SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। तद्विविक्तदेशाद्य(ध्य)वसायिनोऽध्यक्षस्यानुभवादभावसिद्धेः । अङ्कुरोदेस्तु(??)स्य कार्यस्य क्रमाक्रमभावव्यतिरेकेणाभावेऽन्यदाभावो न(??) क्षतिमावहति तस्मात् प्रत्यक्षत एव प्रकारान्तराभावसिद्धिः (द्धेः) क्रम-योगपद्ययोगेन कथं न सामर्थ्यस्य व्याप्तिर्भवेत् ? अत एवं न्यायाद् देश-कालविप्रकर्षिणो भावास्तथाविधं कार्य ये विद्धति क्रमेतराभ्यामन्यथा न ते कर्तुमर्हन्ति अन्यथा तस्यैवासम्भवात् । तथाहि-यद्यपि देशादिविप्रकृष्टता तेषां तथापि कार्यस्य भावो दृष्टकार्यधर्मव्यतिरेकेण न ५ सम्भवति कार्यमात्रस्य विशेषाभावात्, कार्यता हि कस्यचिद् भावे भवनम् तच्च अन्यसहितस्य केवलस्य वा नान्यथा इत्यत्र प्रत्यक्षाऽनुपलम्भतः सिद्धम् यथा च प्रत्यक्षानुपलम्भस्तद(?)भावभावित्वसिद्धेः कार्यतायामकुरादेः सर्वत्र तथैव तल्लक्षणव्यवस्थाविशेषाभावात् तथा कार्यस्य भावोऽपि प्रकारद्वयेन सर्वत्र नान्यथा विशेषाभावाद् भवनमात्रस्येत्यनुपलब्धिलक्षणप्राप्तानामपि क्रम-योगपद्याभ्यामर्थक्रियासामर्थ्यस्य व्याप्तिः। अनुमानतोऽपि सर्वत्र प्रकारान्तराभावः सिद्ध्यत्येव । तथाहि-१० अन्योन्यव्यवच्छेदरूपाणामेकनिषेधेनापरविधानात् तस्याऽपि प्रतिषेधे विधि-प्रतिषेधयोरेकत्र विरोधादुभयनिषेधात्मनः प्रकारान्तरस्य कुतः सम्भवः? प्रयोगश्चात्र-यत्र यत्प्रकारव्यवच्छेदेन तदितरैकप्रकारव्यवस्थापनम् न तत्र प्रकारान्तरसम्भवः, तद्यथा नीलप्रकारव्यवच्छेदेनानीलप्रकारव्यवस्थायां पीते, अस्ति च क्रमाऽक्रमयोरन्यतरप्रकारव्यवच्छेदेन तदितरप्रकारव्यवस्थापनं व्यवच्छिद्यमानप्रकाराविषयीकृते सर्वत्र कार्यकारणरूपे भाव इति विरुद्धोपलब्धिः । व्यव-१५ च्छिद्यमानप्रकारेतरव्यवस्थापन प्रकारान्तरत्वं प्रकारान्तरंश्च (?) ततो बहिर्भावलक्षण इत्यनयोस्तथोऽन्यथारूपयोः परस्परपरिहारलक्षणत्वात् । न च अत्रापि बाधकान्तराशङ्कया अनवस्थानमाशङ्कनीयम् (??) पूर्वप्रसिद्धस्य विरोधस्य स्मरणमात्रत्वविरुद्धोपलब्धिषु हि धर्मिणि सद्भावमुपदर्शि विरोधमेव बाधकं(??) तस्माद् विरुद्धयोरेकत्रासम्भवात् प्रतियोग्यभावनिश्चयः शीतोष्णस्पर्शयोरिव भावाभावयोरिव वेति कुतोऽनवस्था? २० ____ अथ कथं क्रमयोगपद्यायोगोऽक्षणिकेषु भावेषूच्यते ? न तावद् अक्षणिकाः क्रमेणार्थक्रियाकारिणः अकारकावस्थाऽविशेषात् प्रागेव द्वितीयादिक्षणभाविनः कार्यस्य का( क )रणप्रसङ्गाच्च तत्कारकस्वभावस्य प्रागेव सन्निधानात् । न च तदैव सन्निहितोपा(त्पा)दकानां कार्याणामनुदयो युक्तः पक्षा(श्चा)दपि तत्प्रसक्ते(क्तेः)। न च सहकारिक्रमात् कार्यक्रमः इति वक्तव्यम् यतः सहकारिणः किं विशेषाधायित्वेन तथा व्यपदिश्यते(न्ते), आहोखिद् एककार्यप्रतिनियता(मा)-२५ चक्षरादय इवाक्षेपकारिणः स्वविज्ञाने ? तत्र यदि प्रथमो विकल्पः, स न युक्तः, तज्जनितविशेषस्यार्थान्तरत्वप्रसक्तेः यतो नै तस्मिन्निष्पन्ने पश्चान्निष्पद्यमानो भिन्नहेतुको वा तत्स्वभावो युक्तः "अयमेव हि भेदो भेदहेतुर्वा विरुद्धधर्माध्यासः कारणभेदश्च” [ ] ततश्चेन्न भेदो न क्वचिदप्ययं भवेत् अन्यनिमित्ताभावात् । प्रतिभासभेदादिति, ननु प्रतिभासभेदोऽपीतरेतरप्रतिभासाभावरूपतया विरुद्धधर्माध्यासरूपता(तां) नौतिवर्त्तते, भेदे वा(चा)तिशयस्य तद्वस्थ एवासौ भाव ३० १-रादेस्तु म्य का-आ० ।-रादेस्तु म्य का हा० ।-रादे स्य का-वा० या० ।-रादेस्तु म-वि०। २-वन न्या-वा. बा० । ३-था ते वा. बा० । ४-महति वा बा० आ०। ५-कार्यस्या भा-आ० हा०वि०। ६ दृष्टा का-हा०। ७-तस्या के-वा० वा०। ८-म्भतस्त-वा० बा०। ९ वाद् भवनकार्यस्य भावि प्रकार-वा० बा०। १०-त्र यत्र त् प्रका-वा० वा. भां० मां०। ११-लब्धि व्यव-वा. बा० ।-लब्धि विद्य-वि०।-लब्धि द्यमान-आ. हा०। १२-स्थापनं रतत्वं प्रकारान्तरत्वं प्रकारान्तरश्च संभवश्च ततो वा. बा० ।-स्थापनं प्रकारेतरव्यवस्थापन प्रकारान्तरश्च ततो भां० मा०। १३-थारू-आ० वा. बा० विना। १४-लब्धि हि आ० हा० वि० । १५ तस्मा यनतरं प्रकारान्तरकत्रा संभ-वा. बा०। १६-वयोरिवेति आ०। १७-धानन्न च वा. वा.। १८ कार्याक्र-वा. वा०। १९ प्रमेयक. पृ. ४ प्र० पं० ४। २०-था व्युप-वा. बा.। २१ इव क्षेप-वा. बा.। २२-न्तरप्र-वा. बा.। २३ न भाव इति पश्चान्निष्पद्यमानो वा० बा०। २४-भावात् प्रतिभासमेदोपीतरेतर-वा० बा०। २५ नाति प्रवर्त-वा० बा०। २६ “भेदे सम्वन्धासिद्धेस्तदवस्थमेव अकारकत्वमेतेषां पूर्वावस्थायामिव पश्चादपि अनुषज्यते"प्रमेयक.पृ०४प्र.पं०५।२७-शयतदवस्था एवा-वा० बा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy