SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ २७२ प्रथमे काण्डेतेनात्रापि पर्याय एव 'अस्ति' इति मतिरस्येति द्रव्यास्तिकवत् व्युत्पत्तिष्टया; स च विशेषप्रस्ता. रस्य-ऋजुसूत्रशब्दादेः-आद्यो वक्ता । ननु च 'मूलव्याकरणी' इत्यस्य द्रव्यास्तिक-पर्यायनयावमिधेयाविति द्वित्वाद् द्विवचनेन भाव्यम्, न; प्रत्येक वाक्यपरिसमाप्तेः, अत एव चकारद्वयं सूत्र निर्दिष्टम् । शेषास्तु नैगमादयो विकल्पा भेदाः अनयोर्द्रव्यार्थिक-पर्यायार्थिकयोः । 'सिं' इति ५प्राकृतशैल्या। "बहुवयणेण दुवयणं" [ ] इति द्विवचनस्थाने बहुवचनम् । तथाहि-परस्परविविक्तसामान्य-विशेषविषयत्वाद् द्रव्यार्थिक-पर्यायार्थिकावेव नयौ, न च तृतीयं प्रकारान्तरमस्ति यद्विषयोऽन्यस्ताभ्यां व्यतिरिक्तो नयः स्यात् । तृतीयविषयस्य चासम्भवो मेदाभेदविनिर्मुक्तस्य भावस्वभावस्यापरस्यानुपपत्तेः । ताभ्यामन्य एकस्तद्वानर्थोऽस्तीति चेत्, न; १० स्वभावान्तराभावात् प्रकृतविकल्पानतिवृत्तेः तत्स्वभावातिक्रमे वा खपुष्पसदृशत्वप्रसक्तेः । ताभ्यां तद्वतोऽर्थान्तरइस्य(न्तरस्य) सर्वथा सम्बन्धप्रतिपादनोपायासम्भवात् समवायस्य तैरसम्बन्धे तयपदेशानुपपत्तेः, समवायान्तरकल्पनायामनवस्थाप्रसक्तेः विशेषणविशेष्यसम्बन्धकल्पनायामप्यपरापरतत्कल्पनाप्रसक्तेर्न सम्बन्धसिद्धिः। ततः स्थितमेतद् न किञ्चिन्नयद्वयबहिर्भावि भावस्वभावान्तरविकल्पनावलम्बि प्ररूपणान्तरमिति । केवलं तयोरेव शुङ्ग्यशुद्धिभ्यामनेकधा वस्तुस्वभावनिरूपण१५ विकल्पाभिधानवृत्तयो व्यवतिष्ठन्ते ।। ____ तत्र शुद्धो द्रव्यास्तिको नयः संग्रहनयाभिमतविषयप्ररूंढकः । तथा च संग्रहनयाभिप्रायःसर्वमेकं सत्, अविशेषात् । तथाहि-भावाः स्वरूपेण प्रतिभान्ति तच्च स्वरूपमेषी सल्लक्षणमविकल्पकप्रत्यक्षग्राह्यम् , भेदोऽन्यापेक्ष इति" न तेषां स्वरूपम्-यद् अन्यानपेक्षया झगित्येव प्रतीयते तत् स्वरूपम् , भेदस्य तु विकल्पविषयत्वादन्यापेक्षत्वेन काल्पनिकत्वम्; काल्पनिकं च अपरमार्थसदु२० च्यते । तथाहि-एवमेव भेदप्रतीतिः-'इदमस्माद् व्यावृत्तम्' एतच्चाध्यक्षस्यागोचरः, अत एव सर्वावस्थासु यद् अनुगतं रूपं तदेव तात्त्विकम्, यथा सर्पादिविकल्पेषु वोधमात्रं सर्वेष्वनुगच्छत् तथाभूतम्-सर्पाद्याकारास्तु व्यावृत्ताः परस्परतो भिन्नरूपा बाध्यन्ते, न पुनर्बाधकेन बोधमात्रस्य बाधा-तथा घटादिषु विभिन्नेषु मंद्रूपतावृत्तिः (?) यावरेण्यवस्था तावदनुगतीयां(याः) मृदूपतायाः सत्त्वम्, घटादीनां तु कश्चित् कालं प्रतीयमानानामप्यर्थक्रियां च साधयतां स्वप्नदृष्टपदार्थवन्न २५ सत्त्वम् । यथा स्वभेदेष्वनुगताया मृद्रूपतायास्तात्त्विकत्वम् एवं मृदूपत्वादीनामपि सत्त्वापेक्षया भेदरूपत्वान्न तात्त्विकत्वम् । अत एव तत्वविद्भिरुक्तम् १-ति द्रव्या-भां० मा० । २ पृ० २७१ पं. ७ । ३-ति द्विवच-आ० हा० वि० । ४-कंच वा-वा. बा। ५ 'दव्वढिओ य पजवणओ य' इति सूत्रे यद् 'य'द्वयं तदेव संस्कृतशैल्या 'च'कारद्वयम्-पृ. २७१ पं० ८। ६-करप्या मे-भां० मा०। ७ “आमा सिं" । प्राकृतप्र० षष्ठप० सू० १२ पृ. ७१ पं० ४।" "वेदंतदेतदो ङसाम्भ्यां सेसिमौ”। ८,३, ८१ है. प्रा०व्या० पृ. ९७ पं० १५ । ८ "बहुवयणेण दुवयणं छठिविभत्तीए भण्णइ चउत्थी । जह हत्था तह पाया नमोऽत्थु देवाहिदेवाणं" ॥ इति एतत् संपूर्ण पद्यं “उक्तं च" इत्युल्लिख्य निर्दिष्टम्-ललितवि० वृ. पृ० १२ द्वि. पं० १२ । “दुव्वयणे बहुवयर्ण" इत्याद्यपि तथैव निर्दिष्टम्-आव• हारि• वृ० पृ० ११ द्वि० पं०३ । मलयगिरिसूरिस्तु “यदाह पाणिनिः" इति निर्दिश्य "द्विवचन बहुवचनेन" इति सूत्रमुल्लिखति-धर्मसं० वृ० पृ० १०७ प्र. पं० ११ । “द्विवचनस्य बहुवचनम्। प्राकृतप्र० षष्ठप० सू० ६३ पृ. ८१ पं० १७ । ८, ३, १३० हैम० प्रा० व्या० पृ. १०७पं० ११ । प्राकृतरूपा० पृ. . पं० १८ सू० ८।२, ३, ३४ षड्भा० च० पृ. २० पं० २३ । “द्विवचने बहुवचनम्" प्राकृतम० पृ. ९२ पं०५ सू० १०६। ९-त भा-आ०। १० भावस्याप-वि०। ११-र इत्यस्य सर्व-वा० बा. विना। १२-रू. पकः भा० मां० ।-रूढः आ०। १३ तत्र स्व-वा० बा० । तत्व स्व-आ० हा० वि०। १४-पां स्वलक्षवा. बा०।-षां स्वलक्षणविक-आ. हा०वि०। १५-ति ते-वा. बा. विना । १६-गतरू-भां० मा० । १७ मृदूपताप्रवृत्तिः वा. बा० । मृदूपेतावृत्तिः हा० । मृदूपे नावृत्तिः वि०। १८-तायां सत्त्वं आ० हा०वि०।-तायाः सत्त्वं वा० बा०। १९-त्वमेव मृ-वा. बा. हा.वि. विना।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy