SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ २९६ प्रथमे काण्डे इति न तत्पक्षोऽभ्युपगमार्हः । यच्च 'भेदाः सत्तातो यदि भिन्नाः खरविषाणवदसन्तः प्रसकाः अभिन्नाश्चेत् सत्तामात्रकमेव न विशेषा नाम । तथाहि-यद् यतोऽव्यतिरिक्तम् तत् तदेव, यथा सत्तास्वरूपम्, अव्यतिरिक्ताश्च ते सत्तातः, तथासति सत्तामात्रकमेव' इत्यभ्यधायि, तद् मेदवादिनोऽपि समानम् ; यतस्तेनाप्येतत् शक्यं वक्तुम् -यदि विशेषेभ्यो व्यतिरिक्ता सत्ता खरविषाण. ५वदसती प्राप्ता, अव्यतिरिक्ता चेत् विशेषा एवन सा इति न्यायस्य समानत्वात् । तदेवमभेदे प्रमाणाभावात्-भेदस्य वा (चा)ऽबाधितप्रमाणविषयत्वात्-न तदभ्युपगमो ज्यायानिति शुद्धद्रव्यास्तिकमतप्रतिक्षेपिपर्यायास्तिकाभिप्रायः।। [२ सांख्यमतप्रतिक्षेपकः पर्यायास्तिकनयः ] अशुद्धद्रव्यास्तिकसाङ्ख्यमतप्रतिक्षेपकस्तु पर्यायास्तिकः प्राहे-यदुक्तं कापिलैः 'प्रधानादेव १० महदादिकार्यविशेषाः प्रवर्तन्ते' इति, तत्र यदि महदादयः कार्यविशेषाः प्रधानस्वभावा एव कथमेषां कार्यतया ततः प्रवृत्तिर्युक्ता? न हि यद् यतोऽव्यतिरिक्तं तत् तस्य कार्यम् कारणं वेति व्यपदेष्टुं युक्तम्, कार्य-कारणयोर्भिन्नलक्षणत्वात् अन्यथा हि 'इदं कारणम् कार्य च' इत्यसङ्कीर्णव्यवस्थासीदेत् । ततश्च यदुक्तं प्रकृतिकारणिकैः-“मूलप्रकृतेः कारणत्वमेव, भूतेन्द्रियलक्षणस्य षोडशकगणस्य कार्यत्वमेव, महदहंकारतन्मात्राणां च पूर्वोत्तरापेक्षया कार्यत्व-कारणत्वे चे" [ १५ इति तत् सङ्गतं न स्यात् । आह चेश्वरकृष्णः ___"मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृति-विकृतयः सप्त। षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥” [साङ्ख्यका० ३] इति । यतः सर्वेषां परस्परमव्यतिरेकात् कार्यत्वम् कारणत्वं वा प्रसज्येत, अन्यापेक्षित्वाद् वा कार्य कारणभावस्य अपेक्षणीयस्य रूपान्तरस्य चाभावात् पुरुषवन्न प्रकृतित्वम् विकृतित्वं वा सर्वेषां वा २० स्यात् अन्यथा पुरुषस्यापि प्रकृतिविकारव्यपदेशप्रसक्तिः। उक्तं च "यदेव दधि तत् क्षीरं यत् क्षीरं तद् दधीति च। वदता विन्ध्यवासित्वं ख्यापितं विन्ध्यवासिना॥" [ ] इति। 'हेतुमत्त्वादिति(मत्त्वादि)धर्माऽऽसङ्गिविपरीतमव्यक्तम्' इत्येतदपि बालप्रलापमनुकरोति,न हि यद् यतोऽव्यतिरिक्तस्वभावं तत् ततो विपरीतं युक्तम् वैपरीत्यस्य रूपान्तरलक्षणत्वात् अन्यथा २५ मेदव्यवहारोच्छेदप्रसङ्ग इति सत्त्व-रजस्-तमसाम् चैतन्यानां च परस्परभेदाभ्युपगमो निर्निमित्तो भवेत् ततश्च विश्वस्यैकरूपत्वात् सहोत्पत्तिविनाशप्रसङ्गः अभेद्व्यवस्थितेरभिन्नयोगक्षेमलक्षणत्वादिति । व्यक्तरूपाऽव्यतिरेकाद् अव्यक्तमपि हेतुमदादिधर्माऽऽसङ्गि प्रसक्तम् व्यक्तस्वरूपवत् , अहे. तुमत्त्वादिधर्मकलापाध्यासितं वा व्यक्तम् अव्यक्तरूपाव्यतिरेकात् तत्स्वरूपवत् अन्यथातिप्रसक्तिः। अपि च, अन्वयव्यतिरेकनिबन्धनः कार्यकारणभावः प्रसिद्धः, न च प्रधानादिभ्यो महदाधु३० त्पत्त्यवगमनिबन्धनः अन्वयः व्यतिरेको वा प्रतीतिगोचरः सिद्धः, यतः 'प्रधानाद् महान् महतोऽ. हङ्कारः' इत्यादिप्रक्रिया सिद्धिसौधशिखरमध्यास्त । तस्मानि(निर्निबन्धन एवायं प्रधानादिभ्यो महदाद्युत्पत्तिप्रक्रमः । न च नित्यस्य हेतुभावः सङ्गतः यतः प्रधानाद् महदादीनामुत्पत्तिः स्यात् नित्यस्य क्रम-योगपद्याभ्यामर्थक्रियाविरोधादिति प्रतिपादयिष्यमाणत्वात्। अथ नास्माभिरपूर्वस्वभावोत्पत्या कार्यकारणभावोऽभ्यपगतः यतो रूपाभेदादसौ विरुक्यते ३५ किन्तु प्रधानं महदादिरूपेण परिणतिमुपगच्छति सर्पः कुण्डलादिरूपेणेवेति 'प्रधानं महदादिकार १ यच्चामेदाः भां० मा० । २ इदं सांख्यप्रक्रियाप्रति विधानं तत्त्वसंग्रहगतं का० १६-४५, पृ० २२-४०। ३ पृ० २८० पं० २४ । ४ तदत्र सुधियः प्राहुस्तुल्या सत्त्वेऽपि चोदना । यत् तस्यामुत्तरं वः स्यात् तत् तुल्यं सुधियामपि ॥ तत्त्वसं. का. १६ पृ. २२ । ५ माठरपृ० पृ. ९५० १८। ६-रव्य-वा. बा०। ७ “पुरुषवन्न प्रकृतित्वं नापि विकृतित्वं स्यात्"-तत्त्वसं. पजि. पृ. २२५० २६। ८ "वदता रुद्रिलेनैव ख्यापिता विन्ध्यवासिता"-तत्त्वसं. पजि. पृ. २२ पं० २८। ९ “यच्चेदम् 'हेतुमत्त्वादिधर्मयोगि व्यक्तम् विपरीतमव्यक्तम्'"-तत्त्वसं० पजि. पृ. २३ पं०१। १० पृ० २८१ पं. २३। ११ "हेतुमत्त्वादिधर्मयोगि"-तत्त्वसं० पजि. पृ. २३ पं०७। १२ पृ. २८१ पं०१। १३-निवन्धन- वा. बा०। १४-पारूपामे-वा. बा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy