SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। २८१ "प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद् गणश्च षोडशकः । तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि" ॥ [ सासयका० २२] अत्र च 'महान्' इति बुद्ध्यभिधानम्, बुद्धिश्च ‘घटः' 'पटः' इत्यध्यवसायलक्षणा । अहङ्कारस्तु 'अहं सुभगः' 'अहं दर्शनीयः' इत्याद्यभिधानस्वरूपः। मनस्तु सङ्कल्पलक्षणम्-तद्यथा-कश्चिद् बटुः शृणोति-'ग्रामान्तरे भोजनमस्ति' इति, तत्र तस्य सङ्कल्पः स्यात्-'यास्यामि' इति, 'किं तत्र ५ दधि स्यात्, उतखिद् दुग्धम्' इत्येवं सङ्कल्पवृत्ति मन इति । तदेवं वुझ्यहङ्कार-मनसां परस्परं विशेषोऽवगन्तव्यः। महदादयः प्रधान-पुरुषौ चेति पञ्चविंशतिरेषां तत्त्वानि । यथोक्तम् “पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः।। शिखी मुण्डी जटी वाऽपि मुच्यते नात्र संशयः” ॥ [ ] इति । महदादयश्च कार्यभेदाः प्रधानात् प्रवर्तमाना न कारणादत्यन्तभेदिनो भवन्ति वौद्धाद्यभिमता १० इव कार्यभेदाः; किन्तु प्रधानरूपात्मान एव त्रैगुण्यादिना प्रकृत्यात्मकत्वात् । तथाहि-यदात्मकं कारणम् कार्यमपि तदात्मकमेव, येथा कृष्णस्तन्तुभिरारब्धः पटः कृष्णः, शुक्लैः शुक्ल उपलभ्यते एवं प्रधानमपि त्रिगुणात्मकम् । तथा, बुद्ध्यहङ्कारतन्मात्रेन्द्रियभूतात्मकं व्यक्तमपि त्रिगुणात्मकमुपलभ्यते तस्मात् तद्रूपम् । किञ्च, अविवेके(कि)। तथाहि-'इमे सत्त्वादयः' 'इदं च महदादिकं व्यक्तम्' इति पृथक् न शक्यते कर्तुम् ; किन्तु ये गुणास्तद् व्यक्तम् यद् व्यक्तं ते गुणा इति। तथा, उभयमपि १५ विषयः भोग्यस्वभावत्वात् । सामान्यं च सर्वपुरुषाणां भोग्यत्वात् पण्यस्त्रीवत् । अचेतनात्मकं च सुख-दुःख-मोहोऽवेदकत्वात् । प्रसवधर्मि च । तथाहि-प्रधानं बुद्धिं जनयति; साऽप्यहङ्कारम्। सोऽपि तन्मात्राणि-इन्द्रियाणि चैकादश-तन्मात्राणि महाभूतानि जनयन्तीति । तस्मात् त्रैगुण्यादिरूपेण तद्रूपा एव कार्यभेदाः प्रवर्तन्ते । यथोक्तम् "त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि । व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान्” ॥ [ साङ्ख्यका० ११] इति । अथ यदि तपा एव कार्यभेदाः कथं शास्त्रे व्यक्ताऽव्यक्तयो(लक्षण्योपवर्णनम "हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम्। सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम्"॥ [साङ्ख्यका०१०] इति क्रियमाणं शोभेत ? {अत्र ह्ययमर्थः-"हेतुमत् कारणवद् व्यक्तमेव । तथाहि-प्रधानेन २५ २० १ "प्रकृतिः प्रधानमधिकुरुते। ब्रह्म अव्यक्तम् बहुधात्मकम् माया इति पर्यायाः"-माठर० पृ. ३६ पं० १०॥ २ "महान् बुद्धिः मतिः प्रज्ञा संवित्तिः ख्यातिः चितिः स्मृतिः आसुरी हरिः हरः हिरण्यगर्भ इति पर्यायाः"-माठर० पृ. ३६ पं०१२। ३ “अध्यवसायो वुद्धिः"-साङ्ख्यका० २३ । ४ "तस्माद् महतः अहङ्कार उत्पद्यते, तस्य इमे पर्यायाः-वैकृतः तेजसः भूतादिः अभिमानः अस्मिता इति । चतुष्पष्टिवणः परादिवैखरीपर्यन्ताभिधेयैर्यत् किमपि अभिधीयते बुद्धया समर्थ्य तत् सकलम् आद्यन्ताऽकार-हकारवर्णद्वयग्रहणेन उपरिस्थितपिण्डीकृतानुकारिणा बिन्दुना भूषितः प्रत्याहारन्यायेन अ-हंकार इत्यभिधीयते"-माठर० पृ. ३६ पं० १३-१७। ५ अभिमानोऽहकारः"-साङ्ख्यका० २४ तथा माठर० पृ० ४१ पं० १५। ६ “मनः संकल्पकम्"-साङ्ख्यका० २७ । ७ “किं तत्र गुडदधि स्यात् , उतविद् दधि इति"-तत्त्वसं० पजि० पृ० १६ पं० २८ । ८ "जटी मुण्डी शिखी"-माठरवृ० पृ० ३८ पं० ३, शास्त्रवा० स० स्त०३ श्लो० ३७ पृ० ११३ प्र. पं०८, तत्त्वसं० पजि० पृ० १७ पं० ४, “तथा चोक्तं पञ्चशिखेन प्रमाणवाक्यम्" इति निर्दिश्य श्लोकोऽयं समुद्धतः-साङ्ख्यस० तत्त्वयाथा० पृ. ६१५० ४ तत्र अस्येत्थं पाठः-“यत्र कुत्राश्रमे रतः । जटी मुण्डी शिखी वाऽपि"-न्यायाव० टिप्प० पृ० १४ पं० १७। ९ “यथा कृष्णतन्तुः कारणम् पटः कार्यमपि कृष्णमेव भवति"-माठरवृ० पृ० १९ पं० २४ । १० "शुक्लैस्तु शुक्लः"-तत्त्वसं० पजि. पृ० १७ पं. ९। ११ "किञ्च, अन्यत्-अविवेकि व्यक्तम् ।' 'अमी गुणाः इदं व्यक्तम्' इति विवेक्तुं न पार्यते"-माठरवृ० पृ०२० पं० २। "किञ्च, अविवेकि"-तत्त्वसं० पजि. पृ० १७ पं० ११। १२ "किञ्च, द्वयमपि व्यक्तमव्यक्तं च विषयः"-तत्त्वसं० पञ्जि. पृ० १७ पं० १३। १३ “गणिकावत्"-माठरवृ० पृ. २० पं० ७॥ "मल्लदासीवत्"-तत्त्वसं० पञ्जि. पृ० १७ पं०१४ । १४ "सुख-दुःख-मोहान् न चेतयति"-माठरवृ० पृ० २० पं० ८। १५-हावे-आ० हा० वि०। १६ “ननु यदि तद्रूपा एव कार्यभेदाः तत् कथं शास्त्रे"-तत्त्वसं० पजि० पृ० १७ पं० १९। १७ -"क्षण्यमुपवर्णितम् । तथाहि-ईश्वरकृष्णोक्तम्-तत्त्वसं० पजि. पृ० १७ पं० २०। १८ पृ. २८२ पं०६। “सक्रियम्"-माठरवृ.पृ. १९५०२। तत्त्वसं० पजि. पृ० १७ पं० २०। १९ अत्रयो भावो माठरवृत्तावपि तथैव व्यावर्णितो दृश्यते । स० त०३६
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy