SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। २७५ खरूपनिमग्नत्वान्न नीलादेर्भिन्नस्य ग्राहको युक्तः; नहि बोधकाले नीलादिकमाभातीति तस्य बोधो प्राहको भवेत् नीलादेरपि बोधं प्रति ग्राहकतापत्तेः। ___अथ बोधात्मा पुरःस्थेषु नीलादिषु प्रत्यक्षतां प्रति व्याप्रियमाण उपलभ्यत इति ग्राहकः नीलादिस्तु तद्विषयत्वाद् ग्राह्यः, तदप्यसत्; व्यापारस्य तद्यतिरिक्तस्यानुपलम्भेनासत्त्वात-नहि प्रकाशमाननील-सुखादिरूपबोधाभ्यामन्यो व्यापार उपलभ्यते; उपलम्भे वा तस्य तत्राप्यपरो ५ व्यापारो बोधस्याभ्युपगन्तव्यः पुनस्तत्राप्यपरो व्यापार इत्यनवस्था। अथ स्वत एवासौ व्यापार उपलभ्यते; नन्वेवं तस्य स्वातनयेणोपलम्भाद् व्यापारताऽनुपपत्तिः, न हि बोधावभाससमये स्वत तनुरुद्भासमानः पदार्थबोधव्यापार इति युक्तम् , बोधस्यापि तद्यापारताप्रसङ्गात् । बोधपरतन्त्रत्वाद् व्यापारस्तद्यावृत्तिरिति चेत्, न; समानकालावभासिनस्तस्य पारतन्यायोगात् । न हि स्वरूपेण बोधकाले प्रतीयमानतनु तत् परतन्त्रं भवितुं युक्तम् , बोधस्यापि व्यापारपरतन्त्रतापत्तेः । अनिष्पन्न-१० रूपस्तु व्यापारः सुतरां न परतन्त्रः, नहि खरविषाणं तथाव्यवहारभाग लोके प्रसिद्धम् । तस्मादुभयथाप्यसत् पारतन्यम् । तन कस्यचिद व्यापारः। किञ्च, असावपि व्यापारः किमर्थे व्याप्रियते न वा इति कल्पनाद्वयम् । यदि न व्याप्रियते कथं तस्मिन् सत्यप्यर्थस्य ग्राह्यता बोधस्य च ग्राहकता? अथ व्याप्रियते तदा तत्राप्यपरो व्यापारोऽभ्युपगन्तव्यः तत्राप्यपर इति सैवानवस्था। अथ व्यापारस्य स्वरूपमेव व्यापारः; ननु नीलादेरपि व्यापृतिकाले स्वरूपमस्तीति तत् तस्य व्यापारः स्यात् १५ तसाद बोध-नील-व्यापारलक्षणस्य त्रितयस्यैककालमुपलम्भान्न कर्तृ-कर्म-क्रियाव्यवहतिः सम्भवतीति न ग्राह्य-ग्राहकभावः समस्ति तत्त्वतः। मिन्नकालयोस्तु ज्ञान-शेययोः परस्परसन्निधिनिरपेक्षोपलम्भप्रवर्तनान्न वेद्य-वेदकतासम्भवः । तन्न बोधात्मा तुल्यकालयोनील-पीतयोर्भेदस्य साधकः तस्य स्वरूपनिष्ठत्वात् । किञ्च, सोऽपि नीलादेर्भिन्नः प्रत्येतव्यः तदप्रतीतौ तेन नील-पीतादेर्भेदवेदनायोगात् । नहि भिन्नेनात्मनाऽप्रतीयमानो बोधोऽर्थान् मिन्नान् प्रतिपादयितुं समर्थः, शशविषाणा-२० देरपि व्यवस्थापकत्वप्रसङ्गात् । भिन्नस्तु बोधात्मा प्रत्ययान्तरेण किं प्रतीयते, उत स्वात्मनैव ? यदि 'प्रत्ययान्तरेण' इति पक्षः, सोऽनुपपन्नः; यतस्तदपि प्रत्ययान्तरमन्येन प्रत्ययान्तरेण भिन्नं प्रत्येतव्यम् तदप्यन्येनेत्यनवस्थाप्रसक्तिः स्यात् । अथात्मनैव, तदा स्वरूपनिमग्नत्वान्न नीलावभासं भिनत्ति तत् कुतो भेदसंवित् ? ___अथ स्वत एव नीलादेर्भेदवेदनम् , तदपि न युक्तम् ; यतो यदि स्वत एव नीलादयः प्रकाशन्ते २५ तदा स्वप्रकाशास्ते प्रसंजन्ति; स्वप्रकाशत्वे च नीलादेर्नीलस्वरूपं स्वात्मनि निमग्नं न पीतरूपसंस्पर्शि पीतस्वरूपं च स्वस्वरूपावभासं न नीलरूपसंस्पर्शि, तत् कुतः परस्पराऽसंवेदनात् स्वरूपतोऽपि भेदसंवित्तिः? भेदो हि द्विष्ठो द्वयसंवेदने सति विदितो भवेत्, नीलस्वरूपे वा परोक्षे 'नीलं न पीतमाभाति तथात्वे सत्येकतापत्तेः । अथ अप्रतिभासनमेव मेदवेदनम् । ननु नीलस्वरूपप्रतिभासे नीलं विदितम् पीतादिकं त्वनवभासमानं तत्र नास्तीति न शक्यं वक्तुम् , नास्तित्वावेदने च कुतो३० भेदेसिद्धिः स्वरूपमात्रस्य प्रतिभासनात् ? किञ्च, नीलादेरपि स्थलावभासिनोऽनेकदिकसम्बन्धात् परमाणुरूपतया व्यवस्थापनात स्वरूपमेदः स्यात् पुनर्नीलादिपरमाणूनामपि भिन्नदिक्सम्बन्धात् स्वरूपभेदो भवेत् तथा चानवस्थानान्न भेदस्थितिः। भेदो हि कस्मिंश्चिदेकरू सिद्धे तद्विपर्ययात् स्वरूपस्थितिमासादयेत्, न चानन्तरेण न्यायेन किञ्चिदप्येकं सिद्धम् परमाणोरप्यभेदासिद्धर्भवदभ्युपगमेन । न च नीलस्वरूपं सुखाद्यात्म-३५ तयानानु अभेदस्यापि प्रत्यक्षतोऽप्रसिद्धिः, यतो नीलादिप्रतिभासस्य मेदाऽवेदनमेवाऽमेदवेदनम् । अथ नीलादीनामात्मस्वरूपावेदनमेव भेदवेदनमिति परेणापि वक्तुं शक्यत एव, १-त्वान्नीला-आ० हा० वि०। २-हकापत्तेः आ० हा. वि.। ३-दार्थः बो-भां० मां०। ४-पारास्त-आ० हा० वि० ।-'पारस्य तद्या'-वि० सं०। ५ अनुत्पन्न-भां० मां० वा. बा०। ६ प्र. पृ० पं०६। ७-रस्व-आ. हा. वि. वा. बा.। ८-नात्माऽप्र-वा. बा० ।-नात्मा प्र-आ. हा. वि.। ९-प्यपरेणेत्यन-आ. हा० वि०। १०-सज्जन्ति वा० बा० । ११-स्पर्शि तत् कुतः आ० हा० वि.। १२-स्परसं-वा० बा.। १३ नीलं पी-वा. बा०। १४-स्तितावे-आ० वि०। १५-दसिद्धिः स्वरूपसिद्धिः स्वरूपमात्र-आ. हा० वि०। १६-स्था नात्र भे-भां. मां०। १७-रूपे स्थि-आ. वि. । १८-प्यमेदसि-भां० मां० विना। १९-भेदावे-वा. बा० । टपतात म RGP
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy