SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संबन्धयोर्मीमांसा। २६३ पाधिमद्भावाभावान्न तद्वारेणापि तयोस्तद्वति वृत्तियुक्ता तयोरुपकार्योपकारकभावे उपाध्युपंकारिका शक्तिरुपाधिमतो यद्यभिन्ना तदैकोपाधिद्वारेणाप्युपाधिमतः प्रतिपत्ती सर्वोपाध्युपकारकम्वरूपस्यैव तस्य निश्चयापकार्यस्योपाधिकलापस्याप्यशेषस्य निश्चयप्रसक्तिः उपकारकनिर्णीतरुपकार्यनिश्चयनान्तरीयकत्वात् उपाधिमतो मेदे तच्छक्तेः सम्बन्धाभावः ततस्तासामनुपकारात् उपकारे वा तदुपकारशक्तीनामप्युपाधिमतो भेदाभेदकल्पनायामनवस्था सर्वात्मना ग्रहणं च प्रसज्यते इति पत- ५ दप्ययुक्तम् । यतः स्यादभेदे सकृद् ग्रहणं यदि तल्लक्षणोऽभेदः स्यात् यावता नाभेदस्यतलक्षणम् घटाचाकारपरिणतेष्वनेकपरमाणुषु सकृद् ग्रहणस्य भावेनाऽतिव्यापकत्वात् । अव्यापकं चैतत् अभेदेऽपि सत्त्वाऽनित्यत्वयोरभावात्, भावे वा सत्त्वप्रतिपत्तो क्षणक्षयस्यापि प्रतिपत्तेरनुमानवैफल्यप्रसक्तिः यथाऽनुभवं निश्चयोत्पत्तेः सत्त्ववत् क्षणिकत्वस्यापि तदैव निश्चयात् । अनादिभवाभ्यस्ताऽक्षणिकादिवासनाजनितमन्दबुद्धेः पूर्वोत्तरक्षणयोर्विवेकनिश्चयाभावात् स्वलक्षणस्य सर्वात्मनानुभवेनाधि-१० गमेऽपि क्षणिकत्वे निश्चयानुत्पत्तेरनुमानस्य साफल्यमिति चेत्, नः घट-कपालक्षणयोग्यविवेकनिश्चयप्रसक्तेः। अथात्र सदृशापरापरोत्पत्तेर्विप्रलम्भनिमित्तस्याभावान्न प्रसङ्गस्तर्हि इस्ववर्णद्वयोचारणे तत्प्रसक्तिः। तयोरनानन्तर्याद् वर्णद्वयान्तराले सत्त्वोपलम्भाभावात् तदप्रसङ्गे लघुवृत्तिर्विभ्रमनिमित्तं स्यात्-अन्यथा संयुक्ताङ्गुल्योरप्यविवेकनिश्चयः स्यात्-देशनैरन्तर्य-सादृश्ययोर्भावात् । सादृश्यनिमित्ता च न सर्वदा भ्रान्तिः स्यात्, उपलभ्यते च सर्वदा । न चान्त्यक्षणदर्शिनां विवेक-१५ निश्चयसद्भावादयमदोषः भावात् । सादृश्यनिमित्ता हि भ्रान्तिरवस्थित एव सादृश्ये निवर्तमाना उपलभ्यते अनिवृत्तौ वा नामाद्यर्थयोरपि न कदाचिद् भ्रान्तिनिवृत्तिः स्यात् सर्वदा तयोः सादृश्यात् । न चान्यापोहवादिनां भ्रान्तिनिमित्तं सादृश्यं वस्तुभूतमस्ति, सामान्यवादप्रसक्तेः। एकविज्ञानजनका एव क्षणाः सादृश्यमुच्यन्त इति चेत्, न; ततो विवेकानिश्चये रूपाऽऽलोक-मनस्कारादीनामपि सादृश्यमेकविज्ञानजनकत्वेनास्तीत्येकत्वनिश्चयस्तेष्वपि स्यात् । न च तेषां तत्रा-२० प्रतिभासनानासाविति वक्तव्यम्, यतः किमिति तेषां तत्राप्रतिभासनम् इति निमित्तमभिधानीयम्, असारूप्यं तन्निमित्तमिति चेत्, न; मनस्कारस्य सारूप्यात् तत्र प्रतिभासप्रसक्तेः। विलक्षणानां च कथं सारूप्यम् ? नैकविज्ञानजनकत्वाद रूपादावपि तत्प्रसङ्गात् । अथेष्यत एव तत् तेपाम्, न; रूपविज्ञानजनकत्वेन यत् तेषां सारूप्यं तदस्तु तस्यास्माभिरपि सदादिप्रत्ययहेतुत्वेन सदादित्वस्यवेष्टत्वात्, किं तर्हि रूपात्मना रूपादीनां रूपप्रत्ययहेतुत्वात् शाबलेयादीनामिव गोत्वात्मना सारूप्यं २५ गोप्रत्ययहेतूनां किं न स्याद् इति प्रेर्यते पारम्पर्येणैकपरामर्शप्रत्ययहेतुत्वस्यापि तेषु भावात् ? तद्धेतुस्वेऽपि न तेनात्मना सारूप्यं तेषामतद्विषयत्वादिति चेत्, ननु तदेव तदविषयत्वं कुतस्तषाम् ? न सारूप्यादिति वक्तव्यम्, चक्रकप्रसक्तेः। अथ सत्यपि सारूप्ये रूपादीनां सत्त्वोपलम्भाभावान्न भ्रान्तिः, ननु संत्त्वोपलम्भः किं देशनैरन्तर्यमभिधीयते, आहोस्वित् कालनैरन्तर्यम् , यद्वा उभयनैरन्तर्यमिति विकल्पाः। . तत्र न तावद् देशनैरन्तर्य यथोक्तभ्रान्तिनिमित्तम् , संयुक्ताङ्गुल्योस्तद्भावेऽपि भ्रान्तेरभावात् । कालनैरन्तैर्य च लघुवृत्तिरेव, न चासौ भ्रान्ति निमित्तम्, हस्ववर्णद्वयोच्चारणे तद्भावेऽप्यभावात् । नाप्युभयं तन्निमित्तम्, संयुक्ताङ्गुल्योः पूर्वापरक्षणयोरपि सद्भावेनोभयसद्भावेऽपि अभावादिस्थान्तरेतरभ्रान्तिकारणाभावात् किं न यथानुभवं विकल्पोत्पत्तिः ? सहकारिणोऽभ्यासादेरभावानो. १-मद्भावान्न आ० हा०। २-पकारिणा श-वा. वा.। ३ तदेको-वा० वा. वि. । ४ तस्य तन्निभां. मां. वा. बा. विना। ५-य शक्तिः आ०। ६ तदयुक्तम् वा. वा०। ७-स्याद्भेदे वा० वा. । ८-क्षणो भेदः भां० मांवा. बा. विना। ९-ता नाम भेदः स्यात् यावता नामभेदस्यैतल्ल-वा. वा० । १०-णम् घंटा-मां०। ११-त मे-आ० । १२-स्याप्र-वा० बा०। १३-भव नि-भां. मां. वा. वा. विना । १४ कस्यापि आ.। १५-पाटलक्षण-आ० वा. वा.। १६-वादप्र-भा० मां०। १७-वृत्तिवि-चा. बा। १८-दृश्यमितिनिमि-भां० मां०। १९ न वान्त्य-वि० विना। २०-वान् । भा० मा । २१-मुच्यत इ-भां. मां. वा. बा. विना। २२-कानिश्चयोरू-वा० बा०। २३ अतारूपं मां० मा. आ. हा० । अश्वारूप्यं-वा. बा०। २४-दवस्तु वि० । २५-त्वस्य चेट-वि० ।-त्वस्मै वेट-आ० । २६ तदेव विषयत्वं आ. हा. वि.। तदेव तदाविषयत्वं वा० बा०। २७ सत्तोप-बा. या०। २८-आहोश्चित् भा० मां. वा. वा. विना। २९ कालनैरन्तर्यमिति विकल्पाः वा. बा. विना। २. काले नै-भां. मां० विना। ३१-न्तयं ल-आ। ३२-वृत्ति एव वा० वा.। ३०
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy