SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ३०४ प्रथमे काण्डेलक्षणं व्यक्तं सुखाद्यन्वितं सिद्धम् सुखादीनां ज्ञानरूपत्वात् शब्दादीनां च तद्रूपविकलत्वात् न सुखाद्यन्वितत्वम् । तथा च प्रयोगः-ये ज्ञानरूपविकलाः न ते सुखाद्यात्मकाः, यथा परोपगत आत्मा, ज्ञानरूपविकलाश्च शब्दादय इति व्यापकानुपलब्धिः । अथ ज्ञानमयत्वेन सुखादिरूपत्वस्य व्याप्तिर्यदि सिद्धा भवेत् तदा तन्निवर्तमानं सुखादिमयत्वमादाय निवर्तेत; न च सा सिद्धा पुरुष५स्यैव संविद्रूपत्वेनेष्टेरिति, असदेतत्; सुखादीनां स्वसंवेदनरूपतया स्पष्टमनुभूयमानत्वात् । तथाहि-स्पप्टेयं सुखादीनां प्रीति-परितापादिरूपेण शब्दादिविषयंसन्निधानेऽसन्निधाने च प्रका. शान्तरनिरपेक्षा प्रकाशात्मिका स्वसंवित्तिः । यच्च प्रकाशान्तरनिरपेक्षं सातादिरूपतया स्वयं सिद्धिमवतरति तत् 'ज्ञानम्' 'संवेदनम्' 'चैतन्यम्' 'सुखम्' इत्यादिमिः पर्यायैरभिधीयते । न च सुखादीनामन्येन संवेदनेनानुभा(भ)वादनुभवरूपता प्रथते, तत्संवेदनस्याऽसातादिरूपताप्रसक्तः १० स्वयमतदात्मकत्वात् । तथाहि-योगिनः अनुमानवतो वा परकीयं सुखादिकं संवेदयतो न सातादिरूपता अन्यथा योग्यादयोऽपि साक्षात् सुखाद्यनुभाविन इवातुरादयः स्युः योग्यादिवद् वा अन्येषामप्यनुग्रहोपघातौ न स्याताम् अविशेषात् । संवेदनस्य च सातादिरूपत्वाभ्युपगमे संविदू. पत्वं सुखादेः सिद्धम् । इदमेव हि सुखं दुःखं च नः 'यत् सातमसातं च संवेदनम्' इति नानैका. न्तिकता हेतोः। नाप्यसिद्धता, सर्वेषां बाह्यार्थवादिनां संविद्रूपरहितत्व(त्वस्य) शब्दादिषु सिद्ध१५त्वात् । विज्ञानवादिमताभ्युपगमोऽन्यथा प्रसज्येत तथा चेष्टसिद्धिरेव । विरुद्धताऽप्यस्य हेतो सम्भवति सपक्षे भावात् । न च यथा बहिर्देशावस्थितनीलादिसन्निधानवशाद् अनीलादिस्वरूपमपि संवेदनं नीलनिर्भासं संवेद्यते तथा बाह्यसुखाद्युपधानसामर्थ्याद् असातादिरूपमपि त्सा(सा)ता. दिरूपं लक्ष्यते तेन संवेदनस्य सातादिरूपत्वेऽपि न सुखादीनां संविद्रूपत्वं सिद्ध्यति अतोऽनैका. न्तिकता हेतोरिति वक्तव्यम् , अभ्यास-प्रकृतिविशेषत एकस्मिन्नपि त्रिगुणात्मके वस्तुनि प्रीत्याद्या. २० कारप्रतिनियतगुणोपलब्धिदर्शनात् । तथाहि-भावनावशेन मद्याऽङ्गनादिषु कामुकादीनाम् जातिविशेषाच्च करभादीनां केषाश्चित् प्रतिनियताः प्रीत्यादयः सम्भवन्ति न सर्वेषाम्, एतच्च शब्दादीनां सुखादिरूपत्वान्न युक्तम्, सर्वेषामभिन्नवस्तुविषयत्वान्नीलादिविषयसंवित्तिवत् प्रत्येकं चित्रा संवित् प्रसज्येत । अथ यद्यपि त्रयात्मकं वस्तु तथाप्यदृष्टांदिलक्षणसहकारिवशात् किञ्चिदेव कस्यचिद् रूपमाभाति न सर्व सर्वस्य, असदेतत् तदाकारशून्यत्वादवस्त्वालम्बनप्रतीतिप्रसक्तेः। तथाहि२५ध्याकारं तद वस्तु एकाकाराश्च संविदः संवेद्यन्त इति कथं अनालम्बनास्ता न भवन्ति ? प्रयोगः यट यदाकारं संवेदनं न भवति न तत तद्विषयम, यथा चक्षानं न शब्दविषयम, च्यात्मकवस्त्वाकारशून्याश्च यथोक्ताः संविद इति व्यापकानुपलब्धिः तथापि तद्विषयत्वेऽतिप्रसङ्गापत्तिर्विपर्यये १-यसन्निधाने च प्रका-वा. बा. विना०। २-दनेनाभवा-वा. बा. विना। ३-त् यथा हि वा. बा०। ४ "शब्दादिषु संविद्रूपरहितत्वस्य सिद्धत्वात् । अन्यथा विज्ञानवादिमतमेवाऽजीकृतं स्यात्"-तत्त्वसं० पजि. पृ० ३५ पं० ११। ५-पि तत्साता-का० । “बाह्यसुखाद्युपधानवशाद् असातादिरूपमपि सातादिरूपमिव लक्ष्यते"तत्त्वसं० पञ्जि. पृ० ३५ पं० १५ । ६ "एकत्रैव च शब्दादी भावना-जातिभेदतः। सङ्गादयः संभविनो लक्ष्यन्ते नियताः स्फुटम्"॥ तत्त्वसं० का० ३७ पृ. ३५ । ७ "एतच्च शब्दादीनां सुखादिरूपत्वे सति न युक्तम् । कस्मात् ? इत्याह"-तत्त्वसं० पजि० पृ. ३५ पं० २५ । ८ “एकवस्त्वनुपातित्वे चित्रा संवित् प्रसज्यते । अदृष्टादिवशान्नो चेन्न स्याद् वस्त्वनुयायिनी" ॥ __ तत्त्वसं० का० ३८ पृ. ३५। ९ "आदिशब्देन भावना-जाति-भेद-जिघृक्षादीनां ग्रहणम्"-तत्त्वसं० पजि. पृ०३६ पं० ४। १० "न्याकारं वस्तुनो रूपमेकाकाराश्च तद्विदः। ताः कथं तत्र युज्यन्ते भाविन्यस्तद्विलक्षणाः" ॥ तत्त्वसं० का० ३९ पृ. ३६। ११-पर्यये वा बा-वा० बा० विना।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy