SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३२० प्रथमे काण्डेशब्दमात्रास्वालोचनप्रत्ययावगतमेव स्थैर्यम् ‘स एवायम्' इत्यनन्तरमनुसन्धानविकल्पोत्पत्तिदर्शनात । तथाहि-अर्थसंसर्गानुसारिणोऽनुभवादुपजातान्नीलविकल्पात् तद्यापाराऽनुसारिणो । नीलानुभवव्यवस्था सौगतैरभ्युपगता तथा पूर्वदृष्टं पश्यामि' इत्युल्लेखवतोऽनुसन्धाने(??) विकल्पात्रु. ट्यद्पशब्दाद्यवभासिनस्तत्त्वात् तमुधिगतरूपत्वं किमिति न व्यवस्थाप्यते(??) 'पूर्वदृष्टमेव पश्यामि' ५इत्युल्लेखवानुपजायमानोऽप्यनुसन्धानप्रत्ययो न प्रत्यभिज्ञाध्यक्षतामनुभवतिक्षणिकाभिव्यक्तिषु शब्द. मात्रास्वक्षसंसर्गाभावतस्तदोपजायमानत्वात् चिरतरकालाभिव्यक्तीनां तु घटादिव्यक्तीनां अनुसन्धानविकल्पप्रत्ययाधिगतमेव स्थिरत्वम् इन्द्रियसंसर्गानुसरणतस्तस्य प्रादुर्भावात् । न चेन्द्रिय(या)विषयत्वात् स्थैर्यस्य तदनुसारिणोऽविकल्पस्य वाऽध्यक्षस्य न पौर्वापर्ये वृत्तिरिति वक्तुं युक्तम् नीला. दावपि अस्य समानत्वात् । यथा चाक्षव्यापारानन्तरं नीलाद्यवभासस्याऽनुभूतेस्तस्य नीलादिविषय. १. त्वम् तथा नयनव्यापारानन्तरमँत्रुट्यदूंपप्रतिभासानुभूतेस्तस्य तद्विषयत्वमपि व्यवस्थापनीयम् । न च पूर्वदर्शनानुस्मरणमन्तरेण दृश्यमानस्यार्थस्य पूर्वदृष्टताधिगतिर्न सम्भवति, पूर्वदर्शनस्मरण एव वर्तमानदर्शनग्राह्यस्य 'पूर्वदृष्टमेतत्' इत्यध्यवसायात् । तच्च दर्शनं नेदानीन्तनदृशि प्रतिभाति इति तदप्रतिभासने न तदै(तद्द)ष्टतां वर्तमानदर्शनग्राह्यस्याध्यक्षमधिगन्तुं प्रभुरि(भु इति कथं पौर्वापर्येऽक्षजप्रत्ययप्रवृत्तिरिति वक्तव्यम् यतः 'पूर्वदृष्टमेतद्' इत्युल्लेखमन्तरेणाऽपि पौर्वापर्ये दृगवता. १५रात् । तथाहि-मलयगिरिशिखराद्यनुस्मरणकालेऽप्यक्षजे दर्शने पुरोव्यवस्थितो नीलादिरर्थः स्फुट मैत्रुट्यदूपतया प्रतिभाति तद्रूपतया प्रतिभासनमेवाऽक्षणिकत्वप्रतिभासनं कथं न निर्विकल्पकप्रत्यभिज्ञाध्यक्षसमवसेयं तत्त्वम् (??) । न च निर्विकल्पकाध्यक्षेणैवैकत्व ग्रहणात् तदेवेदमपि सविक ल्पप्रत्यभिज्ञाध्यक्षं गृहीतग्राहितया व्यवहारमात्रदर्शनफलत्वात् नीलादिविकल्पवदप्रमाणम् (??) यतो गृहीतमगृहीतं वाऽर्थस्वरूपमवभासयन्ती प्रतिपत्तिः अबाधितरूपा अर्थाविसंवादित्वात् प्रमाणम् २० अर्थाधिगतिफलनिबन्धनत्वे प्रमाणस्य लोके सिद्धत्वात् । ततो निर्विकल्पस्य विकल्पकस्य वा स्थैर्यग्राहिणः प्रत्यभिशाप्रत्ययस्य प्रमाणतेति तद्बाधितत्वात् क्षणक्षयस्य नाभ्युपगमार्हता युक्तिसङ्गता। विनाशस्य सहेतुकत्वात् हेतुसंनिधेः प्रागभावात् क्षयिणामपि भावानां कियत्कालं यावत् स्थैर्य अनमानादप्यवसीयते । न च नाशहेतनामभावः 'दण्डेन घटो भग्नः' 'अग्नि इति नाशहेतूनामन्वय-व्यतिरेकाभ्यां लोके सुप्रसिद्धत्वात् । अन्वय-व्यतिरेकनिबन्धनो हि सर्वत्र २५ हेतुफलभावः तमभ्युपगच्छन् 'हेतुमिरनाधेयत्वं(ध्वं)सा घटादयः' इति प्रत्येतुं न क्षमः। उक्तं च "अभिधाताग्निसंयोगनाशप्रत्ययसैनिधिम् । विना संसर्गिती याति न विनाशो घटादिभिः" ॥ [ ] इति। न चावस्तुत्वाद् विनाशस्य कार्यत्वं न सङ्गतमिति वक्तव्यम् , यतः "भावान्तरविनिर्मुक्तो भावोऽत्रानुपलम्भवत् । अभावः संमतस्तस्य हेतोः किं न समुद्भवः ?" ॥ [ ३० १-नुसन्धानं वि-मां. आ. हा० वि०।-नु वि-वा. बा०। २-न विकल्पात पूर्वरष्टमेव पश्यामीत्युल्लेखवानुपजायतो नात्यनु-वा० बा । ३-रवा ह्यधिगतिरू-हा०। ४ पृ० २८९ पं०१०-११ । ५-पर्यवृ-हा०। ६-क्षस्य व्या-भां० मा०। ७-मनुत्पद्यदू-मां०। ८-दूपाप्र-वा० बा०। ९-नुसरणवा. बा० । १०-दप्यतादृष्टतां वर्तमानग्राह्यसाध्य-वा० बा० ।-ददृष्टता व-वि० । ११-क्षजद-आ० । १२-मत्र त्रु-वा० बा० ।-मनु त्रु-वि.। १३-भासमान-वा. बा. विना। १४-कत्वंप्र-आ० । १५-कत्वाग्र-वि० ।-कत्वे ग्र-वा. बा०। १६-तदेवैद सवि-वा. बा०। १७-ध्यक्षगृ-भां० हा. वि.। १८-त्रप्रव. तेनफलकस्य वा-वा. बा०। १९-कस्या वि-आ. विना। २०-लोके षुप्र-वा. बा०। २१-यत्वंस. घटाद-मां०।-यत्वंसंघटाद-आ. हा० भ०। २२-घातोऽग्निः संयोग नसप्रत्ययसन्निधि । वा० बा। घाताभिसंयोग-हा। घातोऽभिसंयोग-आ०। २३-सन्निधि । हा.वि.। २४-तां यान्ति आ० वा. बा० । “तथाहि" इत्युल्लिख्य श्लोकोऽयं निर्दिष्टः हेतु० टी० ता० लि. पृ. ८०प्र० पं०६ । २५-शस्याका-वा. पा०। २६-त् । भावः सम-वा. बा. । पृ० १०५०२० तथा टिप्प. ४ । “तथा चाह कश्चित्" इति निर्दिश्य लोकोऽयं समुदृतः हेतु० टी० ता. लि. पृ० ८२ प्र.पं.२ श्लोकान्ते च "तदेतत् कौमारिलं दर्शनमपनुदन्नाह" इत्यपि तत्रैव लिखितम् । स्याद्वादर० पृ० १२३ प्र. पं० ८ । अयं श्लोकः "इति खयं भटेन प्रकटनात्" इति कृत्वा रत्नाकरावतारिकायां निर्दिष्टः रत्नाकरा०प्र०प० पृ.४३ पं० २१-२३ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy