SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ २८४ प्रथमे काण्डे"भेदानां परिमाणात् समन्वयात् शक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद् वैश्वरूप्यस्य" ॥ [ साङ्ख्यका० १५ ] "कारणमस्त्यव्यक्तम्” [ साहयका० १६] इति पञ्चभ्यो वीतप्रयोगेभ्यः। ५ तथाहि-अस्ति प्रधानम्, भेदानां परिमाणात् , ईंह लोके यस्य सत्ता भवति तस्य परिमाणं दृष्टम् , यथा कुलालः परिमितात् मृत्पिण्डात् परिमितं घटमुत्पादयति प्रस्थग्राहिणम् आढकग्राहिणं वा, इदं च महदादि व्यक्तं परिमितमुपलभ्यते-एका बुद्धिः एकोऽहङ्कारः पञ्च तन्मात्राणि एकाद. शेन्द्रियाणि पञ्च भूतानि-ततोऽनुमानेन साधयामः-अस्ति प्रधानम् यत् परिमितं व्यक्तमुत्पादः यति यदि च प्रधानं न स्यात् निष्परिमाणमिदं व्यक्तं स्यात् । १० इंतश्चास्ति प्रधानम् , भेदानामन्वयदर्शनात्, यजातिसमन्वितं हि यदुपलभ्यते तत् तन्मय कारणसम्भूतम् , यथा घट-शरावादयो भेदा मृजात्यन्विता मृदात्मककारणसम्भूताः, सुख-दुःख-मो. हादिजातिसमन्वितं चेदं व्यक्तमुपलभ्यते प्रसाद-ताप-दैन्यादिकार्योंपलब्धेः। तथाहि-प्रसाद-लाध. वाऽभिप्वणोद्धर्ष-प्रीतयः सत्त्वस्य कार्यम् सुखमिति च सत्त्वमेवोच्यते । ताप-शोष-भेद-स्तम्भो द्वेगा रजसः कार्यम् रजश्च दुःखम् । दैन्याऽऽवरण-सादन-वध्वंस-बीभत्स-गौरवाणि तमसः कार्यम् १५तमश्च मोहशब्देनोच्यते । एषां च महदादीनां सर्वेषां प्रसाद-ताप-दैन्यादि कार्यमुपलभ्यते इति सुख-दुःख-मोहानां त्रयाणामेते सन्निवेशविशेषा इत्यवसीयते; तेन सिद्धमेतेषां प्रसादादिकार्यतः सुखाद्यन्वितत्वम् ; तदन्वयाच्च तन्मयप्रकृतिसम्भूतत्वं सिद्धिमासादयति; तत्सिद्धौ च सामर्थ्याद् याऽसौ प्रकृतिः तत् प्रधानमिति सिद्धम्-अस्ति प्रधानम् भेदानामन्वयदर्शनात् । इतश्चास्ति प्रधानम्, शैक्तितः प्रवृत्तेः । इह लोके यो यस्मिन्नर्थे प्रवर्त्तते स तत्र शक्तः यथा २० तन्तुवायः पटकरणे अतः प्रधानस्यास्ति शक्तिर्यया व्यक्तमुत्पादयति; सा च शक्तिर्निराश्रया न सम्भवति तस्मादस्ति प्रधानं यत्र शक्तिर्वर्तते इति । ईतश्चास्ति प्रधानम् कारणकार्यविभागात् । इह लोके कार्य-कारणयोर्विभागो दृष्टः, तद्यथामृत्पिण्डः कारणम् घटः कार्यम् स च मृत्पिण्डाद् विभक्तंखभावः। तथाहि-घटो मधू-दक-पयसां धारणसमर्थः न मृत्पिण्डः एवमिदं महदादिकार्य दृष्ट्वा साधयामः-अस्ति प्रधानं कारणम् २५ यस्मादिदं महदादिकार्यमिति। इतश्चास्ति प्रधानम् वि(वै)श्वरूप्यस्याविभागात् । 'वैश्वरूप्यम्' इति त्रयो लोका उच्यन्ते, एते हि प्रलयकाले क्वचिदविभागं गच्छन्ति । तथाहि-पञ्च भूतानि पञ्चसु तन्मात्रेषु अविभागं गच्छन्ति, तन्मात्राणि इन्द्रियाणि चाहङ्कारे, अहङ्कारस्तु वुद्धौ, बुद्धिः प्रधाने तदेवं प्रलयकाले त्रयो लोका अविभागं गच्छन्ति । अविभागोऽविवेकः यथा-क्षीरावस्थायाम् 'अन्यत् क्षीरम्' 'अन्यद् दधि' इति ३०विवेको न शक्योऽमिधातुम् तद्वत् प्रलयकाले 'इदं व्यक्तम्' 'इदमव्यक्तम्' इति विवेकोऽशक्यक्रिय इति मन्यामहे-अस्ति प्रधानम् यत्र महदादिलिङ्गमविभागं गच्छतीति । सत्त्व-रजस्तमोलक्षणं सामान्यमेकमचेतनं द्रव्यम् अनेकं च चेतनं द्रव्यमर्थोऽस्तीति द्रव्यार्थिकः-अशुद्धो व्यवहारनयाभिप्रेतार्थाभ्युपगमस्वरूपः-बोद्धव्यः । वक्ष्यति चाचार्यः १ कार्यकारणवि-भां० मा० । २ "तत्र प्रथमम्-अनुमानम्--तावद् द्विविधम्-वीतम् अवीतं च । अन्वयमुखेन प्रवर्तमान विधायकं वीतम् । व्यतिरेकमुखेन प्रवर्तमानं निषेधकम् अवीतम्xxवीतं द्वेधा-पूर्ववत् सामान्यतोदृष्टं च"-साङ्ख्य. कौ० पृ. ३० ५० ५ तथा पृ०३१ पं०४ । ३ माठरवृ० पृ. २५ पं० २४ । ४ "लोके यत्र कर्ताऽस्ति तस्य परिमाण दृष्टम्"-माउरवृ० पृ० २५ पं० २५ । "इह लोके यस्य कर्ता भवति तस्य परिमाणं दृष्टम्"-तत्त्वसं० पजि. पृ. २१ पं०२। ५ माठरवृ. पृ. २६ पं०७। ६-“साधना-ध्वंस"-तत्त्वसं० पजि. पृ. २१५० १२। ७ माठरवृ. पृ. २६ पं० १२। ८ माउरवृ० पृ. २६ पं० १६ । ९-तस्तथा-आ. हा. वि.। १० माठरवृ. पृ. २६ पं० २२ । ११ “विश्वरूपस्य भावो वैश्वरूप्यम्-बहुरूपमित्यर्थः"-माठरवृ. पृ. २६ पं० २३ । तत्त्वसं. पजि. पृ. २१ पं० २३। १२ "प्रकर्षेण धीयते स्थाप्यते अत्र अखिलम् इति प्रधानम्"-माठरवृ० पृ. २७ पं०६। १३ माठरवृ० पृ. २७ पं० १६। १४-नं अनेकंच भां०मा०। १५ पृ. २७१ पं० १५ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy