SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २६६ प्रथमे काण्डेवेन जाति-व्यक्त्योः सामग्रीभेदात् प्रत्यक्षादिबुद्धौ प्रतिभासनादू वैशद्याऽवैशद्यावभासभेदस्तत्र' इति प्रतिपादितम् । 'क्रमेण योगपद्येन वा आनन्त्या व्यक्तीनां प्रत्यक्षेऽप्रतिभासनान्न तासां जात्या तेन सम्बन्धवेदनम्' इत्यादिकमप्यस्माकमदूपणं यथाप्रदर्शितवस्त्वभ्युपगमवादिनां न प्रतिसमाधानमर्हति। शब्दार्थयोस्तु साक्षात् तदुत्पत्ति-तादात्म्यलक्षणसम्बन्धमन्तरेणापि सम्बन्धः परेणाभ्युप५गन्तव्यः अन्यथा 'यत् सत् तत् सर्व क्षणिकम् , अक्षणिके क्रम-योगपद्याभ्यामर्थक्रियाविरोधात्, संश्च शब्दः' इति, यत् किश्चित् सत् तत् सर्वमक्षणिकम् , क्षणिकेऽर्थक्रियानुपलब्धेः, संश्च ध्वनिः' इति साधनवाक्ययोः स्वपराभिप्रेतार्थसूचकयोः स्वलक्षणासंस्पर्शित्वेन भेदाभावात् साधनतदाभासव्यवस्थानुपपत्तिप्रसक्तिः। अथान्यतरसाधनवाक्यस्य पारम्पर्येण स्वलक्षणप्रतिबन्धादित. रस्माद् विशेषस्तीनिष्टमपि वाच्य-वाचकयोः सम्बन्धान्तरं हेतुफलभावविलक्षणं सामर्थ्यप्राप्तं १० परेणाभ्युपगतं भवति । न च शब्दस्य क्वचिद् व्यभिचारदर्शनात् सर्वत्राऽनाश्वासादप्रामाण्यकल्पना युक्तिमती, प्रत्यक्षस्यापि तथाभावप्रसक्तेः । अपि च, अन्यविवक्षायामन्यशब्ददर्शनाद् विवक्षायामपि क्वचिद् व्यभिचारात् सर्वत्रानाश्वासात् कथं विवक्षाविशेषसूचका अपि ते स्युः? अथ "सुविवेचितं कार्य कारणं न व्यभिचरति" [ इति न्यायाद् विवक्षासूचकत्वं शब्दविशेषाणां न विरुध्यते तर्हि येनैव प्रतिबन्धेन शब्दविशेषो १५ विवक्षाविशेषसूचकस्तत एवार्थविशेषप्रतिपादकोऽसौ किं नाभ्युपगम्यते ? अथ स्वाभिधित्सितार्थ प्रतिपादनशक्तिवैकल्यादन्यथापि प्रायशोऽभिधानवृत्तिदर्शनाद् विचित्राभिसन्धित्वात् पुरुषाणां विसंवादशङ्कया वक्रभिप्रायेऽपि तेषां प्रामाण्यं नाभ्युपगम्यत इति न तंन्यायेन बाह्येऽप्यर्थे एषां प्रामाण्यप्रसक्तिः, नन्वेवमप्रामाण्ये सर्वव्यवहारोच्छेदप्रसक्तिः । तथाहि-यजातीयात् क्वचित् कदाचिद् यथाभूतं दृष्टं तादृशादेव सर्वदा सर्वत्र तथाभूतमेव भवतीति निरभिप्रायेष्वपि पदार्थेषु २० नियमो नोपलभ्यते, इन्धनादिसामग्रीतोऽनलप्रादुर्भावदर्शनेऽप्येकदा मण्यादिप्रभवत्वेनापि तस्य समीक्षणात् कथं कायहेतावप्यव्यभिचारित्वनिबन्धन प्रामाण्यं परेणाभ्युपगन्तुं युक्तम? तथा, यद्यपि बहुलं वृक्षस्यैव भू(चू )तस्योपलम्भस्तथापि क्वचित् कदाचिल्लतात्मतयाऽप्यानस्य दर्शनात् शिंशपा वृक्षस्वभावमेय विभीति कथं प्रेक्षापूर्वकारिणी निःशङ्कं चेतो भवेत् ? यतो 'लता च स्यात् शिंशपा च' नैवात्र कश्चिद् विरोध इति 'वृक्षोऽयम् शिंशपात्वात्' इति स्वभावहेतोरप्यव्यभिचारनिबन्धन२५प्रामाण्याभ्युपगमः परस्य विशीर्येत । अथ खंभावस्य भावाभावेऽपि भवतो भावस्य निःस्वभावता पत्तेरव्यभिचारलक्षणं प्रामाण्यम् तादात्म्यात्, कार्यस्यापि कारणाभावे भवतः कार्यत्वाभावापत्तेस्तदुत्पत्तिस्वरूंपाव्यभिचारनिबन्धनं प्रामाण्यं विद्यत इत्यनुमानस्य प्रामाण्यम् । नन्वेवं यादृशं यादृग्भूतं स्वसन्ताने विवक्षाज्ञानमुत्पन्नं तादृग्भूतमेव श्रोतृसन्ताने ज्ञानमुत्पादयितुकामो वचनमुच्चारयन् परीर्थ वाऽनुमानं तदभ्युपगच्छन् शब्दानां बहिरर्थे सम्बन्धनिमित्तं प्रामाण्यं कथं प्रतिक्षिपेत् ? ३० अथानुमानस्यापि प्रामाण्यमव्यभिचाराप्रतिपत्तित एव नाभ्युपगम्यते कुतस्तर्हि तत्त्वव्यवस्था? न प्रत्यक्षात्, तत्रापि स्वार्थाव्यभिचारित्वस्य प्रामाण्य निबन्धनस्यासम्भवात् भवदभिप्रायेण सम्भ १-सनाद' वैशद्यावभासभेदस्त-भां० मां० विना। २ पृ. २३४ पं० १७। ३-थानन्तरसावा० बा०। ४ सर्वथा ना-आ० हा० वि० । सर्वदा ना-वा० बा० । ५-ना तद् वि-वा० बा०। ६ कथं विवक्षाविवक्षाविशेषसूत्रका-वा० बा०। ७-थापि थात्मनोभिधान-वा० बा०। ८ न च ग्यायेन वा० बा०। ९ प्र० पृ. पं० १३। १० "न चैवंवादिनः किञ्चिदनुमानं नाम, निरभिसन्धीनामपि बहुलं कार्यखभावानियमोपलम्भात् , सति काष्ठादिसामग्री विशेषे क्वचिदुपलब्धस्य तदभावे प्रायशोऽनुपलब्धस्य मण्यादिकारणकल, पेऽपि संभवात् । 'यज्जातीयो यतः संप्रेक्षितस्तज्जातीयात् ताइग्' इति दुर्लभनियमतायां धूम-धूमकेत्वादीनामपि व्याप्य-व्यापकभावः कथमिव निर्णीयेत? 'वृक्षः, शिंशपात्वात्' इति लताचूनादेरपि क्वचिदेव दर्शनात् प्रेक्षावतां किमिव निःशकं चेतः स्यात् ?"-(अष्टशती) अष्टस० पृ० ७१ पं० १६-पृ. ७२ पं० २। नन्वेवं प्रामा- वि० । नन्वेव प्रामा-आ० हा० वा. वा०। ११ यथा जाती-वि०। १२-चारित्वं नि-आ० । १३-हुलवृ-आ० । १४-क्षस्यैवंभूवि०।-क्षस्येव भू-हा०। १५-णां निश-भां० मा० वा. बा०। १६ लता द स्या-भां. मां. वा. बा. विना। १७ स्वभावाभावेऽपि आ० । स्वभावेऽपि वि०। १८-रूपां व्य-हा० वि० ।-रूपं व्य-आ० । १९ नन्वेवं यादग्भूतं स्व-भां० । नन्वेवं यादृशं यादग्भूतस्व-वि० । २०-रार्थ चा-भां० मां. हा०। २१-चारप्र-भां० मां० वा. बा. विना। २२ स्वार्थव्य-वा. बा. मां० वि० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy