SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। २७९ सोऽखिलभेदप्रतियोगी सुव्यक्तमेव वेदे दर्शितः-“स एष नेति नै" [बृहदा० उ० अ० ३, ब्रा०९, मं०२६] इत्यादिना सप्रतियोगित्वाद् भेदप्रपञ्चं निवर्तयताऽऽत्मनापि प्रलीयते, यतः श्रोतव्यादीनामभावे न श्रवणादीनामुपपत्तिः, स तु तथाभूतोऽभ्यस्यमानः स्वविषयं प्रविलापयन्नात्मोपघाताय कल्पते तदभ्यासस्य परिशुद्धात्मप्रकाशफलत्वात् यथा रजःसम्पर्ककलुषे उदके द्रव्यविशेषचूर्णरजः । प्रक्षिप्तं रजोऽन्तराणि संहरत् स्वयमपि संहियमाणं स्वस्थां स्वरूपावस्थामुपनयति एवं श्रवणादिभिः ५ #दतिरस्कारविशेषात् स्वगतेऽपि भेदे समुच्छिन्ने स्वरूपे संसार्यवतिष्ठते यतोऽविद्ययैव परमात्मनः संसार्यात्मा भिद्यते तन्निवृत्तौ कथं न परमात्मस्वरूपता यथा घटादिभेदे व्योम्नः परमाकाशतैव भवत्यवच्छेदकव्यावृत्तौ ? तत्रैतत् स्यात्-श्रवणादिर्भेदविषयत्वादविद्यास्वभावः कथं वा अविद्यैव अविद्यां निवर्त्तयति? उक्तमत्र यथा रजसा रजसः प्रशमः एवं भेदातीतब्रह्मश्रवण मनन-ध्यानाऽभ्यासानां भेददर्शनविरोधित्वादविद्याया अप्यविद्यानिवर्तकत्वम् । तथा च तत्त्वविद्भिरत्रार्थे निदर्शना-१० न्युक्तानि -"यथा पयः पयो जरयति स्वयं च 'जीर्यति, यथा विषं विषान्तरं शमयति स्वयं च शाम्यति" [ ] एवं श्रवणादिषु द्रष्टव्यम्"। [. ___स्यादेतत् अभेदस्य तात्त्विकत्वे भेदस्यासत्यता, असत्यरूपश्च भावः कथं सत्यप्राप्तिसाधनम् ? यथा बाष्पादिभावेन सन्दिह्यमानात् 'धूमः' इति गृहीताद् न तात्त्विकी दहनप्रतिपत्तिः। अत्राभिदधति-नायं नियमः-असत्यं न किञ्चित् सत्यं कार्य जनयति यथा मायाकारप्रदर्शिता १५ माया प्रतीतेर्भयस्य च निमित्त तथा रेखा कादीनाम्, तन्नै(त्रै)तद् भवेत्-रेखाकादि स्वरूपेण सद् न खपुष्पसदृशम्, अभेदवादिनस्तु भेदस्य खपुष्पतुल्यत्वात् कथं सत्योपायता? नैष दोषः, सन्तुं स्वरूपेण रेखाकादयः येन तु रूपेण गमकास्तदसत्यम् । तथाहि-कादिरूपेण ते गमकाः तच्च तेषामसत्यम्-कार्योपयोगरहिता तु स्वरूपसत्यता व्यर्था । किञ्चः अभेददृष्युपायोऽपि न स्वरूपेणाऽसन् यतो ब्रह्मैवास्य रूपम् तत्र ब्रह्मैवाविद्यानुबद्धं स्वात्मप्रतिपत्त्युपायः२० यथा रेखाकादयः 'ककारोऽयम्' 'गवयोऽयम्' इत्यविद्यारूपेणैव कादीनां गमकाः । येऽप्याहुः"न रेखाकादयः कादित्वेन कादीनां गमकाः, एवं रेखागवयादयोऽपि न गवयत्वेन सत्यगवयादीनाम्; अपि तु सारूप्यात् एवंरूपा गवयादयः सत्याः, वर्णप्रतिपत्त्युपाया अपि दयः पुरुषसमयात् वर्णानां स्मारकाः न तु तेषां वर्णत्वेन वर्णप्रतिपादकत्वम्, रेखादिरूपेण च सत्त्वाद् गृहीतसमयानां पुनरुपलभ्यमानाः समयं स्मारयन्ति समयग्रहणाद् यथैव व्युत्प-२५ नानां बालादिषु प्रवृत्तिः” [ ], तेऽपि न सम्यगाचक्षते; लोकविरोधात् बाला हि रेखासु व्युत्पन्नैर्वर्णत्वेनैव व्युत्पाद्यन्ते, तथैवोपदेतृणां व्यपदेशः–'अयं गकारादिः' इति, प्रतिपत्तुश्च प्रतिपत्तिरभेदेनैव, एवं रेखागवयादिष्वपि द्रष्टव्यम्। त(य)थाऽसत्यात् (असत्यात् प्रतिबिम्बात् सत्यस्य) प्रतिबिम्बहेतोर्विशिष्टदेशावस्थस्यानुमानं न मिथ्या तथा शब्दादपि नित्यादसत्यदीर्धा १-प्रतियोगीमुव्य-हा० ।-प्रतियोगीतुव्य-आ० ।-प्रतियोगीपुव्य-भां० मा० । २-५ ते नित्यादि-वा. बा०। ३ बृहदा० उ० अ० ४ ब्रा० २ मं० ४, ब्रा० ४ मं० २२, ब्रा०५ मं० १५ । गौडपा० का० २६ पृ. १३५ । ४ स्वच्छां भां। ५ “घटादिषु प्रलीनेषु घटाकाशादयो यथा । आकाशे संप्रलीयन्ते तद्वज्जीवा इहात्मनि" ॥ गौडपा० का० ४ पृ० १०७ अद्वैताख्यप्र० । ६-कस्य व्यावृत्त्या भां० म०। ७ तत्रैतस्या-वा० वा. आ. हा०। ८ कथं चा-भां० मा० । ९-त्वविद्वद्भि-भां० मा०। १०-नि पयो यथा पयो आ० हा० वि०। ११ “यथा पयः पयोऽन्तरं जरयति खयं च जीर्यति, यथा विषं विषान्तरं शमयति, स्वयं च शाम्यति, यथा वा कतकरजो रजोऽन्तराविले पाथसि प्रक्षिप्तं रजोऽन्तराणि भिन्दत् खयमपि मिद्यमानमनाविलं पाथः करोति एवं कर्म अविद्यात्मकमपि अविद्यान्तराणि अपगमयत् खयमपि अपगच्छति" -ब्रह्मसू. अ. १ पा. १ सू० १ शाङ्क० भा. भाम. पृ. ५८ पं. १३-१६। १२-जीर्यते आ० वि०। १३-था मायाप्रती-वा० बा० । १४-त्तं रे-भां० मा विना । “तथा अकारादिसत्याक्षरप्रतिपत्तिदृष्टा रेखानृताक्षरप्रतिपत्तेः"-ब्रह्मसू० अ० २ पा० १ सू० १४ शाङ्क० भा० पृ. ४६०५०७॥ १५ सत्तु भां० मां० । सत्त हा०। १६-तु सरू-वा० बा०। १७-कारं ग-भां० मां०। १८ स गभा० मा० विना। १९ गवाद-भो० मां०। २०-यान् आ० हा०वि० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy