SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ २९२ प्रथमे काण्डे - तिः । अथापि स्यात् न क्षणिकं दर्शनम् - येन तद्भेदात् तद्ग्राह्यस्यापि भेदः - किन्तु तदपि कालान्तरस्थितिमत् कालान्तरानुषक्तमर्थमवगमयति, असदेतत् यतः स्थिरं दर्शनमनेककालतां युगपदवभासयति, आहोखित् क्रमेणेति ? तत्र न तावद् युगपदवभासयति । तथाहि - यदा दर्शनं घटिकाद्वयारम्भपरिगतमर्थमनुभवति न तदैव तदवभासन सम्बन्धिनम्, तदनुर्भवे च तस्य वर्तमानतापत्तेर्न कालान्तरता । ५ यदि च प्रथमदर्शनमेव भाविरूपतामवगच्छति तथासति ग्रहणविरतौ किमिति न जानाति 'पदार्थस्तिष्ठति' इति ? न च तदा ग्रहणमुपरतमिति नावगच्छति, यतः तदर्थग्रहणमुदितमिति कथमसत् ? अथ पूर्वमुदितं तद् अधुना प्रच्युतमिति न गृह्णाति ननु तदा ग्रहणाभावे कथं तत्कालत्वं परिगृहीतं भवति ? अथ यदा दर्शनं विरमति न तदा तद्रूपं प्रतिभाति किन्तु यदा तदुदितं विद्यते तदा भावि रूपपरिच्छेदः, तदप्यसत्; यतस्तथापि तत्कालतैव तेन परिगृह्यते न भाविरूपम् असन्निहितत्वात्; १० सन्निधाने वा भाविरूपतानुपपत्तेः । यदि हि तद् दर्शनकाले प्रतिभासमानमस्ति स्वरूपेण तथासति वर्तमानतैवेति तदपि प्रत्युत्पन्नम् न भाविरूपम् भावित्वे वा तदाऽसन्निधेः कथमसत् प्रतिभाति ? यदि वसन्निहितमपि तद् भाति तथासति सकलभाविभावरूपपरम्परा प्रतिभासताम् इति धर्मादेरपि सर्वस्य भविष्य द्रूपस्य प्रतिपत्तिरस्तु । न च प्रतिभासमानाऽव्यतिरिक्तं भाविरूपमाभाति धर्मादिकं तु तद्व्यतिरिक्तमिति न तग्रहः, यतोऽत्रापि यदि भाविरूपं वर्तमानतया प्रतिभाति तथा१५ सति वर्तमानमेव तद् इति कथं कालान्तरस्थायिता ? अथ वर्तमानं भाविरूपतया गृह्यते; नन्वेवं भाविरूपमेव तद् भवति न च वर्तमानं किञ्चिन्नाम, तथा चाऽवर्तमानमपि भाविरूपं वर्तमानतया प्रत्यक्षे प्रतिभातीति सर्वं दर्शनं विपरीतख्यातिर्भवेत्, ततो विशदतया यत् प्रतिभासते वस्तु सर्वे तद् वर्तमानमेवेति कथं स्थायितालक्षणः पौर्वापर्याभेदः ? अथ क्रमेण कालान्तरस्थायि दर्शनं स्थायितां प्रत्येष्यति; नन्वेवमपि वर्तमानताप्रकाशकाले २० कालान्तर स्थितिर्न प्रतिभाति, तदवभासकाले तु न पूर्वकालताप्रतिपत्तिरिति परस्परा संस्पर्शिनी दर्शन मवतरन्ती क्षणपरम्परैव स्यात् । यदि पूर्वरूपता सम्प्रति दर्शने प्रतिभाति तथासति प्रथममागतस्तावगच्छत् (स्तामवगच्छेत् ) । न च तत्र पूर्वदर्शनं नोदितमिति सामग्रयभावान्न तद्रहणम्, यतः पूर्वदर्शनासन्निधिस्तदा निरन्तरदर्शनेऽपि समान इति कथमभेदग्रहणं प्रति सहकारी ? अथ निरन्तरदर्शिनः 'तदेवं ( व ) दर्शनम्' इत्यभेदप्रतिपत्तिर्भविष्यतिः ननु यदि नाम तदेव दर्शनम् २५ तथापि तत् प्रतिभातं पूर्वम् अधुना न प्रतिभाति । तथाहि दृश्यमानाद् रूपात् ताद्रूप्यं भिन्नमाभाति, अभिन्नं वा इति कल्पनाद्वयम् । यदि भिन्नम् तदा न तद्रूपाऽभेदः । अथाभिन्नं भाति, तदापि दृश्यमानतया वा पूर्वरूपम्, पूर्वरूपतया वा दृश्यमानं भातीति वक्तव्यम् । तत्र यदि पूर्वरूपता (त)या दृश्यमानं प्रतिभाति तथासति पूर्वरूपानुभव एव न वर्तमानरूपाधिगतिरिति सर्वाऽध्यक्ष मतिः स्मृतिरूपतामासादयेत् । अथ दृश्यमानतया पूर्वरूपाधिगतिः तत्रापि स्फुटमनुभूयमानमेव रूपम् न ३० पूर्वरूपता, न हि सा तिरोहिताऽप्रतिभासमानमूर्तिरस्तीति शक्यं वक्तुम्, यदेव हि तत्र दृशि प्रतिभाति वर्तमानं रूपं तदेव सद् युक्तम् । न च पूर्वरूपताऽपि तत्र भात्येवेति वक्तव्यम् यतः सा किं तस्यामेव दृशि प्रतिबद्धा प्रतिभाति, यद्वा पूर्वस्याम्, अथ स्मृतौ इति कल्पनात्रयम् । तत्राद्यकल्पनायां पूर्वरूपतामसन्निहितामधिगच्छन्ती अनृता भवेत् । अथ पूर्वकालता सन्निहितैवः नन्वेवंसति सापि सन्निहिता तत्र प्रकाशमाना ३५ वर्तमानैव भवेत् नातीतौ ( ता ), तथा च न पूर्वापररूपभेदं ( दः) यदि तत् स्मरणाध्यक्षं रूपं दर्शनं वर्तमान रूपता (तां ) पूर्वरूपतां च पदार्थस्य प्रत्येति तथासति सन्निहिता सन्निहितस्वरूपग्रा हि संविद्वयं परस्परभिन्नं भवेत् । तथाहि - वर्तमानतासाक्षात्कारि संवित्स्वरूपं न पूर्वरूपग्राहि स्वरूपतया भाति, नापि पूर्वरूपतावेदकं साम्प्रतिकरूपसाक्षात्कारिरूपतया चकास्ति कथं न भेदः संवेदनस्य १- राननुषक्त - आ० वि० ।- रानयुक्त - हा० । २- भासान वा० वा० । ३- भवे त-भां० मां० विना० । ४- कं तद्वय भ० मां० वा० वा० विना । ५- सर्वद - भ० मां० । ६- प्रत्येति भ० मां० । ७- गमस्तमेवगच्छेत् - वा० बा० विना । ८ अथानि वा० बा० । ९ तदैदं द-वा० वा० । १० रूपात् ताद्रूपं भि-आ० बा० विना । १२ - क्षमिति१५ दर्शनव- वा० बा० आ० हा०वि० । रूपाद्रूपं भि- वि० । रूपताद्रूपं भि वा० बा० । 1 ११ तायां दृ-वा० स्मृ वा० बा० विना । १३ पूर्वता वा० बा० । १४ भवेन्नानीतैव कां० । विना । १६ - पता पूर्वरूपता च पदा आ ।पतामर्षरूपतां च पदा-भां०पतां च पदा वा० वा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy