमः प्रतीयमानः कथं कार्यहेतुश्चलप्रतीतिर्भवतीत्यलमतिनिर्बन्धेनाऽज्ञप्रलापेषु । यदप्युक्तमें 'असतोऽजनकत्वान्न क्षणविशरारोः कार्यप्रसवः' इति, तदनभ्युपगमादेव निरस्तम् । यच्च 'अविनष्टा(टान) द्वितीयक्षणव्यापारसमावेशवर्तिनः कार्यप्रभवाभ्युपगमे क्षणभङ्गभङ्गप्रसङ्गः' इत्यभिहितम् , तदप्यसङ्गतम् ; यतो यदि व्यापार-२० समावेशाद् भावाः कार्यनिव()तका भवेयुस्तदा (??) कार्योत्पादने द्वितीयक्षणप्रतीक्षाया स्यादयो दोषा यावता प्रसवव्यापारसमावेशलक्षणदोषो (??) द्वितीयसमयप्रतीक्षाव्यतिरेकेणापि खमहिम्नव कार्यका(?) रणे प्रैवर्तन्ते एवान्यथा द्वितीयक्षणभाविव्यापारजननेऽप्यपरव्यापारसमावेशव्यतिरेके. णाप्रवृत्तेस्तत्रापि व्यापारान्तरसमावेशकल्पनातोऽनवस्थाप्रसक्तेः अपरापरव्यापारजननोपक्षीणश. क्तित्वान्न कदाचनापि कार्यं कुर्युः। अथापरव्यापारनिरपेक्षा एवैकं व्यापार निव(व)त्तयन्ति तथा-२५ सति कार्येण किमपराद्धं येनाद्यव्यापारनिरपेक्षास्तदेवें न जनयन्ति ? पारम्पर्यपरिश्रमाऽप्यै(मोऽप्येषामेवं परिहतो भवति । पदार्थव्यतिरेकेण चोपलभ्य स्वभावं व्यापारमभ्युपगच्छतः प्रत्यक्षविरोधश्च । न च व्यापारमन्तरेणार्थक्रिया नोपपत्तिमतीति वक्तव्यम् व्यापारेणैव व्यभिचारात् । तथा, व्यापारस्याप्यपरव्यापारमन्तरेणापि यदि कार्ये प्रवृत्तिः-अन्यथाऽत्राप्यनवस्थाप्रसङ्गात् कार्यानुत्पत्तिः स्यात्-ता( दा) व्यावृत्त(पृत ?)पदार्थस्यापि तमन्तरेणैव सा भविष्य-३० तीति व्यर्थ व्यापारपरिकल्पनम् तत्स्वभावत एवं स्वकार्यकारिणो भावा न व्यापारवशात् ते च स्व १ नचा-वि० । २-सज्यन्ते हा० वि०। ३-दस्मादिरभ्यु-वा० वा०। ४ प्राप्तिं वा० बा । प्राप्त आ० । ५-चित् सस्वपू-आ० ।-चित सत्स्वत्पू-वा. वा०। ६ यदि तु तेष्वमि-आ० । यदि तु वेमिहा० वि०। ७-दात्तस्यै-वा० बा०। ८-दये प्र-वा. बा. विना। ९ नयति वा० बा०। १० यद्भावाभावात्वाविधा-आ० । यद्भावाभावात्वविधा-वि०। यद्भावानुविधा-वा० वा०। ११-मग्रीनाधिस्या न आ० विना। १२-स न सा-वा० बा। १३ तस्यानेकत्वात् त (न) सता(त्ता) लक्ष-वा० बा० । १४ तन्न सत्ता-वि.। १५-षणल-वा. बा०। १६ पृ० ३१८ पं० १६। १७-क्षणं त्वंसो वा. बा। १८ तत्र भवमनु-वा० बा०। १९-मानानि तथा-वा० बा० विना। २० क्षणिध्वं-वा० बा०। २१-णध्वं. सिनां चक्षु-आ० हा० वि० ।-णध्वंसिनो चक्षु-भां० मा०। २२-पादत् का-वा० वा०। २३ पृ. ३१८ पं० १८। २४ यद्वा वि-भां. मां०। २५ पृ. ३१८ पं० १८। २६ प्रतीक्षास्यादयो दोषो यावता वा० बा० । प्रतीक्षाया स्यादयो दोषो यावता वि.। २७-महिमैव आ० विना।-महिमेवं का-वा०। २८-रणा प्र-वा. बा.। २९-वर्तते हा० । ३०-च ति ज-वा० बा०। ३१-श्रमाच्चैषामेवं आ• विना। ३२-या नोपरपपत्ति-(नोपपत्ति-) वा. बा.। ३३-था व्यापारमन्तरेणापि आ० हा० वि० विना। ३४-था व्रत प-वा० बा०। ३५ स्थापि मन्त-आ० विना। ३६ एवं आ० हा० वि०। ३७-शास्ते च वा. बा. विना ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy