SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। २८७ प्रतिसन्धानविधायिनी पुरुपस्तु कर्तृतया स्मृतिसमवायी तेन चक्षुपा परिगतेऽर्थे तद्दर्शि तपूर्वमेदात्मसात्कृतसद्रूपत्वं संधास्यति, तदप्यसत्; यतः सोऽपि न स्वतन्त्रतयकत्वं प्रतिपत्तुं समर्थः किन्तु दर्शनसव्यपेक्षा दर्शन' च न प्रत्यक्षं पूर्वापरकालभाव्यपरापरदेशव्यवस्थितघट-पटादिभेदकोडीकृतसन्मात्राभेदग्रहणमिति न तदुपायतः आत्माप्यभेदप्रतिपत्तिसमर्थः । यदि पुनः दर्शननिरपेक्ष एवात्मा अभेदग्राहकः स्यात् तदा स्वाप-मद-मूछाद्यवस्थायामपि तस्य सद्भावाभ्युपगमा- ५ दभेदप्रतिपत्तिर्भवेत् , न च स्मरणसव्यपेक्षोऽसौ तद्ग्राहकः स्मरणस्य वहिरथै प्रामाण्यानुपपत्तेः। गृहीतार्थाध्यवसायि हि स्मरणम्, न चाभेदः पूर्वापराध्यक्षाधिगत इति न स्मरणस्यापि तत्र प्रवृत्तियुक्तिमती । न च प्रत्यभिज्ञानसव्यपेक्षोऽसौ तत्र प्रवर्तत इति कल्पना सङ्गता, प्रत्यभिज्ञाज्ञानस्य देशभिन्नघट-पटादिपरिष्वक्तसद्रूपाभेदावगमहेतुत्वेन निषिद्धत्वात् । न चात्मनोऽपि व्यापित्वं सिद्धम् , तस्य पूर्व निषिद्धत्वात् । तन्न देर्शाभेदादभेदः सन्मात्रस्य कुतश्चित् प्रमाणावगन्तुं शक्यः। १० ___ नापि पूर्वापरकालसम्बन्धित्वं सन्मात्रस्याभेदः प्रत्यक्षविषयः । तथाहि-प्रत्यक्षं पूर्वापरविविक्तवर्तमानमात्रपरिच्छेदस्वभावं न कालान्तरपरिगतिमुद्द्योतयितुं प्रभुरि(भु इ)ति न तदवसेयोऽभेदः । अध्यक्षमात्रपरिगतमेव वस्तुरूपं गृह्यत इति तदेवास्तु । तथाहि-उपलम्भः सत्तोच्यते उपलब्धिश्च सर्वाक्षान्वया वर्तमानमेव रूपमुद्भासयति अक्षस्य वर्तमान एव व्यापारोपलम्भात् तदनुसारिणी" चाध्यक्षप्रतीतिरक्षगोचरमेव पदार्थस्वरूपमुद्भासयितुं प्रभुरिति दर्शन विषयो वर्तमानमात्रं सदिति १५ स्थितम् । अथापि स्यात् यद्यप्यक्षानुसारिणि दर्शनोद्भदे साम्प्रतिकरूपप्रतिभासस्तथापि कथमध्यक्षावसेयः पूर्वापरक्षणभेदः? मध्यमक्षणस्य परमाणोरण्वन्तरात्ययकालतुलितमूर्तिः क्षणभेदः स चाध्यक्षस्य मध्यक्षणदर्शित्वेऽपि न तद्गम्यः सिद्ध्यति, न सदेतत्; यतो यस्य न पूर्वत्वम् नाप्यपरकालसम्बन्धः समस्ति स पराकृतपूर्वापरविभागः क्षणभेदव्यवहारमासादयति, न हि पूर्वापरकालस्थायितयाऽगृह्यमाणो भावोऽमेदव्यपदेशभाग भवति । कालान्तरव्यापितामनुभवन्तो हि भावा 'नित्याः' 'अमेदिनो२० वा' इति व्यपदेशभाक्त्वमासादयन्ति । न च तत्राध्यक्षप्रत्ययः प्रवर्तते, भावि-भूतकालतायामनुमानस्मृत्योरेव व्यापारदर्शनात् । तथाहि-'इदं पूर्व दृष्टम्' इति स्मरन्नध्यवस्यति जनस्तथास्थिरावस्थादर्शनात् , भाविकालस्थितिमधिगच्छत्यनुमानात् दर्शनपथमवतरतोऽर्थस्येति न परिस्फुटसंवेदनपरिच्छेद्यः कालभेदः। न हि भूतावस्था भाविकालता वा स्फुटदृशां विषय इति कथमध्यक्षगम्योऽभेदः? ननु क्षणभेदोऽपि न संविदोल्लिख्यत इति कथं तद्ग्राह्यः ? असदेतत् ; यतोऽभेदविपर्यासः क्षणभेद २५ उच्यते, कालान्तरस्थितिविपर्यासेच मध्यक्षण सत्वमेव गृह्णता प्रत्यक्षेण कथं न क्षणभेदोऽधिगतः? अथ यदि नामाध्यक्षधीरभेदं नाधिगच्छति तदुत्थापितमनुमानं तु प्रत्याययिष्यति । तथाहि-स्थिरावस्थामर्थानामुपलभ्य वर्षादिस्थितिमधिगच्छन्ति व्यवहारिणः 'यतो यदि ध्वंसहेतुरस्य न सन्निहितो भवेत् तदा वर्षादिकमेष स्थास्यति' इति अतो यस्य सहेतुको विनाशस्तस्य तद्धेतुसन्निधानमन्तरेण स्थितिसद्भाव इति कालाभेदः यस्य तु मन्दरादे शहेतुर्न विद्यते स सर्वदा स्थितिमनुभवती.३० त्युभयथाप्यभेदोऽनुमानावसेयः, असदेतत् । यतो यत्राध्यक्षं न प्रवृत्तम् नापि प्रवर्तते नापि प्रवर्तिप्यते" अभेदे न तत्रानुमितिः प्रवर्तते । न च कालान्तरस्थायी भावोऽक्षजप्रत्यग्रेनावगतः यदि पुनर्वर्तमानकालतावभास्यक्षजप्रत्ययः कालान्तरस्थितिमवभासयति तदा स्पष्टगवगत एवा किमनुमानेन ? अथ कालान्तरभाविनाऽध्यक्षेण कालान्तरस्थितिरधिगम्यते, तदप्ययुक्तम् । यत उत्तरकालभाव्यपि दर्शनं तत्कालमेवार्थमधिगन्तुं प्रभुन (भु न) पूर्वसत्तावगाहीति कथं तदप्यभेदाव-३५ १-नं न च प्र-भां० माविना। २-हणप्रवणमिति भा. मां०। ३ पृ. २८६ पं० २५। ४ पृ. १३४ पं. ३२। ५ तत्र दे-वा. वा. विना । ६-भेदाः सन्मात्रस्य-भां० मां० विना। ७ शक्या: भां० मां० विना । -न परि-आ. हा० वि०। ९-गतमु-भा. मां० । १० वस्तुस्वरू-भां. मां । ११-थाप्युप-आ० हा० वि०।-थाभ्युप-वा० या०। १२-णी वाध्य-वि. विना। १३-मात्रमिति स्थिभा. मां० विना। १४-णस्याप-भां० मां०। १५ क्षणाभेदः स चाध्य-या० बा । क्षणभेदा वाध्य-आ। क्षणभेदात् स चाध्य-हा. वि.। १६-या गृ-वा० बा०। १७ भावो भेदव्यपदेशभाग न भ-आ० । १८ पूर्वदृ-भा. मां०। १९ तु भेदमर्थानां प्र-भां० मां०। २०-ते अभेदेन न तत्रा-भां० मां०।-ते भेदेन न तत्रा-आ० हा०वि०। २१-भावय-भां० मां० विना।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy