SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। प्रकारान्तरे(रेण) 'नैकदा कार्य करोति पुनः पुनश्च करोति' इत्येवं करणमभ्युपगन्तव्यम् भावस्यावस्तुत्वप्रसक्तः सर्वदाऽकर्तृत्वात् । अथ 'एकदा कार्य करोत पुन(नः) पुनश्च न करोति' इति प्रकारान्तरेण करणमभिमतं तेथापि न यदा (पि यदा ) न करोति न तदा (ति तदा ) अवस्तु त्वमेव प्रसक्तम् । तस्माद घटादिः पदार्थोऽर्थक्रियाकारी क्रमाक्रमाभ्यां प्रत्यक्षसिद्धः स एवायम्' इति ज्ञानादक्षणिकश्च प्रतीयत एव । तस्यैककार्यकरणं प्रति यत् सामर्थ्य तत् तदैव न पूर्व ५ न पश्चात् तत्कार्याभावात् सामर्थ्य तु ततोऽव्यतिरिक्तमेव उत्तरकार्योत्पत्तावप्येवं द्रष्टव्यमिति सामर्थ्यभेदेन पदार्थभेदात् कथं न क्षणिक एव क्रमाक्रमयोनियमः? अतो यत्र सत्त्वं तत्र क्रमाक्रमप्रतीतावपि क्षणिकत्वप्रतीतिरेव, य एव क्षणिके क्रमाक्रमयोनियमो नित्येऽप्ययमेव न (?) योगः ततो घटादौ यदेतन्नित्यत्वं प्रतीतिविषयत्वेनाध्यव सितं तत् सत्त्वविरुद्धमिति क्रम-योगपद्याभ्यामर्थक्रियाविरोधो नित्यस्य सिद्ध उच्यते । यथा च दृष्टेषु घटादिपु क्षणिकत्वव्याप्तं सत्त्वं तथाऽ-१० दृष्टेष्वप्यविशेषादिति सर्वोपसंहारेण व्याप्तिमवगत्य यथा यथा तेषु सत्त्वं निश्चीयते तथा तथा क्षणिकत्वानुमानम् यत्र च सत्त्वानिश्चयस्तत्र सत्त्वाशङ्कया शशविषाणादिष्विव न क्षणिकत्वप्रतीतिरन्यत्र प्रसङ्गसाधनात् । न च तत्राप्यनुमानवैयर्थ्य बाधकप्रमाणादेव क्षणिकत्वस्य (स्या)निश्चितत्वादिति वाच्यम् प्राग् गृहीतव्याप्तिकस्य सत्त्वनिश्चयमात्रेणैव क्षणक्षयाधिगतेर्बाधकप्रमाणवैयर्थ्यात् । ये तु विपक्षाद् व्यावृत्तत्वेन क्षणिकत्वव्याप्तिं सत्त्वस्य सर्वत्रावगम्य तत्रैव सत्त्वात् क्षणिकत्वमनुमापयन्ति तेषां १५ व्याप्तिग्राहकादेव प्रमाणा(णात्) क्षणक्षयस्य सर्वत्र निश्चितत्वादनुमानोत्थानमेव न स्यात् त्रैलोक्यस्य च सर्वस्य प्रत्यक्षत्वाद्धर्मसिद्धिश्च तेषां दोषः असिद्धश्च हेतुः प्राप्नोति पक्षीकृते च सर्वस्मिन् धर्मिणि बाधकं च स्यात् । यदि विपक्षाभावस्सिद्धस्तदा साध्यस्यापि सिद्धत्वादनुमानोत्थानंन स्यात् अन्यश्च धर्मी न सिद्ध इति कथं वा कस्य प्रवृत्तिरिति, यत् किञ्चिदेतत्; त(तत्) स्थितमेतत् सत्त्वविशिष्टस्य कृतकत्वस्य क्षणिकत्वेन सह तादात्म्य(त्म्यं) प्रमाणनिश्चितमिति कथं नान्वयव्यतिरेकनिश्चयः? यद्वा२० सत्त्वविशेषविलस्याऽपि कृतकत्वादेः क्षणपरिणामे साध्ये नानैकान्तिकत्वम् यतस्तस्य प्रथमे क्षणे य एव स्वभावो द्वितीयेऽपि क्षणे स एव चेत् तदा प्रथमक्षणवदभूत्वा भवनमेव प्रसक्तमिति क्षणिकत्वम् । अथ प्रथमक्षणे जन्मैव तस्य न स्थितिः द्वितीये स्थितिरेव न जन्म एवमपि क्षणिकत्वप्रसक्तिर्जन्म-जन्मिनोः स्थिति-स्थितिमतोश्चाभेदात् । न च द्वितीयेऽपि क्षणे जन्मव्यतिरेकेण स्थितियुक्ता। अथ तत्राऽपि जन्म तर्हि न तदा स्थितिद्धितीयादिक्षणभावित्वात् तस्याः एवमुत्तरोत्तर-२५ क्षणेष्वपि सर्वदोत्पत्तिरेव न स्थितिरिति क्षणक्षयित्वमेव उत्पत्तिश्च हेतुकृतेति तत्रैव कृतकत्वं(?) स्थितौ तस्मात् कृतकत्वस्याक्षणिकत्वविरुद्धत्वान्नानैकान्तिकत्वमिति सत्त्वानन्तर्भूतस्याऽपि कृतकत्वस्य व्याप्तिः प्रमाणनिश्चितेत्यत्राप्यन्वय-व्यतिरेकनिश्चयः। परे तु सत्त्वलक्षणस्य हेतोस्तादात्म्यस्वरूपः प्रतिबन्धो विपर्यये बाधकप्रमाणनिबन्धन इत्येवं वर्णयन्ति । यत्र क्रम-योगपद्यायोगो न तस्य क्वचित् सामर्थ्यम् अस्ति चाऽक्षणिकेषु सै यि(इ)ति तेषां३० सामर्थ्यविरहलक्षणासत्त्वसिद्धौ ततो निवृत्ती सत्त्वमर्थक्रियासामर्थ्यलक्षणं क्षणिकेष्वेवाऽवतिष्ठत इति सत्त्वस्य क्षणिकत्वस्वभावतासिद्धिः अनेन हि बाधकेन प्रमाणेन सत्त्वविरोधमसत्त्व (सत्त्वविरुद्धमसत्त्वं ) क्षणिकेष्वाकृष्यते । न च विरुद्धयोरेकत्र समवधानमिति ततो विरुद्धानकान्तिकते अपि नाशङ्कनीये । अथ कथमर्थक्रियासामर्थ्य निवृत्ति(त्तिः) क्रम-योगपद्यनिवृत्तिनिमित्ता तयोस्तद्वथाप. १-काराणांतरे वा० बा० । २-श्च न करोति पुनः पुनः कारणमभ्यु-वा० बा० । ३-ति पुनश्च न क-वा. बा. हा० वि० ।-ति पुनः क-भां० मा०। ४-णममि-वा. बा. विना। ५ तदापि वा. बा. विना। ६-दा व-आ० हा० वि० ।-दा न करोति तदा वस्तु-वा० बा०। ७-दार्थभे त् क-भां० मां० हा० वि० ।-दार्थवत् क-आ०। ८-व तयो-वा० बा०। ९-दिष्विति क्ष-वा० बा०। १०-सङ्गासा-वा. बा०। ११-स्मिन्नध-वा० बा०। १२-पक्षोभा-वा० वा०। १३-न्यश्चाध-वा. वा. विना। १४ कस्य वृ-वा० बा०। १५-श्चिदेतत् स्थितमतत् स-भां० मा० ।-ञ्चिदेतत् स्थितमन सत्व-आ० हा० वि० । १६ यथा आ० हा० वि०। १७-कल्पस्या-आ०। १८-कमथ वा० बा०। १९-ति क्षयित्व-भां. मां । २०-कत्वं न स्थिते ते तस्मा-वा. बा० ।-कत्व स्थितौ भां० मां०। २१ सत्तेति वा. बा. विना। २२-सत्वो सिद्धो ततो वा. बा०। २३-सत्वं वि-आ०। २४-धमत्व-भा०मा० । ४२ स० त.
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy